वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 179, कुल 237 में से
संदर्भ में पढ़ेंयहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति देवनागरी लिप्यन्तरण प्रस्तुत है:
[पृष्ठ १३२]
ध्यमानमर्थमात्रम्। अचिन्त्यो हीन्द्रियाणां सामर्थ्यातिशयः प्रभावातिशयश्च योगस्य, तदप्यकिञ्चित्करम्; यतो यथैव कार्यमहेतुकं न भवति कादा- चित्कत्वव्याघातात्तथाऽनियतहेतुकत्वमपि नाहेतुकत्वाद् विशिष्यते, कारणस्य कार्यप्राग्भावनियमः कारणत्वं, तच्चानियतनिमित्तत्वेऽनुपपन्नम् । नहि जातु यवबीजमत्यन्तरपरिकर्मितमपि कल्माङ्कुराय परिकल्पते । नानाकारणमेकं वृश्चिकादि जनयतीति तु स्थूलदृशः । कुशाग्रधियस्तु तत्रापि कमपि जातिभेदं पश्यन्ति। तस्माद्यथैव कारणान्तराणि स्वकार्य- नियतसामर्थ्यानि स्वकार्याण्येव जनयन्ति स्वकार्यं पवातिशयमनुभवन्ति नाकार्ये नाप्यन्यकार्ये तथेन्द्रियाण्यपि न स्वविषये, नाप्यन्यविषये । तदुक्तं जैमिनिमहर्षिणा- "विद्यमानोपलम्भनत्वात्।" मानसम्प्रपि प्रत्यक्षं न सर्वं बोधयति, मनसो बहिरस्वतन्त्रत्वात् । रूपादी मनसः स्वातन्त्र्येऽन्धबधिराद्यभावप्रसङ्गात् । न खल्वन्यादृशो निमन्तस्कास्तेषां स्मृत्याद्यभावप्रसङ्गात् । यदप्युक्तमादरनैरन्तर्यदीर्घकाला- सेविता भावना करतलामलकवन्निर्मासविज्ञ।नफला भवति, यथा कामानुरथ कामिनी भावनोत्कविशेषणत्रयवती कामिनो- विषयविज्ञानविशदाभताहेतुस्तथैव सकलानेव दुःखिन आत्ममयाभ्युपग- च्छतां दानादिपारमिताभ्यासतनूकृतवान्तर्मलानां विशेषणत्रयोपेतया भावनया सर्वतत्त्वज्ञानं नासम्भवम् । न च भावनाप्रकर्षजं ज्ञानं भ्रान्तं प्रमाणसिद्धविषयत्वात् । समस्त- वस्तुविषयं च तन्नैरात्म्यसाक्षात्काररूपत्वाद्विश्वनैरात्म्यवैशद्यं विश्व- वैशद्यमेव । तदप्यसङ्गतम्; यतो भावनामयमपि विज्ञानं श्रुतानुमान- विषयमकस्माद् भावनाऽयोगादागमानुमानपरतन्त्रमेव पूर्वज्ञानभूतार्थ- विषयानुविधानात्सापेक्षत्वादप्रमाणमेव । न ह्यनुमानेन वह्निं व्यवस्थाप्य भावयतो वह्निविषयं विशदं विज्ञानं तत्प्रमाणमिन्द्रिय- सन्निकर्षजन्यस्य वह्निविज्ञानस्य भावनाधेयविशदाभविज्ञानेन सह सम्भवादनियमप्रसङ्गात् , बाहुल्येन विसंवादोपलम्भात् । ननु भगवतो बुद्धस्य निर्मूङ्कनिखिलक्लेशोपकलेशमलं विज्ञान- मनावरणं परितः प्रद्योतमानं स्वावलम्बनं प्रत्ययं सर्वाकारं गोचरयत्तस्य
[पृष्ठ १३३]
साक्षात्परम्परया वा सर्वेण सम्बन्धाद् देशकालविप्रकीर्णवस्तुविशिष्टस्व- भावतया तथैव गोचरयेत् । न च सर्वग्रहणमन्तरेणेति सर्वविषयमस्य विज्ञानमनावरणं सिद्धम् । तदेतदप्यनुपपन्नम्; रागादिमलानां तत्त्वावर- कता तदपगमे तत्त्वप्रतिभानसम्भवेऽपि न सर्वप्रतिभानं सम्भवति, भावनाप्रकर्षजमपि विशदाभमपि प्रत्यक्षभमर्थाव्यभिचारनियमाभावात् संशयाक्रान्तत्वादप्रमाणमेव तत् । सदर्थप्रकाशनं बुद्धेः स्वभावोऽसदर्थत्वं त्वागन्तुकमित्यसति बाधके सद्विषयकत्वमेवेति चेन्न । अनुमितभावितवह्निविषयविशदाभविज्ञाना- दिग्रामाण्यप्रसङ्गात् । तद्विषयस्य क्वचिद्वाधदर्शनादप्रामाण्यमिहापि समानम्। तदिह विशेषणत्रयवत्या भावनया विशदाभविज्ञानहेतुत्व- साधने सिद्धसाधनम् । भवतु तथागतस्तथाभूतविज्ञानवान् न तत्त्वे तद्विज्ञानमस्य प्रत्यक्षम्प्रमाणत्वात् । यदुच्यते— “निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः । न बाधो यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥”–इति । तदप्यकिञ्चित्करम्; भूतार्थत्वे हि बुद्धेस्तत्पक्षपातिता, भूतार्थैः प्रतिपक्षैर्बाधो न भवेत् । अभूतार्थात्वियं स्वात्माभावमापन्नाऽप्या- त्मीयदृष्टिरिव सम्भवद्बाधा । तस्माद्यथा कामातुरस्य कामिनी- विज्ञानमप्रमाणं तथैव भावनाप्रकर्षपर्यन्तजं ज्ञानमप्यप्रमाणमेव; अत एवाप्रत्यक्षमपि तत् । न च रागाद्यावरणविरहो विशेषः, न खल्वेते रागादयः कम्बलादिवदावरका विज्ञानस्य, किन्तु तदाक्षिप्तमना विवि- धविषयभेदतुष्गादिपरिल्लुतो न शक्नोति भावयितुमिति भावनादर- मात्र एव रागादिविरहोपयोगः । अस्ति चेहापि शिशिरतरसम्भूतजडिमप्र- न्यस्तरकायकाण्डस्यानुमितवह्निभावनामियोग इति न हेतुभेदः । यदुक्तम्- "न कालतो नियमश्चक्षुरादीनामवर्तमानरजताद्युपलब्धेः। न हि सा शुक्तिकाद्युपलब्धिरन्याकारसंविदोऽन्यविषयत्वायोगादनाश्वा- साच्च। अधिगतस्वान्त्यञ्च मनः स्वप्ने । न च स्वप्नज्ञानं स्मृतिरत्नद्रूपत्वात् । तदप्यकिञ्चित्करम्; वर्तमानशक्तिकशक्लादेरविषयत्वे तदसन्निधावपि