भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 179, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 179

यहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति देवनागरी लिप्यन्तरण प्रस्तुत है:

[पृष्ठ १३२]

ध्यमानमर्थमात्रम्। अचिन्त्यो हीन्द्रियाणां सामर्थ्यातिशयः प्रभावातिशयश्च योगस्य, तदप्यकिञ्चित्करम्; यतो यथैव कार्यमहेतुकं न भवति कादा- चित्कत्वव्याघातात्तथाऽनियतहेतुकत्वमपि नाहेतुकत्वाद् विशिष्यते, कारणस्य कार्यप्राग्भावनियमः कारणत्वं, तच्चानियतनिमित्तत्वेऽनुपपन्नम् । नहि जातु यवबीजमत्यन्तरपरिकर्मितमपि कल्माङ्कुराय परिकल्पते । नानाकारणमेकं वृश्चिकादि जनयतीति तु स्थूलदृशः । कुशाग्रधियस्तु तत्रापि कमपि जातिभेदं पश्यन्ति। तस्माद्यथैव कारणान्तराणि स्वकार्य- नियतसामर्थ्यानि स्वकार्याण्येव जनयन्ति स्वकार्यं पवातिशयमनुभवन्ति नाकार्ये नाप्यन्यकार्ये तथेन्द्रियाण्यपि न स्वविषये, नाप्यन्यविषये । तदुक्तं जैमिनिमहर्षिणा- "विद्यमानोपलम्भनत्वात्।" मानसम्प्रपि प्रत्यक्षं न सर्वं बोधयति, मनसो बहिरस्वतन्त्रत्वात् । रूपादी मनसः स्वातन्त्र्येऽन्धबधिराद्यभावप्रसङ्गात् । न खल्वन्यादृशो निमन्तस्कास्तेषां स्मृत्याद्यभावप्रसङ्गात् । यदप्युक्तमादरनैरन्तर्यदीर्घकाला- सेविता भावना करतलामलकवन्निर्मासविज्ञ।नफला भवति, यथा कामानुरथ कामिनी भावनोत्कविशेषणत्रयवती कामिनो- विषयविज्ञानविशदाभताहेतुस्तथैव सकलानेव दुःखिन आत्ममयाभ्युपग- च्छतां दानादिपारमिताभ्यासतनूकृतवान्तर्मलानां विशेषणत्रयोपेतया भावनया सर्वतत्त्वज्ञानं नासम्भवम् । न च भावनाप्रकर्षजं ज्ञानं भ्रान्तं प्रमाणसिद्धविषयत्वात् । समस्त- वस्तुविषयं च तन्नैरात्म्यसाक्षात्काररूपत्वाद्विश्वनैरात्म्यवैशद्यं विश्व- वैशद्यमेव । तदप्यसङ्गतम्; यतो भावनामयमपि विज्ञानं श्रुतानुमान- विषयमकस्माद् भावनाऽयोगादागमानुमानपरतन्त्रमेव पूर्वज्ञानभूतार्थ- विषयानुविधानात्सापेक्षत्वादप्रमाणमेव । न ह्यनुमानेन वह्निं व्यवस्थाप्य भावयतो वह्निविषयं विशदं विज्ञानं तत्प्रमाणमिन्द्रिय- सन्निकर्षजन्यस्य वह्निविज्ञानस्य भावनाधेयविशदाभविज्ञानेन सह सम्भवादनियमप्रसङ्गात् , बाहुल्येन विसंवादोपलम्भात् । ननु भगवतो बुद्धस्य निर्मूङ्कनिखिलक्लेशोपकलेशमलं विज्ञान- मनावरणं परितः प्रद्योतमानं स्वावलम्बनं प्रत्ययं सर्वाकारं गोचरयत्तस्य


[पृष्ठ १३३]

साक्षात्परम्परया वा सर्वेण सम्बन्धाद् देशकालविप्रकीर्णवस्तुविशिष्टस्व- भावतया तथैव गोचरयेत् । न च सर्वग्रहणमन्तरेणेति सर्वविषयमस्य विज्ञानमनावरणं सिद्धम् । तदेतदप्यनुपपन्नम्; रागादिमलानां तत्त्वावर- कता तदपगमे तत्त्वप्रतिभानसम्भवेऽपि न सर्वप्रतिभानं सम्भवति, भावनाप्रकर्षजमपि विशदाभमपि प्रत्यक्षभमर्थाव्यभिचारनियमाभावात् संशयाक्रान्तत्वादप्रमाणमेव तत् । सदर्थप्रकाशनं बुद्धेः स्वभावोऽसदर्थत्वं त्वागन्तुकमित्यसति बाधके सद्विषयकत्वमेवेति चेन्न । अनुमितभावितवह्निविषयविशदाभविज्ञाना- दिग्रामाण्यप्रसङ्गात् । तद्विषयस्य क्वचिद्वाधदर्शनादप्रामाण्यमिहापि समानम्। तदिह विशेषणत्रयवत्या भावनया विशदाभविज्ञानहेतुत्व- साधने सिद्धसाधनम् । भवतु तथागतस्तथाभूतविज्ञानवान् न तत्त्वे तद्विज्ञानमस्य प्रत्यक्षम्प्रमाणत्वात् । यदुच्यते— “निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः । न बाधो यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥”–इति । तदप्यकिञ्चित्करम्; भूतार्थत्वे हि बुद्धेस्तत्पक्षपातिता, भूतार्थैः प्रतिपक्षैर्बाधो न भवेत् । अभूतार्थात्वियं स्वात्माभावमापन्नाऽप्या- त्मीयदृष्टिरिव सम्भवद्बाधा । तस्माद्यथा कामातुरस्य कामिनी- विज्ञानमप्रमाणं तथैव भावनाप्रकर्षपर्यन्तजं ज्ञानमप्यप्रमाणमेव; अत एवाप्रत्यक्षमपि तत् । न च रागाद्यावरणविरहो विशेषः, न खल्वेते रागादयः कम्बलादिवदावरका विज्ञानस्य, किन्तु तदाक्षिप्तमना विवि- धविषयभेदतुष्गादिपरिल्लुतो न शक्नोति भावयितुमिति भावनादर- मात्र एव रागादिविरहोपयोगः । अस्ति चेहापि शिशिरतरसम्भूतजडिमप्र- न्यस्तरकायकाण्डस्यानुमितवह्निभावनामियोग इति न हेतुभेदः । यदुक्तम्- "न कालतो नियमश्चक्षुरादीनामवर्तमानरजताद्युपलब्धेः। न हि सा शुक्तिकाद्युपलब्धिरन्याकारसंविदोऽन्यविषयत्वायोगादनाश्वा- साच्च। अधिगतस्वान्त्यञ्च मनः स्वप्ने । न च स्वप्नज्ञानं स्मृतिरत्नद्रूपत्वात् । तदप्यकिञ्चित्करम्; वर्तमानशक्तिकशक्लादेरविषयत्वे तदसन्निधावपि