भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 181, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 181

३३६ वेदस्वरूप-विमर्शो न पुनः सर्वं तस्याहेतुत्वाद् देशतः कालतो वाऽसन्निधानात् । अन्यथा सर्वस्य सर्वदर्शित्वप्रसङ्गात् । अपि च सर्वं न क्रमेण शक्यावगममानन्त्यादेव न वा यौगपद्ये- नानन्त्यादेव । नैयायिकादयस्तु सर्वज्ञं जगत्कर्त्तारं परमेश्वरं प्रसाध्य तत्कर्तृकत्वेन वेदस्यैव धर्माधर्मार्थों प्रामाण्यं साधयन्ति । तथा वार्तिकतात्पर्य्ये वाचस्पतिमिश्रा वेदप्रामाण्यं सम्भावयन्ति । सम्भावनायास्तद्धेतुत्वात् । तदुक्तम्— सम्भावितप्रतिज्ञायां पक्षः साध्येत हेतुना । न तस्य हेतुभिक्षाणुमुत्पतन्नेव यो हतः ॥”—इति । परमेश्वरस्य परमदयालोः प्रत्यक्षीकृतहेयोपादेयस्य अतएवापास्त भ्रमप्रमादकरणापाटवादिसमस्तपुँदोषसामान्यस्य भूतोद्दिधीर्षया यथार्थ- चिख्यापयिषया वेदनिर्मातृत्वम् । प्राणिसुखदुःखादिवैचित्र्यान्यथानुपपत्त्या कारणवैचित्र्यं कल्प्यते । तच्च दृष्टभिन्नमदृष्टापूर्वधर्माधर्मादिशब्दितम् । तच्च न कस्यचिज्जीवस्य प्रत्यक्षमतीन्द्रियत्वात् । परमेश्वरश्च तनुभुवनादिलक्षणकार्यस्य कर्त्तृत्वात्तन्निर्माणानुकूलतत्त्वज्ञानचिकीर्षाकृति- मत्त्वेन क्लेशकर्माविपाकाशयैरपरामृष्टत्वेन सर्वज्ञः सर्वसमर्थः परमकारु- णिकश्चेति । ननु भुवनादिकार्यविद्वानुमीयते । सोऽयमात्मीयहिताहितप्राप्तिपरिहा- रोपायानविदुषोऽनेकविधदुःखदहनदह्यमानानवलोकयन् कथं न तप्येत, तप्यमानश्च हिताहितप्राप्तिपरिहारोपायन्तत्त्वं विद्वान् कथं नोपदिशेत्; कथं वान्यथोपदेिशेत् ? तस्मादनेन प्रजाः सृष्ट्वा ताभ्यो हिताहितप्राप्तिपरिहारो- पायोऽवश्यमुपदेष्टव्यः । न ह्ययमनुपदिश्य स्थातुमर्हति, प्रजानां पितृ- कल्पत्वास्योपदेशादेवर्षिपितृमनुष्यगोचरश्चातुर्वर्ण्येन चातुराश्रम्येणादराद् ग्राह्यो धार्यश्च धर्मः। तस्माद् वर्णाश्रमाचारव्यवस्थापको महाजनपरिगृहीतो वेदस्तत्प्रणीतः आप्तोक्तत्वान्मन्त्रायुर्वेदवन् प्रमाणमेव । न तथा शाक्यादिग- म्बरसंसारमोचकादीनामागमाः ईश्वरप्रणीता बुद्धर्षभादीनां तत्प्रणेतृत्वस्य


वेदप्रामाण्य-विमर्शः ३३७ स्फुटतरत्वात् । न च शौद्धोदनप्रभृतयो विश्वकर्त्तारो येन सर्वज्ञा भवेयुः । न च सम्भावनामात्रेण तत्प्रणीतेष्वागमेषु प्रेक्षावतामाश्वासो युक्तः । न चैतेपामागमा वर्णाश्रमाचारव्यवस्थाहेतवः । नो खलु निषेकाद्याः श्मशानान्ताः क्रियाः प्रजानामेते विदधति । बौद्धाद्यागमानुसारिणोऽपि श्रुतिस्मृतिपुराणादीनुपजीव्यैव व्यवहरन्ति । सांवृतमिति प्रलपन्तोऽपि अश्वघोषादयो बुद्धचरिते पुराणेतिहासाद्याश्रया एव कथा विपर्य्यस्त- रूपेणोद्भूतवन्तः । तस्माद्वेदेषु जगन्निर्मातृकर्तृकत्वस्मृतिर्भवेद्वा मा वा त एव त्वीश्वरप्रणीता इति पश्यामः । न चैतं चैत्यवन्दनादिवाक्यवदन्यकर्तृकाः स्मर्यन्ते । नान्य आगमो लोकयात्रामुद्धहन् महाजनपरिगृहीत ईश्वरप्रणीततया स्मर्यमाणो दृश्यते । तस्माद्वेदा एवेश्वरप्रणीताः, त एव त्रैवर्णिकैरद्य यावत्प्रयत्नेन गृह्यन्ते धार्यन्ते च । तदर्थपालनायाञ्च महर्षिपरम्पराभिरङ्गोपाङ्गेतिहासपुराणधर्म- शास्त्राणि प्रणीतानि । बुद्धादिवाक्यानि न तथाभूतानि । न चैतेषां मन्वा- दिवाक्यवद् वेदमूलकत्वेन प्रामाण्यम् । वेदनिन्दकबुद्धवाक्येषु वेदमूल- कत्वेन प्रामाण्यम् । वेदनिन्दकबुद्धवाक्येषु वेदमूलकत्वानुमापकलिङ्गा- भावात् । तत्सर्वज्ञत्वसंशयेन चानुभवमूलकत्वस्य च वक्तुम शक्य- त्वात् । प्रवृत्तिसामर्थ्यानुमितप्रामाण्येषु मन्त्रायुर्वेदेषु वैदिकशान्तिक- पौष्टिकादिकर्माभ्यनुज्ञानात् , रसायनादिकृत्यारम्भे च वेदविहितचान्द्रा- यणादिप्रायश्चित्तोपदेशादाप्तप्रणीतेनायुर्वेदेन वेदानां प्रामाण्याभ्युपगमाद् वेदानां प्रामाण्यमेव । अत्रानुमानमपि—“मन्त्रायुर्वेदवाक्यानि सर्वज्ञकर्तृकानि, महाजन- परिगृहीतत्वे सत्यलौकिकार्थप्रतिपादकत्वात् ।” यानि तु न सर्वज्ञकर्तृ- कानि तानि नैवंरूपाणि, यथा बुद्धादिवाक्यानि । तान्यलौकिकार्थान्यपि न महाजनपरिगृहीतानि । मन्त्रायुर्वेदानां सत्यपि प्रवृत्तिसामर्थ्ये तासां तासामोषधीनां- तत्संयोगभेदानाञ्च तत्तत्क्षारावापोद्धारभेदस्य च नासर्वज्ञः सहस्त्रेणापि पुरुषायुषैः शक्तः कर्तुम् । वे० वि०-२२