भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 191, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 191

३५६ वेदस्वरूप-विमर्श पक्षधर्मतावशाच्चेन्द्रियकरणविशेषसिद्धिर्भवति' अत एव न दृष्टसलक्षण- स्यैव साध्यस्य सिद्धिरुक्तेन्द्रियानुमाने दृष्टविलक्षणसाध्यसिद्धेरिष्टत्वात् । यत्तु रूपादिपरिच्छित्यन्यथानुपपत्त्यातत्सिद्धिरिति तदप्य- किञ्चित्करम् । सर्वज्ञत्वसिद्धावपि तथैव वक्तुं शक्यत्वात् । यदप्युक्तमहद्वत्क्षेत्रज्ञपरमाणुसंयोगाद्भूतभौतिकायुत्पत्त्युपपत्त्या न तदनुपपत्त्या सर्वज्ञसिद्धिरिति तदतोव मन्दम्, चेतनानाधिष्ठितस्यापूर्वस्य तदुपपादकत्वासम्भवात् । न च क्षेत्रज्ञाधिष्ठानेन तदुपपत्तिस्तस्याल्पज्ञ- स्याधिष्ठातृत्वानुपपत्तेः । यच्चोक्तं परमेश्वरस्य प्राप्तखिलप्रापणीयस्य प्राप्तव्याभावादत एव क्रीडासाध्यस्यापि सुखस्याप्राप्तत्वान्न क्रीडार्थमपि तत्प्रवृत्तिर्नापि कारुण्येन परार्थं प्रवृत्तिः सुखमयस्यैव लोकस्य सृष्टिप्रसङ्गादित्यादि, तदप्यसङ्गतम् । धर्माधर्मसापेक्षस्य परमेश्वरस्य विचित्रप्रपञ्चनिर्माणे बाधानुपपत्तेः। न च दुःखहेतोरधर्मस्य कारुण्येनाधिष्ठानं नोपपद्यत इति वाच्यम्, तस्यापि पापक्षयवैराग्यादिजननाद्युपायतया कारुण्येन तदधिष्ठानोपपत्तेः । न च दुःखोत्पादस्येश्वराधीनत्वेन तस्य तत्र वैमुख्येन तदनुत्पादे तदत्यन्तविमोक्षरूपस्यापवर्गस्यानायासेन सिद्धत्वा- त्कृतं कारुण्येन परार्थप्रवृत्त्येति वाच्यम्; सृष्टिमन्तरा तदनुपपत्तेः । तथाहि— "ऋते ज्ञानान्न मुक्तिः” 'तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इत्यादिश्रुतिप्रामाण्यात् तत्त्वसाक्षात्कार- मन्तराऽनाद्यविद्याकामकर्मलक्षणबन्धनिवृत्तिपूर्वकरमानन्दावाप्तिलक्षणो मोक्षो न सिद्धयेव । तत्त्वसाक्षात्कारश्च वेदान्तश्रवणादिसाधनमन्तरा नोपपद्यते, श्रवणादिकञ्च देहेन्द्रियादिसृष्टिमन्तरा नोपपद्यत इति—कुतः सृष्टिमन्तरा तद्वैमुख्यमात्रेण मोक्षसिद्धिः ? यच्चोक्तं नासर्वज्ञः सर्वज्ञं ज्ञातुं शक्नोति, तज्ज्ञानाय सर्वज्ञान्तराभ्युप- गमेऽनवस्थाप्रसङ्ग इति; तदपि धूलिप्रक्षेपमात्रम्, पूर्वोक्तैरनुमानैः श्रुति- स्मृतीतिहास-पुराणादिभिः परमेश्वरस्य सार्वज्ञ्यमस्मदादिभिरपि ज्ञातुं शक्यत्वात् । अपि चैवमेव शास्त्रज्ञज्ञानेऽपि विकल्पः सम्भवति ।


वेदप्रामाण्य-विमर्शः ३५७ शास्त्रज्ञं ज्ञात्वा शास्त्राध्ययनाय छात्राः प्रवर्तन्ते । यत्रापि नाशास्त्रज्ञः शास्त्रज्ञं ज्ञातुं शक्नोति, तज्ज्ञानमन्तरा कथमध्ययनाय प्रवर्त्येत ? शास्त्रज्ञक्षेत्रांतरौ प्रवर्तिष्येते ? वस्तुतस्तु पूर्वमीमांसकानामपि नेश्वरस्य तत्सर्वज्ञतायाश्च खण्डने तात्पर्यम् । किन्तु तत्रानुमानस्वातन्त्र्यखण्डन एव । उत्तरमीमांसकंस्तु “तन्त्वौपनिषदं पुरुषं पृच्छामि” "नावेदविन्मनुते तं बृहन्तम्" "शास्त्रयो- नित्वात्” इत्यादिश्रुतिसूत्रादिभिर्धर्मस्येव ब्रह्मणोऽपि वेदैकसमधि- गम्यत्वमुपेयते । वेदार्थस्योपपत्तये बुद्ध्यारोहाय च "मन्तव्य” इति श्रुत्यनुरोधेनैव श्रुत्यविरुद्धानुमानानि युक्तिरूपेणोपादीयन्ते “मन्तव्यश्चो- पपत्तिभिरे'त्याद्योक्तेः । नैयायिकादिभिस्त्वीश्वरोक्तत्वेन वेदस्य प्रामाण्यमुपेयते, तस्य च वेदोक्तत्वेन सिद्धावन्योन्याश्रयापत्त्या तत्र स्वातन्त्र्येणानुमानप्रामाण्य- मुच्यते । तत्रानुमानेनेश्वरसामान्यसिद्धावपि न तस्य वेदकारत्वं साधयितुं शक्यते । तथाह्येज्यैरपि वेदविरोधिभिर्बौद्धजैनख्रिष्टीयमौहम्मदमतानु- यायिभिः स्वस्वसम्प्रदायानुकूलग्रन्थकारस्यापि परमेश्वरत्वसर्वज्ञत्वादिकञ्च साधयितुं शक्यत एवेति तैरविशेषोपत्तिरेव वेदस्य भविष्यति । तथात्वे सापेक्षत्वेनैव वेदस्य प्रामाण्यस्वतस्त्वं भज्येत । वैदिकैस्तु चतुर्मुखस्य ब्रह्मणो निर्मात्रापीश्वरेण वेदा न निर्मीयन्ते किन्तु प्रवाहरूपेण नित्यसिद्धा एव वेदा ब्रह्मणो हृदि प्रकाश्यन्ते । “यो वै ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै" इत्यादिश्रुतेः । वेदान्तमतरीत्या वेदानां ब्रह्मोपादानकत्वे तत्र ब्रह्मणः स्वातन्त्र्या- भावेनापौरुषेयत्वमेव । तावतैवापास्तसमस्तपुंदोषशङ्काकलङ्कत्वेन धर्म इव ब्रह्मण्यपि स्वत एव प्रामाण्यम् । नैवात्र मीमांसकानां विरोधाले- शोऽपि । न च सृष्टिप्रलयाऽङ्गीकारेण सम्प्रदायविच्छेद इति वाच्यम् , परमेश्वरे सम्प्रदायाविच्छेदस्य वर्तमानत्वात् । न च बहुषु सम्प्रदाया- विच्छेदे यथाश्वासो न तथैकस्मिन्नीश्वरेऽपीति वाच्यम्, बहूनामप्यपेक्ष- याऽऽप्ततम एकस्मिन्नपि तत् सम्भवात् । बहुष्वनाप्तेषु तदसम्भवाच्च । अपि च सुप्तप्रतिबुद्धन्यायेन हिरण्यगर्भादिषु बहुषु प्रजापत्यादिषु