वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 191, कुल 237 में से
संदर्भ में पढ़ें३५६ वेदस्वरूप-विमर्श पक्षधर्मतावशाच्चेन्द्रियकरणविशेषसिद्धिर्भवति' अत एव न दृष्टसलक्षण- स्यैव साध्यस्य सिद्धिरुक्तेन्द्रियानुमाने दृष्टविलक्षणसाध्यसिद्धेरिष्टत्वात् । यत्तु रूपादिपरिच्छित्यन्यथानुपपत्त्यातत्सिद्धिरिति तदप्य- किञ्चित्करम् । सर्वज्ञत्वसिद्धावपि तथैव वक्तुं शक्यत्वात् । यदप्युक्तमहद्वत्क्षेत्रज्ञपरमाणुसंयोगाद्भूतभौतिकायुत्पत्त्युपपत्त्या न तदनुपपत्त्या सर्वज्ञसिद्धिरिति तदतोव मन्दम्, चेतनानाधिष्ठितस्यापूर्वस्य तदुपपादकत्वासम्भवात् । न च क्षेत्रज्ञाधिष्ठानेन तदुपपत्तिस्तस्याल्पज्ञ- स्याधिष्ठातृत्वानुपपत्तेः । यच्चोक्तं परमेश्वरस्य प्राप्तखिलप्रापणीयस्य प्राप्तव्याभावादत एव क्रीडासाध्यस्यापि सुखस्याप्राप्तत्वान्न क्रीडार्थमपि तत्प्रवृत्तिर्नापि कारुण्येन परार्थं प्रवृत्तिः सुखमयस्यैव लोकस्य सृष्टिप्रसङ्गादित्यादि, तदप्यसङ्गतम् । धर्माधर्मसापेक्षस्य परमेश्वरस्य विचित्रप्रपञ्चनिर्माणे बाधानुपपत्तेः। न च दुःखहेतोरधर्मस्य कारुण्येनाधिष्ठानं नोपपद्यत इति वाच्यम्, तस्यापि पापक्षयवैराग्यादिजननाद्युपायतया कारुण्येन तदधिष्ठानोपपत्तेः । न च दुःखोत्पादस्येश्वराधीनत्वेन तस्य तत्र वैमुख्येन तदनुत्पादे तदत्यन्तविमोक्षरूपस्यापवर्गस्यानायासेन सिद्धत्वा- त्कृतं कारुण्येन परार्थप्रवृत्त्येति वाच्यम्; सृष्टिमन्तरा तदनुपपत्तेः । तथाहि— "ऋते ज्ञानान्न मुक्तिः” 'तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इत्यादिश्रुतिप्रामाण्यात् तत्त्वसाक्षात्कार- मन्तराऽनाद्यविद्याकामकर्मलक्षणबन्धनिवृत्तिपूर्वकरमानन्दावाप्तिलक्षणो मोक्षो न सिद्धयेव । तत्त्वसाक्षात्कारश्च वेदान्तश्रवणादिसाधनमन्तरा नोपपद्यते, श्रवणादिकञ्च देहेन्द्रियादिसृष्टिमन्तरा नोपपद्यत इति—कुतः सृष्टिमन्तरा तद्वैमुख्यमात्रेण मोक्षसिद्धिः ? यच्चोक्तं नासर्वज्ञः सर्वज्ञं ज्ञातुं शक्नोति, तज्ज्ञानाय सर्वज्ञान्तराभ्युप- गमेऽनवस्थाप्रसङ्ग इति; तदपि धूलिप्रक्षेपमात्रम्, पूर्वोक्तैरनुमानैः श्रुति- स्मृतीतिहास-पुराणादिभिः परमेश्वरस्य सार्वज्ञ्यमस्मदादिभिरपि ज्ञातुं शक्यत्वात् । अपि चैवमेव शास्त्रज्ञज्ञानेऽपि विकल्पः सम्भवति ।
वेदप्रामाण्य-विमर्शः ३५७ शास्त्रज्ञं ज्ञात्वा शास्त्राध्ययनाय छात्राः प्रवर्तन्ते । यत्रापि नाशास्त्रज्ञः शास्त्रज्ञं ज्ञातुं शक्नोति, तज्ज्ञानमन्तरा कथमध्ययनाय प्रवर्त्येत ? शास्त्रज्ञक्षेत्रांतरौ प्रवर्तिष्येते ? वस्तुतस्तु पूर्वमीमांसकानामपि नेश्वरस्य तत्सर्वज्ञतायाश्च खण्डने तात्पर्यम् । किन्तु तत्रानुमानस्वातन्त्र्यखण्डन एव । उत्तरमीमांसकंस्तु “तन्त्वौपनिषदं पुरुषं पृच्छामि” "नावेदविन्मनुते तं बृहन्तम्" "शास्त्रयो- नित्वात्” इत्यादिश्रुतिसूत्रादिभिर्धर्मस्येव ब्रह्मणोऽपि वेदैकसमधि- गम्यत्वमुपेयते । वेदार्थस्योपपत्तये बुद्ध्यारोहाय च "मन्तव्य” इति श्रुत्यनुरोधेनैव श्रुत्यविरुद्धानुमानानि युक्तिरूपेणोपादीयन्ते “मन्तव्यश्चो- पपत्तिभिरे'त्याद्योक्तेः । नैयायिकादिभिस्त्वीश्वरोक्तत्वेन वेदस्य प्रामाण्यमुपेयते, तस्य च वेदोक्तत्वेन सिद्धावन्योन्याश्रयापत्त्या तत्र स्वातन्त्र्येणानुमानप्रामाण्य- मुच्यते । तत्रानुमानेनेश्वरसामान्यसिद्धावपि न तस्य वेदकारत्वं साधयितुं शक्यते । तथाह्येज्यैरपि वेदविरोधिभिर्बौद्धजैनख्रिष्टीयमौहम्मदमतानु- यायिभिः स्वस्वसम्प्रदायानुकूलग्रन्थकारस्यापि परमेश्वरत्वसर्वज्ञत्वादिकञ्च साधयितुं शक्यत एवेति तैरविशेषोपत्तिरेव वेदस्य भविष्यति । तथात्वे सापेक्षत्वेनैव वेदस्य प्रामाण्यस्वतस्त्वं भज्येत । वैदिकैस्तु चतुर्मुखस्य ब्रह्मणो निर्मात्रापीश्वरेण वेदा न निर्मीयन्ते किन्तु प्रवाहरूपेण नित्यसिद्धा एव वेदा ब्रह्मणो हृदि प्रकाश्यन्ते । “यो वै ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै" इत्यादिश्रुतेः । वेदान्तमतरीत्या वेदानां ब्रह्मोपादानकत्वे तत्र ब्रह्मणः स्वातन्त्र्या- भावेनापौरुषेयत्वमेव । तावतैवापास्तसमस्तपुंदोषशङ्काकलङ्कत्वेन धर्म इव ब्रह्मण्यपि स्वत एव प्रामाण्यम् । नैवात्र मीमांसकानां विरोधाले- शोऽपि । न च सृष्टिप्रलयाऽङ्गीकारेण सम्प्रदायविच्छेद इति वाच्यम् , परमेश्वरे सम्प्रदायाविच्छेदस्य वर्तमानत्वात् । न च बहुषु सम्प्रदाया- विच्छेदे यथाश्वासो न तथैकस्मिन्नीश्वरेऽपीति वाच्यम्, बहूनामप्यपेक्ष- याऽऽप्ततम एकस्मिन्नपि तत् सम्भवात् । बहुष्वनाप्तेषु तदसम्भवाच्च । अपि च सुप्तप्रतिबुद्धन्यायेन हिरण्यगर्भादिषु बहुषु प्रजापत्यादिषु