वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 192, कुल 237 में से
संदर्भ में पढ़ेंसर्वस्वरूप-विमर्श तथा वेदप्रामाण्य-विमर्शः से संबंधित प्रस्तुत पृष्ठों का पंक्ति-दर-पंक्ति लिप्यन्तरण नीचे दिया गया है:
[पृष्ठ ३५८]
३५८ वेदस्वरूप-विमर्श विशिष्टतपःसमासादितसिद्धिषु सम्प्रदायपारम्पर्याविच्छेदः सृष्टिप्रलया- ङ्गीकारेऽपि शक्यसमर्थन एवेति न काचिदनुपपत्तिः । ननु वेदस्य ब्रह्मोपादानकत्वे कथमपौरुषेयत्वमिति चेन्न; प्रामाणान्तरेणार्थमुपलभ्य विरचितत्वस्यैव पौरुषेयत्वेन वेदे तदभावेनापौरुषेयत्वस्यानपायात् । नहि पुरुषोच्चरितत्वं पौरुषेयत्वं तथात्वे मीमांसकम्मन्यस्यापि मते पौरुषे- यत्वापातात् । वर्णानित्यत्ववादिनोऽपि विभूनां नित्यानां वर्णानां देशतः कालतश्च पौर्वापर्य रूपमानुपूर्व्यं नोपपद्यते । न चानुपूर्व्यमन्तरा वर्णानां पदत्वं पदानां च वाक्यत्वं वा सम्भवति । तस्मात्क