वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 194, कुल 237 में से
संदर्भ में पढ़ें३६२ वेदस्वरूप-विमर्श वापौरुषेयत्वमिति जैमिनीया अपि रोचयन्ते। नचैकस्य प्रतिभाने- ऽनश्वास इति युक्तम् । नहि बहूनामप्यज्ञानां विज्ञानां वाऽऽशय- दोषवतां प्रतिभाने युक्त आश्वासः। तत्त्वज्ञानतश्चापास्तसमस्तदोषस्यै- कस्यापि प्रतिभाने युक्त एवाश्वासः। सर्गादिभुवां प्रजापतिदेवर्षीणां धर्म- ज्ञानं वैराग्यैश्वर्यसम्पन्नानामुपपद्यते तत्स्वरूपावधारणम् । तत्प्रत्ययेन चार्वाचीनानामपि तत्र सम्प्रत्ययः। यथाग्निहोत्रादिचोदनावाक्यैरग्निहोत्रादीनां स्वर्गादिभिः कार्यकार- णभावोऽवगम्यते, तथैव वेदान्तवाक्यैः सर्वज्ञस्य सर्वशक्तिमतः पर- मेश्वरस्य जगत्कारणत्वं शास्त्रयोनित्वञ्च विज्ञायते। यदपि पूर्वकालो, न वेदशून्यः, कालत्वाद्, वर्तमानकालवत् इत्यादि- रीत्या वर्णपदवाक्यरूपस्य वेदस्य नित्यत्वमपौरुषेयत्वञ्चोपपद्यते, तथापि तन्नोपपद्यते, सावयवेन जगतः कार्यत्वसिद्ध्या कार्यत्वेन चानित्यत्व- सिद्ध्या आंशिकप्रलयस्य प्रत्यक्षसिद्धत्वेन समग्रप्रलयस्याप्यनुमातुं शक्य- त्वात्। वेदान्तेषुच स्पष्टं सृष्ट्यादिकं श्रूयते। प्रतिज्ञादृष्टान्तोपरोधाद्यापस्त्या वेदान्तिभिर्ब्रह्मातिरिक्तस्य सर्वस्यैव कार्यत्वाभ्युपगमेन वेदस्य कार्यत्वेऽपि प्रमाणान्तरेणार्थमुपलभ्य विरचितत्वरूपप्रयोजकोगलक्षणस्य पौरुषेयत्व- स्याभावादपौरुषेयत्वमेव, न वेदनित्यताभ्युपगमादिकमास्तिक्यप्रयोजकम्, किन्तु तत्प्रामाण्याभ्युपगमस्यैव तद्धेतुत्वम्। “अत्र वेदा अवेदाभवन्ति” “वेदास्तं परादुर्योऽन्यत्रात्मनो वेदान् वेद, त्यादिश्रुतिभिरेव वेदानां ब्रह्मानतिरिक्तत्वं बोध्यते। तदनुरोधेनैव वाचो विरूपनित्यया इत्यादिनित्य- त्वप्रतिपादकवचनानां प्रवाह्नित्यत्वबोधनपरत्वमेवाभ्युपगन्तव्यमित्युक्त- मेव। वेदार्थस्य धर्मस्य ब्रह्मणो वा प्रत्यक्षविषयत्वेन तत्राज्ञातज्ञापकत्या- पौरुषेयत्वेनापास्तसमस्तभ्रमप्रमादादि-पुंदोषशङ्काकलङ्कस्य वेदादिलक्षण- शास्त्रस्यैव प्रामाण्यम्, तत्र यथा चक्षुषैव रूपमुपलभ्यते नान्येन श्रोत्रा- दिनेत्यन्ययोगव्यवच्छेदोऽभिप्रेतस्तथैवालोकादिसहकृतेन निर्दोषमनः संयुक्तेन विमलेन चक्षुषा रूपमुपलभ्यत एव, न चोपलभ्यत इत्ययोगव्यव- च्छेदोऽप्यभिप्रेतः। एवमेव चोदनैव लक्षणं धर्मस्य नान्यत् प्रत्यक्षादि- कम्, चोदना च लक्षणं (बोधक) मेव धर्मस्येति रीत्याऽयोगान्ययो- वेदप्रामाण्य-विमर्शः ३६३ गत्यावृत्त्यैव चोदनाया धर्मे प्रामाण्यम्। एवं शास्त्रमेव योनिः स्वरूप- सिद्धौ प्रमाणं यस्य, शास्त्रञ्च योनिरव तत्स्वरूपसिद्धावित्यादावपि बोध्यम्, यथाऽऽलोकादि सहकार्याभावे चक्षुषा रूपानुपलब्धावपि नायोगस्तथैव साधनसम्पत्त्युपक्रमोपसंहरादिभिर्विचाराभावे शास्त्रस्य तल्लक्षकत्वेऽपि नायोगः शक्यशङ्कः। नैतावदेव प्रपञ्चस्य मिथ्यात्व- सत्यत्वग्राहिणोः श्रुतिप्रत्यक्षयोर्विरोधेऽपि दोषाशङ्काकलङ्कित्वेन प्रथम- प्रवृत्तस्यापि प्रत्यक्षस्य दौर्बल्यम्, निर्दोषत्वेनापच्छेदन्यायेन परत्वाच्च श्रुतेरेव प्राबल्यम्, तत एव पृथिव्यादिषु सङ्कीर्णतया प्रतीयमानानां गन्धादीनां - 'उपलब्ध्याप्सु चेद् गन्धं केचिद् ब्रूयुरनैपुणाः। पृथ्व्यामेव तं विद्यादपो वायुञ्च संश्रितम्॥” व्यवस्थायो वक्तव्यत्वेन प्रत्यक्षादागमप्राबल्यं निर्विशङ्कमेव। पृथिव्यादीनां परस्परव्यतिषक्ततयाऽन्योन्यधर्माणांमन्योन्यस्मिन्नवभासः सम्भवत्येवेति प्रत्यक्षस्य शङ्कितदोषत्वेन निर्दोषागमस्यैव प्राबल्यं स्पष्टम्। न चैवमागमस्य प्रत्यक्षात्प्राबल्ये "यजमानः प्रस्तरः" "आदित्यो यूपः" इत्यादौ प्रत्यक्षाविरोघाय यजमानादित्यादिशब्दानां प्रस्तरयूपादिषु गौणीवृत्तिरनाश्रयणीया स्यात्। सोमेन यजेदित्यत्र च वैयधिकरण्ये- नान्वये यागसोमयोरेकयागसाधनत्वबोधने वाक्यभेदप्रसक्त्या सामा- नाधिकरण्येनान्वये प्रत्यक्षाविरोधाय सोमवता यागेनेति मत्वर्थलक्षणा च न कल्पनीया। सत्यपि प्रत्यक्षविरोधे प्रबलेनागमेन प्रस्तरे यजमाना- भेदस्य यागे सोमाभेदस्य च सिद्धिसम्भवादिति चेदत्र भामती- कारः-तात्पर्यवती श्रुतिरेव प्रत्यक्षाद् बलीयसी न श्रुतिमात्रं मन्त्रार्थवादानां तु स्तुतिद्वारम्। तेऽवान्तरार्थे वाक्यार्थद्वारभूते पदार्थ इव न तात्पर्यम्। न च द्वारभूतेऽवान्तरवाक्यार्थे तात्पर्याभावे मानान्तराविरुद्धदेवता- विग्रहादिरन्यपरेभ्यो मन्त्रार्थवादेभ्यो न सेत्स्यति। तात्पर्यवत्येव शब्दस्य प्रामाण्यनियम इति वाच्यम्, एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेतेति विशिष्टविधेस्तात्पर्यगोचरेऽपि