वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 197, कुल 237 में से
संदर्भ में पढ़ेंपृष्ठ ३६८
'उपदेशो न कर्तव्यो जातिहीनस्य कस्यचित् । उपदेशे महान् दोष, उपाध्यायस्य भाष्यते ॥५४॥ पूर्वदेहे यथावृत्तं तन्निबोध द्विजोत्तम । जातिं स्मराम्यहं ब्रह्मन् अवधानेन मे शृणु ॥५४॥ शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः । ऋषिपुत्रतपास्त्वञ्च तदाऽभूर्द्विजसत्तम ॥५५॥ प्रीयताहि तदा ब्रह्मन्ममानुग्रहबुद्धिना । पितृत्वया पूर्वकार्येषूपदेशः कृतोऽनघ ॥५६॥ एवं प्राप्तो महत्कष्टमृषिःसन्नृपसत्तम । ब्राह्मणेन न वक्तव्यं तस्माद् वर्णावरे जने ॥६६॥ ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः । एतेषु कथयन् राज्ञो ब्राह्मणो न प्रदुष्यति ॥६८॥ स्कन्दपुराणे ब्रह्मखण्डे दशमेऽध्याये— 'उपदेशो न कर्तव्यो जातिहीनस्य कर्हिचित् । उपदेशे महान् दोष उपाध्यायस्य विद्यते ॥३९॥ नाध्यापयेद् बुधः शूद्रं तथा नैव च याजयेत् । न पाठयेत्तथा शूद्रं शास्त्रं व्याकरणादिकम् ॥४०॥ काव्यं वा नाटकं वापि तथाऽलङ्कारमेव च । पुराणमितिहासञ्च शूद्रं नैव तु पाठयेत् ॥४१॥ यदि चोपद्दिशेद्विप्रः शूद्रस्यैतानि कर्हिचित् । त्यजेयुर्ब्राह्मणा विप्रं तं ग्रामाद् ब्रह्मसङ्कूलात् ॥४२॥ शूद्राय चोपदेष्टारं द्विजं चण्डालवत्त्यजेत् । शूद्रं चाक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥४३॥ बहुकालं द्विजस्याभूत्संसर्गः शूद्रयोनिना । स्नेहस्य वशमापन्नः शूद्रोक्तं नातिचक्रमे ॥५७॥ अथागतं द्विजं शूद्रः प्राह स्नेहवशीकृतम् । हव्यकव्यविधानं मे कृत्स्नं ब्रूहि मुनीश्वर ॥५८॥ एवमुक्तः स शूद्रेण सर्वमेतदुपादिशत् ।
पृष्ठ ३६९
कारयामास तस्यायं पितृकार्यादिकं तथा ॥६१॥ त्यक्तो विप्रगणैः सोऽयं पञ्चत्वमगमद्विजः । वैवस्वतभटैर्नीत्वा पातितो नरकेष्वपि ॥६२॥ कल्पकोटिसहस्राणि कल्पकोटिशतानि च । भुक्त्वा क्रमेण नरकांस्तदन्ते स्थावरोऽभवत् ॥६४॥ गर्दभस्तु ततो जज्ञे विड्वराहस्ततः परम् । जज्ञेऽथ सारमेयोऽसौ पश्चाद्वायसतां गतः ॥६५॥ अथ चण्डालतां प्राप शूद्रयोनिमगात्ततः । गतवान् वैश्यतां पश्चात् क्षत्रियस्तदनन्तरम् ॥६६॥ प्रवर्त्तवर्द्धमानोऽसौ ब्राह्मणो वै तदाऽभवत् । उपनीतः स पित्रा तु वर्षे गर्भाष्टमे द्विजः ॥६७॥ वर्त्तमानः पितुर्गृहे स्वाचाराभ्यासतत्परः । गच्छन् कदाचिद् गहने गृहीतो ब्रह्मरक्षसा ॥६८॥ रुदन् भ्रमन् स्खलन् मूढः प्रहसन् विलपन्नसौ । शश्वद् हाहेति वदन् वैदिकं कर्म सोऽत्यजत् ॥६९॥ तेनोपदिष्टो यः शूद्रः स भुक्त्वा नरकान् क्रमात् । अनेकेषु जनित्वा च कुत्सितेष्वपि योनिषु ॥९४॥ गृध्रजन्माऽभवत्पश्चात् गन्धमादनपर्वते ॥ ननु महाभारते अनुशासनिके पर्वणि दशमेऽध्याये— 'शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः । ऋषिपुत्रतपास्त्वञ्च तदाऽभूर्द्विजसत्तम ॥५३॥ प्रीयता हि तदा ब्रह्मन् ममानुग्रहबुद्धिना । पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ ॥५६॥ युस्यां धर्मेषु हव्ये च कव्ये च मुनिसत्तम । एतेन कर्मदोषेण पुरोधास्त्वमजायथाः ॥५७' अहञ्च राजा विप्रेन्द्र पश्चात् कालस्य पर्ययम
वे० वि०—२४