भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 197, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 197

पृष्ठ ३६८

'उपदेशो न कर्तव्यो जातिहीनस्य कस्यचित् । उपदेशे महान् दोष, उपाध्यायस्य भाष्यते ॥५४॥ पूर्वदेहे यथावृत्तं तन्निबोध द्विजोत्तम । जातिं स्मराम्यहं ब्रह्मन् अवधानेन मे शृणु ॥५४॥ शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः । ऋषिपुत्रतपास्त्वञ्च तदाऽभूर्द्विजसत्तम ॥५५॥ प्रीयताहि तदा ब्रह्मन्ममानुग्रहबुद्धिना । पितृत्वया पूर्वकार्येषूपदेशः कृतोऽनघ ॥५६॥ एवं प्राप्तो महत्कष्टमृषिःसन्नृपसत्तम । ब्राह्मणेन न वक्तव्यं तस्माद् वर्णावरे जने ॥६६॥ ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः । एतेषु कथयन् राज्ञो ब्राह्मणो न प्रदुष्यति ॥६८॥ स्कन्दपुराणे ब्रह्मखण्डे दशमेऽध्याये— 'उपदेशो न कर्तव्यो जातिहीनस्य कर्हिचित् । उपदेशे महान् दोष उपाध्यायस्य विद्यते ॥३९॥ नाध्यापयेद् बुधः शूद्रं तथा नैव च याजयेत् । न पाठयेत्तथा शूद्रं शास्त्रं व्याकरणादिकम् ॥४०॥ काव्यं वा नाटकं वापि तथाऽलङ्कारमेव च । पुराणमितिहासञ्च शूद्रं नैव तु पाठयेत् ॥४१॥ यदि चोपद्दिशेद्विप्रः शूद्रस्यैतानि कर्हिचित् । त्यजेयुर्ब्राह्मणा विप्रं तं ग्रामाद् ब्रह्मसङ्कूलात् ॥४२॥ शूद्राय चोपदेष्टारं द्विजं चण्डालवत्त्यजेत् । शूद्रं चाक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥४३॥ बहुकालं द्विजस्याभूत्संसर्गः शूद्रयोनिना । स्नेहस्य वशमापन्नः शूद्रोक्तं नातिचक्रमे ॥५७॥ अथागतं द्विजं शूद्रः प्राह स्नेहवशीकृतम् । हव्यकव्यविधानं मे कृत्स्नं ब्रूहि मुनीश्वर ॥५८॥ एवमुक्तः स शूद्रेण सर्वमेतदुपादिशत् ।


पृष्ठ ३६९

कारयामास तस्यायं पितृकार्यादिकं तथा ॥६१॥ त्यक्तो विप्रगणैः सोऽयं पञ्चत्वमगमद्विजः । वैवस्वतभटैर्नीत्वा पातितो नरकेष्वपि ॥६२॥ कल्पकोटिसहस्राणि कल्पकोटिशतानि च । भुक्त्वा क्रमेण नरकांस्तदन्ते स्थावरोऽभवत् ॥६४॥ गर्दभस्तु ततो जज्ञे विड्वराहस्ततः परम् । जज्ञेऽथ सारमेयोऽसौ पश्चाद्वायसतां गतः ॥६५॥ अथ चण्डालतां प्राप शूद्रयोनिमगात्ततः । गतवान् वैश्यतां पश्चात् क्षत्रियस्तदनन्तरम् ॥६६॥ प्रवर्त्तवर्द्धमानोऽसौ ब्राह्मणो वै तदाऽभवत् । उपनीतः स पित्रा तु वर्षे गर्भाष्टमे द्विजः ॥६७॥ वर्त्तमानः पितुर्गृहे स्वाचाराभ्यासतत्परः । गच्छन् कदाचिद् गहने गृहीतो ब्रह्मरक्षसा ॥६८॥ रुदन् भ्रमन् स्खलन् मूढः प्रहसन् विलपन्नसौ । शश्वद् हाहेति वदन् वैदिकं कर्म सोऽत्यजत् ॥६९॥ तेनोपदिष्टो यः शूद्रः स भुक्त्वा नरकान् क्रमात् । अनेकेषु जनित्वा च कुत्सितेष्वपि योनिषु ॥९४॥ गृध्रजन्माऽभवत्पश्चात् गन्धमादनपर्वते ॥ ननु महाभारते अनुशासनिके पर्वणि दशमेऽध्याये— 'शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः । ऋषिपुत्रतपास्त्वञ्च तदाऽभूर्द्विजसत्तम ॥५३॥ प्रीयता हि तदा ब्रह्मन् ममानुग्रहबुद्धिना । पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ ॥५६॥ युस्यां धर्मेषु हव्ये च कव्ये च मुनिसत्तम । एतेन कर्मदोषेण पुरोधास्त्वमजायथाः ॥५७' अहञ्च राजा विप्रेन्द्र पश्चात् कालस्य पर्ययम

वे० वि०—२४