भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 196, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 196

पृष्ठ ३६६

३६६ वेदस्वरूप-विमर्श अथ शूद्राणां विहितनिषिद्धधर्मा इत्युपक्रम्य शूद्रकमलाकरे १९ पृष्ठे स्कन्दमहापुराणीयप्रभासखण्डवचनान्युद्धृतानि । तानि यथा — 'न दर्भानुद्धरेत्प्राज्ञः' इत्यादीनि— 'नोच्चरेत्प्रणवं मन्त्रं पुरोडाशं न भक्षयेत्' इत्यादीनि च । शूद्राचारशिरोमणावपि ३७ पृष्ठे स्कान्दे प्रभासखण्डीयवचनानि 'न दर्भानीत्यादीनि उद्धृतानि । मन्त्रचन्द्रिकायां-'न वैदिकं जपेच्छूद्रः कियञ्चैव कदाचन । नमोन्तं शिवमन्त्रं वा वैष्णवमभिधयते बुधैः ॥' इति देवीयामलेऽपि-'स्वाहा प्रणवसंयुक्तं मन्त्रं शूद्रे वदद्विजः । शूद्रो निरयगामी स्यात् विप्रः शूद्रत्वमाप्नुयात् ॥' षडङ्गन्यासे स्वाहापदस्थाने नमः पदोच्चारणं शूद्रैः कार्यम् । श्रीमद्देवीभागवते-'वेदस्याध्ययने शूद्रो नाधिकारी यथा भवेत् । त्रिपुण्ड्रेण विना विप्रो नाधिकारी शिवार्चने ॥' स्कान्दे ११ अध्यायः १२ श्लोकः २८ । श्रीमद्भागवते 'स्त्री शूद्रद्विजवन्धूनां त्रयो न श्रुतिगोचरा ।' कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ॥ १।४।२५ श्रीमद्वाल्मीकीयरामायणे-सुन्दरकाण्डे 'भावं नचास्याहमनुप्रदातुं मलं द्विजो मन्त्रमिवाद्बिजाय ।।' नृसिंहतापनीयोपनिषदि ।' 'सावित्रीं प्रणवं यजुलँक्ष्मी स्त्री शूद्राय नेच्छन्ति; सावित्रीं लक्ष्मीं यजुः प्रणवं यदि जानीयात् स्त्रीशूद्रः समृतो- ऽधोगच्छति । स्कान्दे प्रभासखण्डे शूद्रविषये- नोच्चरेत्प्रणवं मन्त्रं पुरोडाशं न भक्षयेत् । न शिखां नोपवीतञ्च नोच्चरेत्संस्कृतां गिरम् ॥ पुराण्यान्यधिकृत्य कूर्मपुराणे- 'अध्येतव्यमिदं नित्यं विप्रैः पर्वणि पर्वणि । नाध्येतव्यमिदं शास्त्रं वृषलस्य च सन्निधौ । योऽधीते चैव मोहात्सा सं याति नरकान् बहून् ॥


पृष्ठ ३६७

वेदप्रामाण्य-विमर्शः ३६७ भविष्ये यस्य राज्ये सदा शूद्राः पुराणं संहितां तथा । पठन्ति स्यात्स चाल्पायू राजा राष्ट्रेण सान्वयः । बृहद्धर्मपुराणे-उत्तराखण्डे चतुर्थेऽध्याये ५०७ पृष्ठे – शूद्रस्तु ब्राह्मणादीनां पूजां कुर्यादतन्द्रितः । आज्ञां न लङ्घयेच्चापि न च तानवधीरयेत् ॥ न तेषामाचरेद् धर्मं वैदिकं लौकिकं तथा । पुराणपठनं वेदपठनं नापि चाचरेन् ॥ शास्त्रार्थकथनञ्चैव न शूद्रः क्वचिदाचरेत् । विप्रं क्षत्रं विशं वापि पाठयेन्न कदाचन । वर्णान् व्याकरणदीन् वा श्लोकं श्लोकार्थमेव च । ब्राह्मणोऽपि पठञ्शूद्रादात्मानमेवन् पातयेत् । स्वाहाप्रणवसंयुक्तं शूद्रो मन्त्रं विवर्जयेत् ॥ दद्यान्न देवनेवेद्यं शूद्राय ब्राह्मणः क्वचित् । पादोदकं ब्राह्मणस्य पिबेच्छूद्रः प्रयत्नतः ॥ ब्राह्मणे भक्तिमासाद्य शूद्रस्तरति दुर्गतिम् । नोपदेशेन मन्त्रैश्च न स्तवैः क्वचैरपि ।।' गरुडपुराणे प्रेतखण्डे चतुर्थेऽध्याये-- वेदाक्षरं पठेच्छूद्रः कापिलं वा पयः पिबेत् । धारयेद् ब्रह्मसूत्रञ्च भवेद् वा ब्राह्मणीपतिः ॥२२॥ राजभार्याभिलाषी च परदारापहारकः । कन्यायां कामुकश्चैव सतीनां दूषकश्च यः । ॥२३॥ एते चान्ये च बहवो निषिद्धाचरणोत्सुकाः । विहितत्यागिनो मूढ़ा वैतरण्यां पतन्ति ते ॥२४॥ हरिवंशेऽपि 'सुगतिमियाच्छ्रवणाच्च शूद्रयोनिः ।' व्यासस्मृतौ-प्रथमेऽध्याये- शूद्रो वर्णचतुर्थोऽस्ति वर्णत्वाद् धर्ममर्हति । वेदमन्त्रस्वधास्वाहावषट्कारादिभिर्विना ॥ महाभारते-आनुशासनिके पर्वणि १० अध्याये-