भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 204, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 204

३८२ वेदस्वरूप-विमर्श

पेयत्वं साधयितुं प्रदर्शितस्य हेतोः साध्यसमहेत्वाभासरूपत्वान्न साध्य- -साधने शक्तिः ।' तदपि तुच्छम्; सूत्रभाष्यादि-तात्पर्याऽनभिज्ञानात् । तथा हि सम्प्रदायाविच्छेदे सति अस्मर्यमाणकर्तृकत्वेन सिद्धस्यैव अपौ- रुषेयत्वस्य उपोद्वलनायैव एतदुक्तिः । अपूर्वसाध्यसाधनभावबोध- कत्वेनापि तदुपोद्वलनम् । न च ज्योतिष्टोम-स्वर्गयोः साध्य-साधनभाव मनभ्युपगच्छतः तदकिञ्चित्करमिति वाच्यम्; तदभ्युपगन्तॄन् प्रत्येव तत्साधनात् अनेके पौरुषेयत्ववादिनः ज्योतिष्टोमस्वर्गयोः साध्यसाधनभावमभ्यु- पगच्छन्ति अपौरुषेयत्वं ईश्वरकर्तृकत्वं च वेदानां नाभ्युपगच्छन्ति तान् प्रति ज्योतिष्टोमस्वर्गयोः साध्यसाधनज्ञानपूर्वकः विनियोगो न [