वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 203, कुल 237 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of both pages from the image:
[पृष्ठ १८०]
निर्देशेन पौरुषेयत्वं शक्यसमर्थनं' वेदशब्दानां घटनापूर्वकत्वाभावेऽपि घटनानां वेदपूर्वकत्वं तु न विरुद्धम् । तेन वैदिकशब्दानुसारेण क्वचित्कल्पे प्रतिकल्पं वा गोतमस्य तद्गोत्रोत्पन्नानामृषीणां तद्विशिष्टस्य सत्त्वेऽपि न दोषः । तच्चोक्तमेव 'शब्दानुसारिण्यो भवन्त्यस्तु घटना न वार्यन्ते ।' तेनैव तदंश इति वृत्ताभ्युपगमेऽपि न दोषः । अपौरुषेय- त्वस्याव्याहतत्वात् । एवमेव परुच्छेपपुत्रेणानानतेन दृष्टस्य 'कारुरहं ततो भिषक्' (ऋ० सं० ९।११२।३ इत्यादि मन्त्रस्य सोमश्च्योतनाङ्ग- त्वेन तत्रैव विनियोगात् न स्वार्थे तात्पर्यम् । 'यत्परः शब्दः स शब्दार्थ' इति न्यायात् । अत्र स्तोमानां कर्ता कारुः, तस्य पुत्रस्तु यज्ञस्य श्रद्धा