भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 202, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 202

[पृष्ठ ३७८]

'त्रितं कूपेऽवहितमेतत्सूक्तं प्रतिबभौ' (नि० ४।६) तच्च सूक्तम्— 'इषिरेण ते मनसा सुतस्य भक्षीमहि पित्यस्येव रायः।' (ऋ० सं० ८।४८।७) 'रमध्वं मे वचसे सोम्याय ऋतावरी रूपमुहूर्त्तमेवैः । प्रसिन्धु- मच्छा बृहतीमनीषा वस्युरह्ने कुशिकस्य सूनुः ।। (ऋ० सं० ३।३३। ) लिङ्गानुसरेणास्य सूक्तस्य नदीस्तुतौ विनियोगः । कुशिकसूनोः प्रथित- प्रभावस्य वक्तृत्वे नापि स्तुतिगौरवबोधन एव तात्पर्यम्, रामस्येश्वर- त्वकथनेन रामेश्वरशिवमाहात्म्यप्रख्यानवत्, कुशिकसूनुकर्तृकत्वा- त्स्तुतेर्वाशिष्टयम् । न च व्यक्तिविशेषाभावे तद्वैशिष्टयमेव कुतः- सिद्धयेत् ? व्यक्तिमत्त्वे चेतिहाससिद्धिरिति वाच्यम्, मीमांसकानां जातौ शक्त्यङ्गीकारेण कल्पभेदेन व्यक्तिभेदमङ्गीकृत्य कौशिकत्ववसिष्ठत्वादि- जातिमाश्रित्य सेनापतिप्राड्विवाकादिवत् वसिष्ठादिवद्विशेषाम्युप- गमेन वा व्यक्तिविशेषतद्विशेषयोरेवाङ्गीकारेऽपि शब्दार्थसम्बन्ध- स्यौत्पत्तिकत्वोपपत्त्या पौरुषेयत्वानोपत्तेः । न च केवलमेतेषामेव परन्त्वनेकेषां पुरुषाणामृषीणां जनपदानां नगराणां पर्वतानां नदीनाञ्च वर्णनं वेदेषु बहुशः समुपलभ्यते । तद्यथा— 'अग्नि पूर्वेभिऋषिभिरीड्यो नूतनैरुत' (ऋ० १।१।२) इत्येष मन्त्रः पूर्वान्नूतनान् च ऋषीन् वर्णयति । कण्वः कक्षीवान्त्सुमीढो अगस्त्यः' (अथ० १८।३।१५) इत्यस्मिन् मन्त्रे कण्वस्य, विश्वामित्रस्य, वसिष्ठस्य, भरद्वाजस्य, कश्यपस्य, वामदेवस्य, गोतमस्य ऋषेर्नामानि श्रूयन्ते । यजुर्वेदस्य पञ्चमाध्याये उर्वश्यास्यायुरसि पुरूरवा असि (यजु० ५।२) इत्यत्र उर्वश्या पुरूरवसश्च वर्णनमुपलभ्यते । अम्बे अम्बिके ऽम्बालिके न मां नयति कश्चन (यजु० २३।१८) इत्यत्र अम्बादीनां महाभारतोपवर्णितानां कन्यकानां नामानि दृश्यन्ते । एवमेव नहुषस्य ययातेस्तस्य यदु-तुरु-द्रुह्यादीनां पञ्चपुत्राणां च वर्णनं यदिन्द्राग्नीयदधु तुर्वशेषु यद् द्रुह्येष्वनुषु पूरुषु स्थ (ऋ० १।१०८।८) इत्यत्र समुपलभ्यते । ऋग्वेदस्य दशममण्डले शन्तनोः देवापेश्च वर्णनं निरुक्तकारेण यास्कमुनिनापि स्वीकृतम् (नि अ० २, पा० ३) । तस्मिन्नेव मण्डले


[पृष्ठ ३]

इमं मे गङ्गे यमुने सरस्वति (ऋ० १०।७५।५) इत्यत्र गङ्गादीनां सप्तसिन्धूनामपि वर्णनमुपलभ्यते । एवं सत्यप्येतेष्वनेकेषु वर्णनेषु को नाम मेधावी वेदेष्वनित्यद्रव्या- णां वर्णनं नानुमन्येत । यद्यपि कैश्चित् विद्वद्भिर्वेदेषूपलभ्यमानानां गङ्गादिपदानां व्याख्यानमन्यरूपेणैव क्रियते । परमेतादृशं व्याख्यानं न विदुषां बुद्धिसन्तोषं जनयति" इति । तन्न; तस्यानेकधा शक्यसमर्थनत्वात् । तथा हि उर्वश्यादिशब्दाः जातिवाचकाः, उर्वश्यादिपदार्थानामनित्यत्वेऽपि तत्सजातीनां नित्यत्वेन नित्येषु वेदेषु तद्वर्णनं सङ्गच्छते एव । अत एव । औत्पत्तिकस्तु शब्दस्या- र्येन सम्बन्ध' इत्यादि सूत्रं सङ्गच्छते । सेनापत्यादिशब्दवत् स्थानवाचका वा वैदिका शब्दाः । स्थानानि च प्रवाहरूपेण नित्यान्येव । घटनास्तु सुखबोधार्था आख्यायिका रूपा एव । न तु वृत्तमात्रपर्यवसायिन्यः निष्फलत्वात् । फलवन्निश्चितार्थविबोधकत्वेनैव वेदानां प्रामाण्याभ्युपग- मात् तेनानित्यपदार्थवर्णनं स्वार्थपर्यवसायित्वेन वेदेषु नास्त्येवेति सायणमतं सम्यगेव, 'यत्परः शब्दः स शब्दार्थः' इति शास्त्रतात्पर्यविदां डिण्डिमघोषात् । आख्यायिकारूपाणां मन्त्राणां ब्राह्मणानाञ्च आख्यायिकारूपार्थ- वर्णने अवान्तरतात्पर्याभ्युपगमेऽपि कैमर्थ्यापेक्षायां विधिनिषेधाद्यङ्गत्वेन स्तुतिनिन्दारूपेऽर्थे एव पर्यवसानम् । अत एव शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् 'अत एव च नित्यत्वम्' इत्यादिभिः सूत्रैः बादरायणेनायमेवार्थः समर्थितः । तत्तत्कथार्थीनां मन्त्रार्थवादानां प्रमाणान्तरविरुद्धेऽर्थे गुणवादत्वं प्रमाणान्तरसिद्धेऽर्थेऽनुवादत्वम् तद- विरुद्धे तदसिद्धे वार्थे भूतार्थवादत्वमभ्युपगतम् । सर्वत्र च एषु पक्षेषु वेदापौरुषेयत्वनित्यत्वादिकमक्षुण्णमेव । अनित्यार्थवर्णने तात्पर्या- भावस्य समत्वात् । 'अकारि त इन्द्र गोतमेभिः (ऋ० सं० १।६३।९) इति मन्त्रस्यापि मरुत्वतीयशस्त्रे विनियोगात् स्तुतावेव तात्पर्यम् । अत्रापि गोतम- गोत्रोत्पन्नैर्ऋषिभिः सम्बन्धश्च स्तुतेर्माहात्म्यबोधः । नात्रापि नाम-