भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 201, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 201

३७६ वेदस्वरूप विमर्श परमेश्वरेण तानि पूर्वपूर्वसर्गानुपूर्वीसापेक्षतया आविर्भाव्यन्ते । नैयायिकादितीत्या तु वर्णादीनामनित्यत्वेऽपि पूर्वपूर्वकल्पीयानुपूर्वी- सव्यपेक्षतयैव ईश्वरेण तानि निर्मियन्ते । न चेश्वरस्य कण्ठतालवाद्यभावेन वर्णवाक्याद्युच्चारणमसम्भवदु- क्तिकामिति वाच्यम् ; लीलया परमेश्वरस्य विग्रहवत्त्वोपपत्त्या तदुपपत्तेः। यथा वा श्रोत्रपादादिरहितस्य श्रवणगमनादिकं तत्तच्छक्तिमत्वेन ईश्वरस्योपपद्यते, तथैवोच्चारणमपि नासम्भावि । 'अपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स शृणोत्यकर्णः' इत्यादि श्रुतेः । अन्यथा निविग्रहस्य शरीरादिविचित्रप्रपञ्चनिर्मातृत्वमपि शङ्कनीयं स्यात् । यत्तूक्तं निपुणोऽपि पुरुषः स्वस्कन्धारोहणेऽसमर्थः, तथैव वेदाना- मीश्वररचितत्वे वेदः स्वयं प्रमाणं भवितुं नार्हति' इति । तत्तच्छम् ; स्वपरप्रकाशकानां सूर्यादिभावानां बहुलमुपलब्धेः । यत्तु “वेदानाम्पौरुषेयत्वं सिषाधयिषता सायणाचार्येण स्वरचिता- याम् 'ऋग्वेदभाष्यभूमिकायां, तेषां पौरुषेयत्वखण्डने स्वीया समस्ता प्रतिभा प्रदर्शिता । परं नासौ वेदानां पौरुषेयत्वं प्रत्याख्यातुं सम- र्थोऽभूत् । पूर्वपक्षोत्थापितस्य 'अनित्यदर्शनाच्च' (जै० १।१।२८) इत्यस्य तर्कस्य सायणाचार्येण कृतं खण्डनं सर्वथैव असन्तोषास्पदम् । वेदेष्वनित्यानां पदार्थानां दर्शनान्न तेषां नित्यत्वमभ्युपगन्तुं शक्यते इति पूर्वपक्षाभिप्रायः । अस्य खण्डनं चिकीर्षता सायणाचार्येण प्रतिपादितं यद् वेदेष्वनित्यानां पदार्थानां वर्णनं न क्वचिदप्युपलभ्यते । यत्र चानित्य- द्रव्याणां वर्णनं प्रतिभाति, तत्रान्य एव कश्चन गूढार्थोऽनुसन्धेयः । तथथा-'बबरः प्रवाहे ष्कारामयत्' इत्यत्र प्रवहणपुत्रस्य बबर नामकस्य पुरुषस्य वर्णनं प्रतीयते परं विचारप्रहितचेतसा विज्ञायतेऽस्माभिर्यदत्र बबरध्वनियुक्तस्य प्रकर्षेण वहनशीलस्य वायोरेव वर्णनम् न तु कस्यचित् पुरुषस्येति । किन्तु सायणाचार्यप्रदर्शितयं व्याख्याप्रणाली न विदुषां सन्तोषकारिणी । स्वयं सायणाचार्येणाप्येषा प्रणाली मन्त्राणां व्याख्यानावसरेऽनेकशो गत्य- भावादुपेक्षिता । तथथा-ऋग्वेदस्य प्रथममण्डले 'सोमानं स्वरणं कृणुहि


वेदपौरुषेयत्व-विमर्शः ३७७ ब्रह्मणस्पते । कक्षोवन्तं य औशिजः' (ऋ० सं० १ अ० ५ सूक्तम् १८) अस्य मन्त्रस्य व्याख्यानावसरे उशिक्-पुत्रस्य कक्षीवन्नामकस्य ऋषेर्वर्णनं स्वीकृतं सायणाचार्येण । किञ्च ऋग्वेदस्य तृतीयमण्डले कीकटनाम्नो जनपदस्य, प्रमगन्दनाम्नो राज्ञः, नैचाशाखनाम्नो नगरस्य च वर्णनमभ्युपगतम् । अत्र प्रमगन्दस्य, कीकटस्य, नैचाशाखस्य च किं तात्पर्यं ग्रहीतव्यमिति तु न प्रदर्शितं तेन विद्वद्वरेण । एवमुच्चावचैरभिप्रायैर्मन्त्रदृष्टयो भवन्ति' (नि० ७।३) 'हर्षशोक- निन्दाप्रशंसादिना मन्त्राणां द्रष्टारोभ वन्ति' ( इति तत्रैव व्याख्याने दुर्गाचार्यः) । तास्त्रिविधाः परोक्षकृताः, प्रत्यक्षकृताः, आध्यात्मिक्य- श्चेति । परोक्षकृता ऋचः सर्वाभिर्नामविभक्तिभिः प्रयुज्यन्ते, प्रथम- पुरुषैश्चाख्यातस्य । यथा-'इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रमिद्गा- धिनो' इति । त्वमिति चैतेन सर्वनाम्ना 'त्वमिन्द्र वलादधि विन इन्द्र मृधौ जहि, कुसिकाश्चेतयध्वम्' । शपथाभिशापयोरुदाहरणम्-'अद्यामुरोय यदि यातु धानो अस्मि (ऋ० सं० ७।१०४।१५) राक्षस इत्यभियुक्तः। सोऽनया ऋचा शपं प्रतिपेदे । परश्चाभिशापात् । अथापि परिदेवना-'सुदेवो अद्य प्रपतेदमावृत् परावतं परमां गन्तवा उ । अधाशयीत निर्ऋते रुपस्थेऽधैनं वृका रभसासो अद्युः ॥” (ऋ० सं० १०।९५।१४) पुरूरवस आर्षम् । निन्दा-'मोघमन्नं विन्दते' (ऋ० सं० १०।११७।६) प्रशंसा-'भोजाद्याश्वं सम्मृजन्त्याशु' भोजायास्ते कन्या शुम्भ- माना । भोजस्येदं पुष्करिणीव वेश्म परिष्कृतं देव माने व चित्रम् ।। (ऋ० सं० १०।१०७।१०) द्यूतनिन्दा कृषिशंसा-'अक्षैर्मादीव्यः कृषिमित्कृषस्व वित्ते रमस्व बहुमन्यमानः । तत्र गावः कितव तत्र जाया तन्मे विचष्टे सविताय मर्यः ॥' (ऋ० सं० १०।३४।१३) अत्र सर्वत्रेतिहासस्य वक्तृविशेषस्य च प्रतीयमानेत्वेऽपि सुखाव- बोधार्थारख्यायिका रूपत्वेन नेतिहासत्वं न वा पुरुषविशेषवक्तृत्वम् किन्तु तत्तद्रूपधारिण्याः श्रुतेरेव वक्तृत्वम् ।