वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 200, कुल 237 में से
संदर्भ में पढ़ें[पृष्ठ १]
वेदपौरुषेयत्वविमर्शः । 'वेदापौरुषेयत्वपरीक्षणप्रसङ्गे' कश्चिज्जल्पति— "सन्ति हि विश्वस्य पुस्तकालयेषु विविधानि पुस्तकानि । तान्यखिलान्यपि पौरुषेयाणि पुरुषरचितानि मन्यन्ते । परं वेदादिधर्म- ग्रन्थानां विषयेऽन्यदेव मतमुपलभ्यते । ख्रिष्टीयानां मते यथा 'बाइवि- ल'स्य, यवनानां मते यथा 'कुरान'स्य, पारसीकानाञ्च मते यथा 'जेन्दावस्था'यास्तथैव हिन्दूनां मते वेदाना मपौरुषेयत्वमीश्वरीयज्ञानत्व- ञ्चाभ्युपगम्यते । वेदादिग्रन्थानामपौरुषेयत्वप्रश्नोऽतीव महत्त्वपूर्णः । यतो हि तेषामपौरुषेयत्वपक्ष एव स्वतः प्रामाण्यं सम्भवति । यदि नाम ते पौरुषेयाः स्युस्तर्हि तेषां प्रामाण्यमपि परत एवाभ्युपगतं स्यान्नतु स्वतस्तेषां पुरुषदोषाशङ्काशून्यत्वाभावात् । तत्र विचारणीयोऽयं विषयो यद् वेदादिग्रन्थानामपौरुषेयत्वं सम्भवति न वा ? अपौरुषेयत्व- पक्षेऽपि अपौरुषेयत्वेन किं नाम विवक्षितं स्यात् ? वेदानाम्पौरुषेयत्व- परीक्षा मुखेनावान्येषामपि परीक्षा सुकरेति स्थालीपुलाकन्यायेन वेदानाम्पौरुषेयत्वपरीक्षा ऽत्र प्रस्तूयत' इति । तन्न; यतः अर्थातथात्वं प्रमाणानामप्रामाण्यम् । अर्थतथात्वं तु प्रामा- ण्यम् । तच्च अन्यानपेक्षत्वात् स्वत इति । तेन पौरुषेयाणामपि प्रामाण्य- स्वतस्त्वमेव । पुरुषाश्रितभ्रमादिदोषाशङ्कया तु अप्रामाण्यं शंक्यते तत्सिद्धौ अप्रामाण्यम्, तदसिद्धौ तु अनपोहितं प्रामाण्यस्वतस्त्वं तिष्ठत्येव । तेन अपौरुषेयत्वमूलकं प्रामाण्यस्वतस्त्वमिति परास्तम् । अत एव प्रत्यक्षानुमानादीनामपि प्रामाण्यस्वतस्त्वमेव । यदुक्तं 'वेदा अपौरुषेया न तु पौरुषेया इति भारतीयविदुषां प्राचीनपरम्पराप्राप्तं मतम् । यजुर्वेदस्य पुरुषसूक्ते परमेश्वरादेव वेदानामुत्पत्तिः श्रूयते— 'तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥'
[पृष्ठ २]
वेदपौरुषेयत्व-विमर्शः १७५ इति (यजुर्वेदे ३१।७) । परमेश्वरोऽपि यद्यप्यस्मिन्सूक्ते पुरुषशब्दे- नैव व्यपदिष्टः, परं तस्य कर्मफलोपभोगोपनतशरीरसम्बन्धाभावान्न शरीरधारि जीववत पुरुषशब्दाभिधेयत्वं सम्भवति । पौरुषेय शब्देन चात्र जीवरचितत्वमेवाभिप्रेतम् । अतो वेदाः परमेश्वररचिता अपि अपौरुषेया एवेति अपौरुषेयवादिनां विचारसरणिः ।" तन्न; वस्तुतस्तु ईश्वररचितस्यापि पौरुषेयत्वमेव । अत एव सर्वेषां भारतीयविदुषां वेदा अपौरुषेया इति न मतम् । नैयायिकवैशेषिकादिभिः वेदानां पौरुषेयत्वस्यैवाभ्युपगमान् । अत एव तन्मतरीत्या वेदानां प्रामाण्यस्वतस्त्वमपि नास्त्येव, ईश्वरस्य आप्तत्वेन कारणगुणसापेक्षतयैव वेदानां प्रामाण्याभ्युपगमात् । अत एव पौरुषेय शब्देन जीवरचितत्वमेव इत्यपि न सङ्गतम्, ईश्वररचितत्वस्यापि पौरुषेयत्वानपायात्, अपौरुषे- यत्ववादिनां रीत्या तु 'तस्मान् यज्ञात् सर्वहुतः' इत्यादिश्रुत्या परमेश्वरात् वेदानां सम्प्रदायप्रवर्तनरूप एव उत्सर्गः नित्यानां अन्या- दृशस्य उत्सर्गस्य असम्भवदुक्तिकत्वात् । यदुक्तं परत्र विचारणीयमस्माभिर्यद् वेदानाम्पौरुषेयत्वेन किं विवक्षितम् ? कथं नाम च तेषामपौरुषेयत्वं सामञ्जस्यमुपेयात्, वेदः कथमीश्वरविरचिताः स्युः ? किं शब्दरूपाणां वेदानाम्पि विरचनमीश्व- रेणैव कृतम ? वेदवाक्यान्यपि लौकिकवाक्यवत् पदसमूहरूपाण्येव पदानि पुनरक्षरसमूहरूपाणि । कथं तर्हि वाक्यरूपाणां मन्त्राणामीश्वर- रचितत्वं सूपपाद्यम् ? किमीश्वरेण वेदानां लेखनं कृतम् ? किंवा तेन तेषां श्रावणं कृतम् ? तत्र न तावत् प्रथमः पक्षस्तकेसहः, ईश्वरस्य पत्रमस्यादिरहितत्वेन हस्तपादादिशून्यत्वेन च लेखनासम्भवात् । न द्वितीयः, तस्याशरीरित्वेन वर्णोच्चारणोपयोगिकण्ठताल्र्वाादिरहितत्वात् । तत् कथं परमेश्वरे वेदानां रचना कृतेति नो जानोमहे वयम्, इति । तन्न; पूर्वमीमांसकरीत्या वेदानां नित्यत्वेन रचनानपेक्षत्वात् । तन्मतरीत्या वेदानां वर्णाः पदानि वाक्यानि च नित्यान्येव । उत्तरमी- मांसकानां रीत्या वर्णाः प्रलयपर्यन्तावस्थायित्वेन नित्याः । पौर्वापर्य- भाञ्जि पदानि वाक्यानि च तथाविधान्येव । सृष्ट्यारम्भे तु