वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
DevanagariHindipublished237 पृष्ठ
पृष्ठ 209, कुल 237 में से
संदर्भ में पढ़ेंपृष्ठ 209
३९२ वेदस्वरूपविमर्शः 'समानायामर्थावगतौ शब्दैश्चापशब्दैश्च शास्त्रेण धर्मनियमः क्रियते शब्देनैवार्थोऽभिधेयो नापशब्देन, एवं क्रियमाणमभ्युदयकारिभवतीति । महाभाष्ये च आगमात् व्याकरणात् सिद्धाः साधवः शब्दाः धर्मसाधनम्, विपरीतास्त्वनिष्टसाधनम् । 'तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुः, तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः, इति श्रुत्या असाधूनां शब्दाना मधर्म साधनत्वबोधनात् आगमविहितेषु यागादिषु निषिद्धेषु हिंसावृतवदनादिषु धर्माधर्मसाधनत्वस्याविप्रतिपन्न- त्वात् । शब्दकृतकत्वपक्षेऽपि अनादौ संसारे अप्रवृत्तशब्दव्यवहारस्य कालस्यासत्त्वान् प्रवाह्नित्यता भवत्येव । यथा मीमांसकरीत्या अर्कः, अश्वः, अर्थः, आदौ पदभेदेऽपि अवर्ण