वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 213, कुल 237 में से
संदर्भ में पढ़ेंयहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति देवनागरी लिप्यंतरण प्रस्तुत है:
[पृष्ठ ४००]
यथेन्द्रियस्यावेद्यत्वेऽपि विषयप्रतीत्यन्यथानुपपत्त्याऽनुमेयस्यैव विषय- प्रतीतिजनकत्वं तथैव स्फोटोपलब्ध्यन्यथानुपपत्त्या कश्चिदत्यन्तापरो क्षो ध्वनिरपि स्फोटाव्यञ्जको भविष्यति । अन्यैश्च-स्वतन्त्रः स्फोटासंपृक्तो ध्वनिर्गृह्यते इत्यभ्युपेयते । अव्य- क्तानां ध्वनिरव गृह्यते, व्यक्तानां शब्दानान्तु ध्वनिः स्फोटश्चेत्युभय- मपि गृह्यते । तत्रैकध्वनेर्व्यञ्जकत्वेऽन्यध्वनिवैयर्थ्यापत्या ध्वनिसमुदायस्यैव व्यञ्जकत्वम्, क्षणिकपूर्वपूर्वध्वनिसंस्कारसचिवो नान्त्यध्वनिना स्फोटः स्फुट्यते । न चैवं सरो रस इत्यविशेषः स्यादिति वाच्यम्, उपलब्धि- क्रमारोपितक्रमवन्तो ध्वनयः पश्चाद् युगपन्मम्यमान अपि तत्क्रमेण स्मृताः स्फोटमवबोधयन्ति । यथा ज्ञानस्य घटपटाद्युपाधिरेव भेदस्तथैव स्फोटस्यापि व्यञ्जकध्वनिगतः क्रमविशेषोपाधिक एव भेदः । यथा शतत्वादिसंख्यायाः अपेक्षाबुद्धिजन्यत्वेन एकत्वादिविग्रहणमुपायः, तथैव वाक्यस्फोटप्रतिपत्तये देवदत्ताद्यवान्तरपदश्रवणमुपायः । यथा च चरमैकत्वग्रहणे ततोऽन्यन्तविलक्षणायाः शतत्वादिसंख्याया बोधः वर्णपदभिन्नत्वेऽपि तथैव अखण्डस्फोटस्य ग्रहणे वर्णादिग्रहणमुपायः । यथा वर्णपदवाक्यव्यञ्जका ध्वनयः प्रत्येकं भिन्नास्तथापि सादृश्या- द्विन्नतयाऽप्रतीयमाना वर्णादीन् व्यञ्जयन्ति । वर्णाभिव्यञ्जकध्वनिसङ्घ- शब्दभिव्यङ्ग्यत्वात्पदेषु वर्णाः पदाभिव्यञ्जकध्वन्यभिव्यङ्ग्यत्वात् वाक्ये पदानि भासन्ते । परमार्थतो मिथ्याभूतान्यपि मासन्ते । ननु जन्यजनकयोरेव नियतत्वम् । तन्तुभिरेव पटः, कपालाभ्यामेव- घटः, न व्यङ्ग्यव्यञ्जकयोः, घटव्यञ्जकेनापि दीपेन पटव्यक्तिक्षर्शनार्त् । नाप्यभिव्यङ्ग्यत्वेऽभिव्यञ्जकनियमः मणप्रदीपापिभिरपि घटाद्यभिव्यक्तेः । तथा च ध्वनिशब्दयोव्यङ्ग्यव्यञ्जकभावे कण्ठाभिघातजेन ध्वनिना अकार एव, ताल्याभिघातजेन चकार एवेति नियमो न स्यात् नियमस्य च दर्शनात् ध्वनिशब्दयोर्जन्यजनकभाव एव युक्तः । न व्यङ्ग्य- व्यञ्जकभाव इति चेन्न, इन्द्रियविषययोरिव व्यङ्ग्याव्यञ्जकत्वेऽपि ध्वनिस्र्फोटयोर्योग्यतान्नियमोपपत्तेः । यथा चक्षुषीरूपग्राहकता घ्राणे
[पृष्ठ ४०१]
गन्धग्राहकता, रूपे चक्षुर्ग्राह्यता, गन्धे घ्राणग्राह्यतेति जन्यजनकत्वा- भावेऽपि योग्यतान्नियता । तथैव प्रकृतेपि तदुपपत्तेः । यदप्युक्तम्-घ्राण-श्रोत्रयोः स्वसजातीयद्रव्यमात्रसमवेतगुणग्राह- कत्वम्, ततश्च रूप-रस-स्पर्शाः विसदृशेन्द्रियग्राह्याः, गन्धशब्दौ सह- शेन्द्रियग्राह्यौ । तत्र यथा सहशेन्द्रियग्राह्ये गन्धेऽभिव्यञ्जकनियमो नास्ति, तथैव तादृशे शब्देऽप्यभिव्यञ्जकनियमेन न भवितव्यम् । दृश्यते तु नियमस्तस्माच्छब्दो न व्यङ्ग्यः किन्तुत्पाद्य एव । तदपि न; गन्धेऽपि व्यञ्जकनियमदर्शनात् । यथाहि कुङ्कुमगन्धाभिव्यञ्जकं गोघृतं नियतं तथैव शब्देपि नियमो युक्तः । ननु गन्ध-रस-रूप-स्पर्शेषु सहशेन्द्रियग्राह्यत्वेन अभिव्यञ्जकानां संख्यावृद्धिह्रासांश्च अभिव्यङ्ग्योऽनुवर्तते । तैले श्यामं, जले गौरं, वज्र- मणौ लघु, दर्पणे बृहत्, वङ्गे-दीर्घं, मुकुरे वर्तुलं च प्रतिबिम्बं दृश्यते, तथैवाभिव्यञ्जकध्वनेर्भेदे वृद्धौ चाभिव्यङ्ग्ये शब्दे भेदो वृद्धिश्च भासते । वैशेषिकाणां रीत्या संयोगाद्विभागाच्छब्दाद्वा शब्दोत्पत्तिं वदन्ति । यथा वातेनैका वीचिस्तया तरङ्गात्तरं तेनान्यदिति पूर्वपूर्वतरङ्गेभ्य उत्तरोत्तरतरङ्गाणामुत्पत्तिः । एवं भेरीदण्डसंयोगात् वेणुदलविभागाद्वा शब्द आकाश उत्पद्यते । सचासमवायिकारणतया शब्दान्तरमारभते । तच्चान्यदिति परम्परया श्रोत्रपथमवतर्णी गृह्यते । भेरीशब्दो मया श्रुत इत्यनुभवस्तु भ्रम एव । वैयाकरणास्तु-स्फोटस्य ग्रहणे प्राकृतध्वनिं हेतुमाहुः । वैकृतं ध्वनिं वृत्तिभेदे हेतुमाहुः । तदुक्तम् संग्रहकारैः- स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते । वृत्तिभेदे निमित्तत्वं वैकृतः प्रतिपद्यते ॥' यथा प्रकाश उद्यन्नेव घटादिभ्यो भिन्नं घटं प्रकाशयति पश्चात् प्रका- शेन पुनः पुनर्द्दश्यमानोऽपि घटः, न पूर्वप्रकाशिताद्घटात् भेदमालम्बते तथा प्राकृतध्वनिरेव भिन्नं स्फोटं व्यञ्जयति । अनन्तरं वैकृतध्वनिस्तु पूर्वाभिव्यक्तस्यैव तावत्कालमुपलब्धे हेतुर्भवति,न पूर्वाभिव्यक्ताद् भिद्ये । वे० वि०-२६