भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 213, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 213

यहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति देवनागरी लिप्यंतरण प्रस्तुत है:

[पृष्ठ ४००]

यथेन्द्रियस्यावेद्यत्वेऽपि विषयप्रतीत्यन्यथानुपपत्त्याऽनुमेयस्यैव विषय- प्रतीतिजनकत्वं तथैव स्फोटोपलब्ध्यन्यथानुपपत्त्या कश्चिदत्यन्तापरो क्षो ध्वनिरपि स्फोटाव्यञ्जको भविष्यति । अन्यैश्च-स्वतन्त्रः स्फोटासंपृक्तो ध्वनिर्गृह्यते इत्यभ्युपेयते । अव्य- क्तानां ध्वनिरव गृह्यते, व्यक्तानां शब्दानान्तु ध्वनिः स्फोटश्चेत्युभय- मपि गृह्यते । तत्रैकध्वनेर्व्यञ्जकत्वेऽन्यध्वनिवैयर्थ्यापत्या ध्वनिसमुदायस्यैव व्यञ्जकत्वम्, क्षणिकपूर्वपूर्वध्वनिसंस्कारसचिवो नान्त्यध्वनिना स्फोटः स्फुट्यते । न चैवं सरो रस इत्यविशेषः स्यादिति वाच्यम्, उपलब्धि- क्रमारोपितक्रमवन्तो ध्वनयः पश्चाद् युगपन्मम्यमान अपि तत्क्रमेण स्मृताः स्फोटमवबोधयन्ति । यथा ज्ञानस्य घटपटाद्युपाधिरेव भेदस्तथैव स्फोटस्यापि व्यञ्जकध्वनिगतः क्रमविशेषोपाधिक एव भेदः । यथा शतत्वादिसंख्यायाः अपेक्षाबुद्धिजन्यत्वेन एकत्वादिविग्रहणमुपायः, तथैव वाक्यस्फोटप्रतिपत्तये देवदत्ताद्यवान्तरपदश्रवणमुपायः । यथा च चरमैकत्वग्रहणे ततोऽन्यन्तविलक्षणायाः शतत्वादिसंख्याया बोधः वर्णपदभिन्नत्वेऽपि तथैव अखण्डस्फोटस्य ग्रहणे वर्णादिग्रहणमुपायः । यथा वर्णपदवाक्यव्यञ्जका ध्वनयः प्रत्येकं भिन्नास्तथापि सादृश्या- द्विन्नतयाऽप्रतीयमाना वर्णादीन् व्यञ्जयन्ति । वर्णाभिव्यञ्जकध्वनिसङ्घ- शब्दभिव्यङ्ग्यत्वात्पदेषु वर्णाः पदाभिव्यञ्जकध्वन्यभिव्यङ्ग्यत्वात् वाक्ये पदानि भासन्ते । परमार्थतो मिथ्याभूतान्यपि मासन्ते । ननु जन्यजनकयोरेव नियतत्वम् । तन्तुभिरेव पटः, कपालाभ्यामेव- घटः, न व्यङ्ग्यव्यञ्जकयोः, घटव्यञ्जकेनापि दीपेन पटव्यक्तिक्षर्शनार्त् । नाप्यभिव्यङ्ग्यत्वेऽभिव्यञ्जकनियमः मणप्रदीपापिभिरपि घटाद्यभिव्यक्तेः । तथा च ध्वनिशब्दयोव्यङ्ग्यव्यञ्जकभावे कण्ठाभिघातजेन ध्वनिना अकार एव, ताल्याभिघातजेन चकार एवेति नियमो न स्यात् नियमस्य च दर्शनात् ध्वनिशब्दयोर्जन्यजनकभाव एव युक्तः । न व्यङ्ग्य- व्यञ्जकभाव इति चेन्न, इन्द्रियविषययोरिव व्यङ्ग्याव्यञ्जकत्वेऽपि ध्वनिस्र्फोटयोर्योग्यतान्नियमोपपत्तेः । यथा चक्षुषीरूपग्राहकता घ्राणे


[पृष्ठ ४०१]

गन्धग्राहकता, रूपे चक्षुर्ग्राह्यता, गन्धे घ्राणग्राह्यतेति जन्यजनकत्वा- भावेऽपि योग्यतान्नियता । तथैव प्रकृतेपि तदुपपत्तेः । यदप्युक्तम्-घ्राण-श्रोत्रयोः स्वसजातीयद्रव्यमात्रसमवेतगुणग्राह- कत्वम्, ततश्च रूप-रस-स्पर्शाः विसदृशेन्द्रियग्राह्याः, गन्धशब्दौ सह- शेन्द्रियग्राह्यौ । तत्र यथा सहशेन्द्रियग्राह्ये गन्धेऽभिव्यञ्जकनियमो नास्ति, तथैव तादृशे शब्देऽप्यभिव्यञ्जकनियमेन न भवितव्यम् । दृश्यते तु नियमस्तस्माच्छब्दो न व्यङ्ग्यः किन्तुत्पाद्य एव । तदपि न; गन्धेऽपि व्यञ्जकनियमदर्शनात् । यथाहि कुङ्कुमगन्धाभिव्यञ्जकं गोघृतं नियतं तथैव शब्देपि नियमो युक्तः । ननु गन्ध-रस-रूप-स्पर्शेषु सहशेन्द्रियग्राह्यत्वेन अभिव्यञ्जकानां संख्यावृद्धिह्रासांश्च अभिव्यङ्ग्योऽनुवर्तते । तैले श्यामं, जले गौरं, वज्र- मणौ लघु, दर्पणे बृहत्, वङ्गे-दीर्घं, मुकुरे वर्तुलं च प्रतिबिम्बं दृश्यते, तथैवाभिव्यञ्जकध्वनेर्भेदे वृद्धौ चाभिव्यङ्ग्ये शब्दे भेदो वृद्धिश्च भासते । वैशेषिकाणां रीत्या संयोगाद्विभागाच्छब्दाद्वा शब्दोत्पत्तिं वदन्ति । यथा वातेनैका वीचिस्तया तरङ्गात्तरं तेनान्यदिति पूर्वपूर्वतरङ्गेभ्य उत्तरोत्तरतरङ्गाणामुत्पत्तिः । एवं भेरीदण्डसंयोगात् वेणुदलविभागाद्वा शब्द आकाश उत्पद्यते । सचासमवायिकारणतया शब्दान्तरमारभते । तच्चान्यदिति परम्परया श्रोत्रपथमवतर्णी गृह्यते । भेरीशब्दो मया श्रुत इत्यनुभवस्तु भ्रम एव । वैयाकरणास्तु-स्फोटस्य ग्रहणे प्राकृतध्वनिं हेतुमाहुः । वैकृतं ध्वनिं वृत्तिभेदे हेतुमाहुः । तदुक्तम् संग्रहकारैः- स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते । वृत्तिभेदे निमित्तत्वं वैकृतः प्रतिपद्यते ॥' यथा प्रकाश उद्यन्नेव घटादिभ्यो भिन्नं घटं प्रकाशयति पश्चात् प्रका- शेन पुनः पुनर्द्दश्यमानोऽपि घटः, न पूर्वप्रकाशिताद्घटात् भेदमालम्बते तथा प्राकृतध्वनिरेव भिन्नं स्फोटं व्यञ्जयति । अनन्तरं वैकृतध्वनिस्तु पूर्वाभिव्यक्तस्यैव तावत्कालमुपलब्धे हेतुर्भवति,न पूर्वाभिव्यक्ताद् भिद्ये । वे० वि०-२६