वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 223, कुल 237 में से
संदर्भ में पढ़ें[पृष्ठ ४२०]
अन्त्यस्यैव शब्दस्य वैशेषिकादिभिरैन्द्रियकत्वाभ्युपगमात् । अथान्त्य एव पक्षोऽस्तु मीमांसकं प्रत्याश्रयासिद्धेः । ऐन्द्रियकत्वस्य सामान्ये सत्त्वाद् व्यभिचाराच्च । एवं वर्णानां नित्यत्वेन न तत्पौरुषेयत्वेन वेदानां पौरुषेयत्वम् । घटादिपदगता वर्णानुपूर्वी चापि प्रवाहरूपेण नित्यैव, तस्या सादित्वे प्रमाणाभावात् । कुम्भकारादिपदे पदानामपि चानुपूर्वी नित्यैव । तस्माद्वर्णपदानुपूर्वीणामपि पौरुषेयत्वमुखेनापि न वेदानाम्पौरुषेयत्वम् बाध्यते । तथैव वेदे वर्णपदानुपूर्वी भाञ्जि वाक्यान्यपि नित्यान्येवेति न कथञ्चन तत्र पौरुषेयताप्रवेशः इति दिक् ।
[पृष्ठ ४२१]
ब्राह्मणानां वेदत्व-विमर्शः
कश्चन सामाजिकः प्रत्यवतिष्ठते-“मन्त्रब्राह्मणयोर्वेदनामधेयम्' इति वचनबलादेव ब्राह्मणानां यद्वेदत्वम्, तद्धि केवलं कृष्णयजुर्वेदीय- श्रौतसूत्रेष्वेव, न ऋग्वेद-यजुर्वेद-सामवेदीय-श्रौतसूत्रेषु । निर्वृत्त- प्रयोजनमिदं वचनमेषु सूक्तेषु । यतो हि-वेदत्रयस्य मन्त्रसंहिताः स्वतन्त्राः पृथक् पठ्यन्ते; ब्राह्मणाानि च स्वतन्त्राणि पृथक् । एवञ्च प्राचीनपरम्परानुसारं कृष्णयजुर्वेदमन्त्र-ब्राह्मणयोः सम्मिश्रणात् तदेक- देशानां मन्त्राणामेव वेदसंज्ञा प्राप्ता, न ब्राह्मणानाम् । अतः सम्पूर्ण- संहिताया वेदत्वसिद्धयै कृष्णयजुःश्रौतसूत्रकारैरेव वचनमेतादृशमुपनि- बद्धम् । अत एव सूत्रस्यास्य व्याख्यायां हरदत्तेन धूर्त्तस्वामिना च स्पष्ट- मुल्लिखितम्-“कैश्चिन्मन्त्राणामेव वेदत्वमाश्रितम्” इति । अतः स्पष्ट- मेतत् प्रतीयते यत्प्राचीनैरनेकैः आचार्यैः मन्त्राणामेव वेदत्वमङ्गीकृतम्, न ब्राह्मणानाम् । कथञ्चित् स्वाकृतेऽपि वचनस्यास्य प्रामाण्ये आपस्तम्बा- दिश्रौतसूत्र-परिभाषाप्रकरणपठितत्वादस्य सा पारिभाषिक्येव संज्ञा भवेत् । सा च प्रतिशाखं प्रातिस्विकी पृथगेव । यथा पाणिनेः 'अ-ए- ओ' वर्णानां गुणसंज्ञा । लोके न्यायादिशास्त्रेषु वा 'गुण'शब्देन न 'अ-ए-ओ' वर्णानां ग्रहणम् । स्पष्टमेतत् यत् ऋग्वेदादौ मन्त्राणां ब्राह्मणानाञ्च पूर्णतया पार्थक्यम् । अतस्तत्र ब्राह्मणानां वेदत्वप्रसक्तिरेव नोपसर्पति" इति । तदेतदसङ्गतम् ; 'कात्यायनभिन्नैः ऋषिभिर्वेदसंज्ञाया अस्वी- कृतत्वादि'ति तद्भाष्य-स्वामिदयानन्दोक्तिविरोधात् । एतद्रीत्या कात्यायनमहर्षिणा ब्राह्मणानां वेदत्वमङ्गीक्रियते । कात्यायनश्च शुक्ल- यजुर्वेदीयो न कृष्णयजुर्वेदीयः । परमेतदुक्तिरपि न सङ्गता, ब्राह्मणानां वेदत्वबोधकवचनान्तराणामभावेऽपि परमाप्तस्य श्रौतसूत्रकारस्य कात्यायनस्य वचनमेव तत्र पर्याप्तम् । यदि सम्भवेदार्षवचनेन केन- चिदस्य विरोधस्तर्हि विचारायावकाशः स्यादपि । न हि कस्यचित्