वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 222, कुल 237 में से
संदर्भ में पढ़ेंसन्तोऽमहत्त्ववच्छब्दे महत्त्वं सम्पादयन्तीति वक्तुं न शक्यते । परमते शब्दस्य गुणवत्त्वेन निरवयवत्वात् । ततोऽगत्या कणशष्कुलीमण्डलस्य सर्वां सरणिं व्याप्नुवद्भिः संयोगविभागैर्नैरन्तर्येण असकृद् ग्रहणात् महानिवावयववानिव प्रतीयते । तथा च नादपदवाच्यानां संयोगवि- भागानामेव वृद्धिः । अन्ये तु ध्वनिरेव नादस्तत्र वर्णा व्यज्यन्ते, तत्र ध्वनीनां वृद्धथैव शब्दवृद्धिर्विभ्रमः । न च रूपाद्रिवद् व्यञ्जकसमानदेशे व्यङ्ग्याभिव्यक्तौ बाधा, नवा- दारुव्रश्चने दारुपरशुसंयोगनिवृत्तौ दूरस्थेन शब्दग्रहणानुपपत्तिः, नवा व्यञ्जकाभावे व्यङ्ग्यग्रहणम्, दारुव्रश्चने दारुपरशुसंयोगनिवृत्तावपि दारुपरशुसंयोगजनितानां वायुसंयोग-विभागानां श्रवणकाले सत्त्वात् । ते च यावद् दूरं गच्छन्ति तावत्पर्यन्तमेवस्तिमितवायुसमुत्सा- रणं तावद्दूरमेव शब्दप्रत्यक्षमपि भवति । शब्दस्य तीव्रत्व-मन्दत्वादिक- मप्युच्चारणस्यैव तीव्रत्वमन्दत्वादिसमारोपनिबन्धनं भ्रान्तिमूलकमेव । एवं पूर्वपक्षं निराकृत्य महामुनिर्जैमिनिः शब्दनित्यत्वं साधयितुं सूत्र- मारचयाञ्चकार । 'नित्यस्तु स्याद्दर्शनस्य परार्थत्वात्' (पू० मी० १।१।१८) नित्यः शब्दः स्यात्, दर्शनस्य दृश्यते व्यज्यतेऽनेनेति दर्शनम् उच्चारणम्, तस्य परार्थत्वात्, अन्यस्यार्थस्य प्रतिपत्त्यर्थत्वात् । अनित्यत्वे कथं श्रोतुरर्थावगमपर्यन्तं स्थितिः स्यात् ? अन्यथात्वे कारणा- भावात्कथमर्थापत्तिः स्यात् ? अर्थावगमपर्यन्तावस्थानेन नाशकाभावा- दनाशे नित्यत्वमेव शब्दस्य सिद्ध्यति । 'सर्वत्र यौगपद्यात्' (पू० मी० १।१।१९) सर्वत्र देशेषु कालेषु चोच्चारितगोशब्दमात्रे गकार एक एव यौगपद्यात् । अबाधित- प्रत्यभिज्ञाया युगपदुपपत्तेः । स एवायं गकार इति युगपदनेकेषां भवति प्रत्यभिज्ञानम् । न ह्यनेके युगपद्भ्रान्ता भवन्ति । 'संख्या ऽभावात्' (पू० मी० १।१।१९) दशकृत्वो गोशब्दोच्चारे दशवारमुच्चारितो गोशब्दः इत्येव वदति लोकः । न च दशगोशब्दा- उच्चारिता इति शब्दसंख्याभावात् नित्यः शब्दः । 'अनपेक्षत्वात्' (पू० मी० १।१।२१) शब्दनाशकारणस्य सर्वसाधारण्येन ज्ञानाभावात् । घटपदादर्शनमात्रेण यथाऽसमवायिकारणादिनाशान्नाशो ज्ञायते । न तथा शब्दनाशकारणात् शब्द नाशो ज्ञायते । 'प्रख्याभावाच्च योग्यस्य' (पू० मी० १।१।२२) यदुक्तम्-वायुपरमाणुप्रकृतिकः शब्दः तदीयसंयोगैर्जन्यते, जन्यत्वा- दनित्य एव शब्दः, वायुरापद्यते शब्दतामिति शिक्षावचनादिति तन्न, योग्यस्य श्रोत्रेन्द्रियजन्यप्रत्यक्षविषयस्य शब्दस्य प्रख्याभावात् । अस्य- वायुविकारस्येव वायुविकारस्य शब्दस्य श्रोत्रेन्द्रियग्राह्यत्वासम्भवात् । लिङ्गदर्शनाच्च' (पू० मी० १।१।२३) 'तस्मै नूनमभिद्यवे वाचा- विरूपनित्यया । वृष्णे चोदस्व सुष्टुतिम्' इति मन्त्रे नित्यया वाचेति लिङ्गं दृश्यते । तेनापि शब्दस्य नित्यत्वमेव सिद्ध्यति । आदिमत्त्वं कारणवत्त्वं कृतकवद्व्यवहारश्चोच्चारणस्यैव भवति न शब्दस्य, उच्चारणस्यैव संयोगविभागजन्यत्वात् । ऐन्द्रियकत्वन्तु नानित्यत्वप्रयोजकम् । त्वन्मतेऽपि नित्यस्य शब्दत्वस्यैन्द्रियक- त्वाभ्युपगमात् । यदुक्तम्-शब्दो गुणः शब्दत्वात् ध्वनिवदिति तन्न, वर्णा न गुणा ध्वन्यन्यत्वे सति श्रावणत्वात् शब्दत्ववत् । एतेन स्पर्शविरहितत्वे सति एकेन्द्रियग्राह्यत्वात् रूपाद्रिवत् शब्दस्य गुणत्वमिति । तदपि न, पूर्वोक्तस- त्प्रतिपक्षस्य तद्बाधकत्वात् । ह्यस्तनाद्यतनयोः प्रत्यभिज्ञानेन न वर्णानां प्रत्युच्चारणमन्यत्वम् । उच्चारणञ्च न वर्णानां कारणं किन्त्वभि- व्यञ्जकमेव । वायुरापद्यते शब्दतामिति शिक्षावचनन्तु वायुः शब्दाभिव्यक्ति- हेतुतामापद्यते इत्यर्थक एव । यथा धेनुत्वमग्नेर्विदाहित्वञ्च गोर्गमकं तथैव स्थिरः शब्दः सम्बन्धानुभवसापेक्षः सामान्यार्थावबोधको भवति । न कृतकत्वेनानित्यत्वसाधनं सम्भवति, कृतकत्वस्य परं प्रत्य- सिद्धत्वात् । शब्दं करोतीति व्यवहारस्योच्चारणपरत्वेनोक्तत्वाच्च । नाप्यैन्द्रियकत्वमनित्यत्वहेतुः, आद्यमध्यमशब्दयोरैन्द्रियकत्वाभावात् ।