वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 221, कुल 237 में से
संदर्भ में पढ़ें४१६ वेदपौरुषेयत्वविमर्शः पक्षो युक्त इत्याह-सतः सर्वदा विद्यमानस्य परं पूर्वोत्तरकालेऽदर्शनम् संस्कर्तुः व्यञ्जकस्य विषयं शब्दं प्रत्यनागमात् । अयमभिप्रायः-स एवायं गकार इति प्रत्यभिज्ञानेन लाघवेन च नित्यः शब्दः स्वीकर्त्तव्यः । तस्य च मुखोद्गतवायुसंयोगविभागैः शब्द- प्रत्यक्षप्रतिबन्धकीभूतस्य स्तिमितवायोरपसारणेन भवत्यभिव्यक्तिः । ततएव तदानीमेव शब्दप्रत्यक्षं भवति । संयोगविभागाभावे स्तिमित- वायुरूपप्रतिबन्धकसद्भावात् । केषाञ्चिद्रीत्या ध्वनिभिरिन्द्रियस्य संस्कारः । अन्येषां रीत्या शब्दस्य- संस्कारः । अपरेषामुभयस्य संस्कारः । चित्तैकाग्र्येणाञ्जनादिभिश्च यथा चक्षुष एव संस्कारो न विषयस्य । विषयसंस्कारे तु एकेन समाहितेन चेतसा चक्षुषा विधये संस्कृते तदन्यैरपि विषयग्रहणं स्यात् । एवं ध्वनिभिः श्रोत्रस्यैव संस्कारो न शब्दस्य, तथात्वे शब्दस्य विभुत्वेन सर्वश्रोत्रसम्बद्धत्वात् सर्वैरपि तद्ग्रहणप्रसक्तेः । ध्वनौ काचिदतीन्द्रियशक्तिरेव संस्कारजनिका । अत एव केनाकारेण संस्कृतिरिति न पर्यनुयोगः । उत्पत्तावपि तादृक्पर्यनुयोगस्य तुल्यत्वात् । अन्यरीत्या विषयस्य तैलादेर्यथातपे न संस्कारः शुष्कभूमेर्गन्धस्यो- दकेन संस्कारो भवति तत्प्रतिपत्तये न घ्राणेन्द्रियस्य संस्कारः तथात्वे संस्कृता संस्कृतप्रयुक्तगन्धयोर्भेदो न स्यात्, तथैव ध्वनिभिः शब्दस्यैव सस्कारो न श्रोत्रस्य सर्वशब्दप्रकाशकत्वापत्तेः । नहि घटायोन्मी- लितंचक्षुः परं न बुद्धयते । अपररीत्या चक्षुषः प्राप्यकारित्वेन तथा लोकस्य विषयेन्द्रिययोरपि संस्कारकत्वम् तथैव ध्वनेरपि क्रमो ज्ञेयः । तेजसाविषये तमोनिवृत्तिः, चक्षषि तद्रश्मिवर्धनञ्च क्रियते तथैव ध्वनिनाशब्दश्रोत्रयोरुभयोरपि कश्चित्संस्कार क्रियते । शब्दे तदावरकस्तिमितवाय्वपसारणस्सः श्रोत्रे च श्रोत्रमभिव्याप्य स्थितस्य कोष्ठयवायोरपसारणरूपः संस्कारः क्रियते ।
वेदपौरुषेयत्व विमर्शः ४१७ यदि चक्षुर्मात्रं संस्कुर्यादालोकस्तदा आलोकदेशस्थितोपि अन्ध- कारस्थं घटं पश्येत् । यदि विषयमात्रं संस्कुर्यात्तदा आलोकस्थघटस्य सर्वैरपि ग्रहणं स्यात् । सन्तमसस्थस्य पुरुषस्य त्वालोकमितप्रहणं नानुषपन्नं, चक्षुषः प्राप्यकारित्वेन घटप्रदेशगतस्य चक्षुषस्तत्रस्थेना- लोकेन संस्कारसम्भवात् । गोलकमात्रं चक्षुरिति बौद्धमते ! तच्च विषयासम्वद्धमेव विषयप्रका- शकम् । प्राप्यकारित्वे रसनादिवदधिष्ठानसम्बद्धं गृह्णीयान् । न चैवं दृश्यते गोलकासम्बद्धग्रहणात् । स्वतोऽधिकपरिमाणवच्च न गृह्णीयात् तन्न, अधिष्ठानासम्बद्धार्थग्राहिण्याः प्रदीपप्रभाया इव चक्षुषोपि प्राप्यकारित्वे पृथुलग्रहणे च बाधाभावात् , स्वाधिकपरिमाणग्राहिणा त्वगिन्द्रियेण व्यभिचारात् प्राप्यग्राहिणा नाधिकपरिमाणवद्ग्रहणमिति- नियमे मानाभावाच्च । 'प्रयोगस्य परम्' ( पू० मी० १।१।१४ ) शब्दं करोतीत्यत्र करोतीति पदं तु प्रयोगस्योच्चारणस्य परं वक्तव्यार्थकम् । अर्थात् उच्चारं करोतीत्य- थकं शब्दं करोतोऽतिप दमिति । तेन प्रयत्नादिकारणवत्त्वं तूच्चारण एवोप- क्षीणमित्यर्थः । 'आदित्यवद्यौगपद्यम्' (पू० मी० १।१।१५ ) यथैकः सूर्यः नौनादेशस्थैर्यगपद्मीक्ष्यते तथावित्यवन्महान् शब्दो न सूक्ष्मस्तस्मादेव- शब्दो नानासन्निकृष्टविप्रकृष्टदेशस्थैः पुरुषैर्यगपदुपलभ्यते । तेन सत्त्वान्तरे देशान्तरे यौगपद्येनोपलम्भादपि न शब्दस्यानित्यत्व- नानात्वसिद्धिः । 'वर्णान्तरमविकारः' ( पू० मी० १।१।१६ ) इकारस्या- ने यकारो वर्णान्तरमन्य एव वर्गः, नेकारस्य विकारस्तृणानां कट इव । तथात्वे कटकत्र्त्रानियमेन तृणसम्पादनवत् यकारं प्रयुञ्जानो नियमेनेका- रमाददीत । तस्मान्न प्रकृतिविकारभावेन शब्दानित्यत्वसाधनं सम्भवति । 'नादवृद्धिःपरा' ( पू० मी० १।१।१७ ) वृद्धिश्चेत्यस्योत्तरमाह-परा अतिशयिता शब्दवृद्धिरिति भ्रान्तिरेव नादवृद्धिमूलिका । बहुभिर्भरी- माद्यनद्विर्वाणत्मकशब्दमुच्चारयितृभिर्वा महान् शब्द उपलभ्यते । तत्र- शब्दस्य वृद्धिन सम्भवति । तत्र मते प्रतिपुरुषं शब्दावयवा उत्पन्नाः वे० मी०—२७