भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 220, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 220

४१४ वेदपौरुषेयत्वविमर्शः एतेन- "वस्तुतस्तु न केवलं शब्दार्थसम्बन्धस्यैव अनित्यत्वम्, परं शब्दस्याप्यनित्यत्वं बोध्यम् । नहि शब्दो नित्यो भवितुमर्हति, उत्पत्ति- प्रध्वंसशीलत्वात् तस्य । तथा हि न्यायसूत्रम् - 'आदिमत्त्वात्' ऐन्द्रिय- कत्वात् कृतकवद् व्यवहाराच्च' (न्या० २।२।१४) इति आदिर्योनिः कार- णम् आदीयते अस्मादिति । कारणवदनित्यं दृष्टम् संयोगविभागजश्च शब्दः कारणवत्त्वादनित्य इति । ऐन्द्रियकत्वात्, इन्द्रियप्रत्यासत्तिग्राह्यः ऐन्द्रियः । किमयं व्यञ्जकेन समानदेशोऽभिव्यज्यते रूपादिवत् अथ संयोगजाच्छब्दाच्छब्दसन्ताने सति श्रोत्रप्रत्यासन्नो गृह्यते इति । दारुव्रश्चने दारुपरशुसंयोगः । निवृत्तौ दूरस्थेन शब्दो गृह्यते । न च व्यञ्जकाभावे व्यङ्ग्यस्य ग्रहणं भवति । तस्मान्न व्यञ्जक