वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 219, कुल 237 में से
संदर्भ में पढ़ेंशास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके च कामधुग् भवति, इत्यादि वचनात् । 'एकः पूर्वपरयोः' पा० सू० ६।१।८४ ) इति सूत्रभाष्यात् । ननु साधुस्मरणाच्छक्तिभ्रमाद्वा प्रयोगप्रत्यय इति चेन्न; गवादिष्वपि तथात्वस्य वक्तुं शक्यत्वात् । तस्मात्पुण्यपापयोरेव वैशिष्ट्यम् । तदुक्तं वाक्यपदीये- वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः ।' अपभ्रंशे शक्त्यंशे कदापि कस्यापि व्यवहर्तुर्बाधादर्शनेन न शक्तिग्रहस्य भ्रमत्वम्, असति बाधके प्रमात्वस्यैव न्याय्यत्वात् । ऋषीणां भ्रमासंभवेन ततो बोधानापत्तेः । वैयाकरणैर्ग्राह्यग्राहकभाववर्जिता सर्वतः संहृतक्रमाऽपरिच्छिन्नशा- वागेव ब्रह्माभ्युपेयते । सैव चाविद्याविशिष्टा ज्ञेयाख्या जीवरूपेण- भोक्तृत्वमुपगच्छति । सैव चार्थविशेषोपलक्षिता मनोविज्ञानरू