वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 234, कुल 237 में से
संदर्भ में पढ़ें४४२ वेदस्वरूप-विमर्श 'वा यः' इति मुद्रितम् । तेन समाजिनां मूलवेदत्वेनाभिमता ऋक्- संहिता यास्कदृष्ट्या शाकल्यकृता पौरुषेयी एव सिद्ध्यति । श्रीविश्वेश्वरानन्दश्च शाकलसंहितासूच्यां 'वायः' इत्येकं पदं न प्रकाशितवान् । किंतु सूच्याः ३७१ पृष्ठे 'वा', ३७२ पृष्ठे च 'यः' इति प्रकाशितवान् । तत एव प्रकाशितायाम् अथर्वसंहितायां 'वा' 'यः' इति पृथक् पृथगेव पाठः । तेनोभयोः संहितयोः पौरुषेयत्वमापतति । अर्थस्तु 'वायः, इति पाठं मत्वैव कृतः । तेषां स्वाभिमतरीत्या तु सर्वेऽपि पाठा अपौरुषेया एव । पाठभेदेन पौरुषेयत्वोक्तिस्तु निन्दार्थ- वाद एव । 'शाखाभेदाश्च ये केचित् याश्च शाखासु गीतयः । स्वरवर्णसमुचाराः सर्वास्तान् विद्धि मत्कृतान् ॥' महा० शान्ति० ३४२।१००-१००-१०१ (९७) इति भगवत्कृतत्वादपौरुषेयत्वेन शाखाभेदीयगीतिस्वरवर्णसमु- च्चाराणाम् अपौरुषेयत्वमेवोक्तम् । आनुपूर्व्या अनित्यत्वञ्चेत् ? तद् यथा ब्राह्मणभागस्य तथैव मन्त्रभागस्यापि, यथेतरासंहितानां तथैव समाजिसम्मत-शाकली- शौनकी-कौथुमी-माध्यन्दिनीति संहिताचतुष्टयस्यापि । ४।३।१०१ सूत्रे महाभाष्योद्धृतानि काठक-कालापक-मौदक-पैप्पलादशाखानामानि अन्या- सामुपलक्षणार्थमेव । अन्यथा समुद्धृतनाम्नीनां शाखानामेव आनु- पूर्व्या अनित्यत्वे तद्भिन्नानां मैत्रायणी-काण्व-तैत्तिरीयक-कापिष्ठलक- जैमिनि-राणायनीय-बाष्कलादि संहितानाम् आनुपूर्व्या नित्यत्वापत्तिः स्यात् । न च सामाजिकानामिष्टं तत् । “महाभाष्यकारेण—'छन्दोऽर्थं तर्हीदं वक्तव्यम् । नहि छन्दांसि क्रियन्ते, नित्यानि छन्दांसि' ( छन्द