वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 233, कुल 237 में से
संदर्भ में पढ़ेंपदपाठस्य सम्प्रदायश्च शोऽङ्गीकृतः। यच्च पतञ्जलिना 'न लक्षणेन पद- कारा अनुवर्त्याः, पदकारैर्नाम लक्षणमनुवर्त्यम्' इति कथितम्" इति। तदप्यविचारितरमणीयम्; वेदरूपसम्बन्ध इव पदपाठेऽपि कैयट-नागे- शयोः वैदिकैर्मतभेदेन तदप्रामाण्यात्। पतञ्जलेस्तु उक्तभाष्यांशे वैदिक- शब्दानुपूर्व्या अनित्यत्वोक्तिस्त्वेकदेश्येव। तथा हि-'तेन प्रोक्तम्' (४।३।१०१ इति सूत्रे ननु चोक्तं नहि च्छन्दांसि क्रियन्ते, नित्यानि छन्दां- सीति। यद्यप्यर्थो नित्यो या त्वसौ वर्णानुपूर्वी साऽनित्या' इति महाभाष्ये अर्थनित्यत्वेनैव वेदानां नित्यत्वमुक्तम्। वर्णानुपूर्वीविशिष्टस्य वेदस्य तु अनित्यत्वमेवाङ्गीकृतम्। कैयट-नागेशाभ्यामपि ब्रह्मनित्यत्वेनैव वेदानां नित्यत्वमुक्तम्। शब्दानुपूर्वीरुपेण त्वनित्यत्वमेव। शब्दार्थोभ