वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 40, कुल 237 में से
संदर्भ में पढ़ें५४ वेदस्वरूप-विमर्शः 'न शब्दाभेदमात्रेण बुद्धिरर्थेषु जायते । प्राक् शब्दाद्यादृशी बुद्धिः शब्दादपि हि तादृशी ॥' ( श्लोकवार्तिके, १७२ ) न च निर्विकल्पकसमये 'यत्किञ्चिदिदमि'त्यादिसामान्यशब्दोल्लेखः कोऽपि कैश्चिदनुभूयते । तस्माद् गौरित्यादिज्ञानानां शाब्दत्वेऽपि अतथाविधस्य ज्ञानस्य लक्ष्यस्य सद्भावात्र व्यर्थं लक्षणमित्येवमसंभव- दोषनिवारणाय अल्पपदेश्यपदम् । यद्यपि शब्दाकारगत्व-तदनित्यत्ववादिनां मतरीत्या कथञ्चिदेत- दुपपद्यते, परन्तु— 'अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥' इतिरीत्या येषां शब्दब्रह्माकारैकत्वं जगतस्तेषां तु प्रत्ययस्य शब्दा- नुवेधः संभवत्येव । यद्यपि घटादेर्मुद्गरवेद्यस्येव न प्रत्यक्षस्य शब्दानुवेधः संभवति । नहि सर्वत्र प्रत्यये स्पष्टतया शब्दोल्लेखः, तथापि स्थूलस्य शब्दस्यानुपलम्भेऽपि सूक्ष्मस्य तत्रापि सत्त्वात् । अत एव अनवाप्त- शब्दार्थसम्बन्धविशेषव्युत्पत्तयो बाल-मूकादयोऽपि प्रमातारो 'यत् तत्- सन् किमि'त्यादिशब्दज्ञानमनुल्लिखन्तो न किमपि प्रतियन्ति । तेन शब्दोन्मेषप्रभावप्राप्तप्रकाशस्य भावत्त्वमेव सर्वप्रत्ययानाम्, 'न सो- ऽस्ती'ति अभियुक्तोक्तेः । एवमनभ्युपगमे तु संविदः प्रकाशशून्यतया अनधिगतसर्वविषयः सर्व एव लोकः अन्धमूकप्रायः स्यात् । तदुक्तम्—'वाग्रूपता चेदुत्क्रामे- दिति ( वाक्यप० १२५ ) । 'न शब्दाभेदरूपेण' इत्यादिवात्तिकं तु शब्दबुद्ध्योर्व्यावहारिकभेदमाश्रित्य बुद्धेः स्वभावभेद उक्तः । योगसूत्र-तद्भाष्यकृताऽपि तदभिप्रा येणैव शब्दप्रत्यययोर्भेद उक्तः । अन्यैस्तु—"गौरित्यादिज्ञानस्य इन्द्रियजन्यस्य न शाब्दत्वमिति नासम्भवदोषः । न च शब्दावच्छिन्नोऽर्थः प्रकाशते ; करणाभावात् । विशेष्यार्थप्रमितौ शब्दः करणं भवति । विशेषणभूतस्य शब्दस्य ग्रहणे
वेदस्वरूप-विमर्शः ५५ तु करणाभावः स्पष्ट एव । न च शब्दावच्छिन्नार्थप्रकाशे न श्रोत्रं करणम्; विरम्य व्यापारासंवेदनात् । नापि मनः करणम् ; बाह्ये स्वातन्त्र्येण तदप्रवृत्ते"रिति । वस्तुतस्तु—शब्दस्य करणत्वमुक्तमेव ; तस्यैव सहस्रकिरणवत् आत्मनो विषयस्य च प्रकाशकत्वसम्भवात् । यदप्युक्तम्—"सवितृग्रहणकाले सविता कर्मैव, न करणम् ; करण- निरपेक्षस्यैव च चक्षुषो ग्राह्यत्वमभ्युपगमात्" इति । तन्न ; घटादिद्रव्य- ग्रहणे चक्षु ष आलोकादिसापेक्षत्वेन तत्रापि तदपेक्षाया अनिवार्यत्वात् । अत एव "सूर्यप्रकाशः प्रकाशान्तरनिरपेक्षश्चक्षुरिन्द्रियेण प्रथमगृहीत- श्चिरमवतिष्ठमानस्त्विन्द्रियग्राह्ये एव विषये करणतामुपयाति । शब्दस्तु क्षणिकः श्रोत्रेन्द्वियग्राह्यः, तदितरपरिच्छेदे विषये तदवगमक्रियायां करणीभूय तस्यामेव क्रियायां कथमिव कर्मभावमनुभवेत्" इत्यपि न; ध्वनीनां क्षणिकत्वेऽपि शब्दस्य नित्यत्वाभ्युपगमेन तद्दोषात् । ध्वनीना- मपि प्रत्यभिज्ञायमानत्वेन न क्षणिकत्व मित्यन्यत्र प्रतिपादितम् । यदप्युक्तम्—"उपायत्वाद् धूमादिवत् नोपेयग्रहणकाले पुनर्ग्रहण- मर्हति । स्मर्यमाणोऽपि शब्दो यत्रार्थप्रतीतिकारणं तत्रापि प्रथमं शब्द- स्मरणम् । ततः शब्दार्थ संप्रत्ययः । नतरां तत्रार्थ प्रतीतिवेलायां शब्दग्रहणं सम्भाव्यते । तस्मान्न वाचकविशेषितवाच्यप्रतिभासः" इति तदपि न ; शब्दानुविद्धज्ञानस्य भासमानत्वेन अनुभवविरुद्धत्वात् । यद्यपि गौरिति ज्ञानस्य इन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधा- यित्वेन चाक्षुषत्वमेवोक्तम् ; तथापि शब्दावच्छिन्नार्थप्रकाशस्य उपपा- दनाय मरीच्युदकप्रतीतौ स्मृत्युपारूढोदकस्येव स्मृत्युपारूढस्य शब्दस्य तत्र भानमुक्तम् । 'यथा चायिषये तस्मिन्नीरे नयनजा मतिः । तथा वाचकसंसृष्टे वाच्ये किमिति नेष्यते ॥ यथा च तय कालादि नीरूपमपि चाक्षुषम् । तथा शब्दानुरक्तोऽपि किमित्यर्थो न चाक्षुषः ॥'