वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 42, कुल 237 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the text from the image into clean Devanagari Markdown:
[Left Page]
५८ वेदस्वरूप-विमर्शः पूर्वोपरक्षिप्तदिप्रत्याः, 'इह तन्तुषु पट' इत्याविप्रत्याश्च दिक्कालसम- वाय्यादिनः। परमेते दिक्कालाद्याः सामग्यन्तर्गताः सन्तः प्रत्ययातिशय- मादधति, न तद्विषया भवन्ति पटादिद्रव्ययत् । एवं पतनावतुमेय- गुरुत्वाधिकार्यभेदजनिता 'गुरुः पाषाणः' इत्यादित्रत्ययाः परोक्षविशेषणं विशेष्यमबलम्बन्ते । तस्माद् गौरित्यादिज्ञानं न वाचकावच्छिन्नवाच्यविषयम् । तेन न शाब्दं तत् । तेनैव च न लक्षणवैयर्थ्यम् । तस्मान् उभयज्ञानव्यवच्छे- दार्थमेव अव्यपदेश्यपदम् । ननु तदपि प्रत्यक्षमेवेति अनयोद्यमुक्तमिति चेत् ? सत्यम् ; तथापि यत्र संज्ञिनं निर्दिश्य संज्ञा उपदिश्यते, तत्र शब्द एव कारणमिति लोक- प्रसिद्धेरनुभवाच्च । अन्ये तु- "यदि संज्ञापदेशवचनजनितस्य उभयज्ञानस्य व्यवच्छे- दकमिदं तदा तद्व्यवहारकालेऽपि संज्ञापदेशश्रवणस्मरणपूर्वकं ज्ञान- मुत्पद्यते, तदुभयमजमेवे"ति । तदप्यनत व्युदस्तं भवतु । ननु तत्र शब्दस्मरणं कारणं न शब्द इति चेत् ; संकेतकालेऽपि तत्स्मरणमेव कारणम् । असत्यवगों स्मर्यमाणे वा शब्दव्यापारे विशेषाभावात् । तस्मान्न तद्व्यवच्छेदार्थमव्यपदेश्यपदम्, किन्तु शब्दकर्मतापन्नज्ञानव्यवच्छेद एव तत्प्रयोजनमस्तु । ननु न तदपि नाप्रमाणम्, नापि पञ्चममिति चेत्सत्यम् । रूपादि- विषयग्रहणाभिमुखं तद्द्वजं ज्ञानं प्रमाणं वा फलं वोच्यते । यदानु तदेव शब्देन उच्यते 'रूपज्ञानं' 'रसज्ञान'मिति, तदा रूपानिज्ञानविषयग्रहण- व्यापारलब्धां प्रमाणतामपहाय शब्दकर्मतापत्तिक्रतां प्रमेयतामेवाव- लम्बते इति न तस्यां दशायां तत्प्रमाणमिति कुतः पञ्चमप्रमाणप्रसङ्गः ? सविकल्पकस्य शब्दसङ्कल्पनस्य शब्दसंसर्गसापेक्षजन्मनः प्रत्यक्ष- ज्ञानस्य शाब्दतां पूर्ववदाशङ्क्य तद्व्यावृत्तावृतां दर्शयन् अव्यपदेश्यपदेन सूत्रकारः प्रत्यक्षमेव तज्ज्ञानमिन्द्रियान्वयव्यतिरेकानुविधायित्वाद् अव्यपदेश्यमशाब्दमिति प्राह ।
[Right Page]
वेदस्वरूप-विमर्शः ५६ अत्र सर्वत्र पक्षेषु प्रत्यक्षविज्ञाने शब्दाजन्यत्वेन शाब्दत्वाभावेऽपि विषयत्वेन उपायत्वेन वा शब्दस्फुरणमुपेतमेव । निर्विकल्पप्रत्यक्षज्ञाने यद्यपि नैयायिकैः शब्दोल्लेखो नोपेयते; तथापि यत्-तत्-सत्-किमादि- शब्दोल्लेखस्य शिष्टसम्मतत्वमिति वैदिकविज्ञानवादिनाऽभ्युपेतमेव । शब्दस्य कारणत्वादपि तदनुवेधः सर्वत्र उपपन्नः । शब्दार्थयोः पूर्व विशुद्धार्थज्ञानम्, तदनु शब्दस्मरणमिति न्याय- दर्शनस्य प्रत्यक्षलक्षणसूत्रे वात्स्यायनेन शब्दार्थप्रविभागसंयम-सूत्रभाष्ये च योगभाष्यकृता स्पष्टमुद्घुष्टमिति चेत् । सत्यम् ; अत्र न्यायमञ्जरी- 'शब्दानुप्रवेशवशेन व्यपदेश्यं ज्ञानं जायते इति तद्व्यवच्छे- दार्थं प्रत्यक्षलक्षणे अव्यपदेश्यपदं निवेशितम् । यज्ज्ञानमि- न्द्रियार्थसन्निकर्षादुत्पन्नं सद्दिषयनामधेयेन व्यपदिश्यते 'रूपज्ञानं रसज्ञानमि'ति, तद्व्यपदेश्यं ज्ञानं प्रत्यक्षफलं मा भूदित्यव्यपदेश्य पदग्रहणम्" इति । न च ऋषीणां ज्ञानं वाल्मकादिसदृशम्, किन्तु सविकल्पमेव तत्, निर्विकल्पस्य व्यवहारानयोग्यत्वात् । ततश्च मध्यमायामपि वाचि ऋषीणां दैवतादिविज्ञानेन ईश्वरप्रत्तेन सह ईश्वरप्रत्ता एव शब्दा आविर्भूताः । त एव शब्दा वैखर्या तैः प्रकटिताः । तावताऽपि न पौरुषेयत्वं सिद्धयति । यदुक्तम्- "समाहितैर्ऋषिभिर्वेदा दृष्टा इति श्रूयते स्मर्यते च । समाधौ च निर्विकल्पकमेव ज्ञानं भवति, न तत्र शब्दानुवेधप्रत्याशा" इति । तन्न ; सविकल्पे समाधावेव तत्साक्षात्कारसंभवः, शब्द- विशेषरूपाणां वेदानां निर्विशेषत्वाभावात् । ननु तथात्वेऽपि तद्विज्ञानं परिशील्य स्वाभिप्रायेण स्वीयाः शब्दा मध्वादिभिरिवेषा तैरुपनिबद्धाः, विज्ञानसहभुयस्त एव वा शब्दा इति विवाद- स्थानमस्त्येव । न च वर्णनित्यत्वेन पदस्फोट-वाक्यस्फोटसाधनेन वाऽयं विवादः शमयितुं शक्यः; वर्णानां नित्यत्वेऽपि तदानुपूर्वीघटनार्या पुरुषप्रयत्नापेक्षणात् । पदवाक्यादिस्फोटेऽपि तदभिव्यञ्जकप्रथमध्वनि-