भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 42, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 42

Here is the line-by-line transcription of the text from the image into clean Devanagari Markdown:

[Left Page]

५८ वेदस्वरूप-विमर्शः पूर्वोपरक्षिप्तदिप्रत्याः, 'इह तन्तुषु पट' इत्याविप्रत्याश्च दिक्कालसम- वाय्यादिनः। परमेते दिक्कालाद्याः सामग्यन्तर्गताः सन्तः प्रत्ययातिशय- मादधति, न तद्विषया भवन्ति पटादिद्रव्ययत् । एवं पतनावतुमेय- गुरुत्वाधिकार्यभेदजनिता 'गुरुः पाषाणः' इत्यादित्रत्ययाः परोक्षविशेषणं विशेष्यमबलम्बन्ते । तस्माद् गौरित्यादिज्ञानं न वाचकावच्छिन्नवाच्यविषयम् । तेन न शाब्दं तत् । तेनैव च न लक्षणवैयर्थ्यम् । तस्मान् उभयज्ञानव्यवच्छे- दार्थमेव अव्यपदेश्यपदम् । ननु तदपि प्रत्यक्षमेवेति अनयोद्यमुक्तमिति चेत् ? सत्यम् ; तथापि यत्र संज्ञिनं निर्दिश्य संज्ञा उपदिश्यते, तत्र शब्द एव कारणमिति लोक- प्रसिद्धेरनुभवाच्च । अन्ये तु- "यदि संज्ञापदेशवचनजनितस्य उभयज्ञानस्य व्यवच्छे- दकमिदं तदा तद्व्यवहारकालेऽपि संज्ञापदेशश्रवणस्मरणपूर्वकं ज्ञान- मुत्पद्यते, तदुभयमजमेवे"ति । तदप्यनत व्युदस्तं भवतु । ननु तत्र शब्दस्मरणं कारणं न शब्द इति चेत् ; संकेतकालेऽपि तत्स्मरणमेव कारणम् । असत्यवगों स्मर्यमाणे वा शब्दव्यापारे विशेषाभावात् । तस्मान्न तद्व्यवच्छेदार्थमव्यपदेश्यपदम्, किन्तु शब्दकर्मतापन्नज्ञानव्यवच्छेद एव तत्प्रयोजनमस्तु । ननु न तदपि नाप्रमाणम्, नापि पञ्चममिति चेत्सत्यम् । रूपादि- विषयग्रहणाभिमुखं तद्द्वजं ज्ञानं प्रमाणं वा फलं वोच्यते । यदानु तदेव शब्देन उच्यते 'रूपज्ञानं' 'रसज्ञान'मिति, तदा रूपानिज्ञानविषयग्रहण- व्यापारलब्धां प्रमाणतामपहाय शब्दकर्मतापत्तिक्रतां प्रमेयतामेवाव- लम्बते इति न तस्यां दशायां तत्प्रमाणमिति कुतः पञ्चमप्रमाणप्रसङ्गः ? सविकल्पकस्य शब्दसङ्कल्पनस्य शब्दसंसर्गसापेक्षजन्मनः प्रत्यक्ष- ज्ञानस्य शाब्दतां पूर्ववदाशङ्क्य तद्व्यावृत्तावृतां दर्शयन् अव्यपदेश्यपदेन सूत्रकारः प्रत्यक्षमेव तज्ज्ञानमिन्द्रियान्वयव्यतिरेकानुविधायित्वाद् अव्यपदेश्यमशाब्दमिति प्राह ।


[Right Page]

वेदस्वरूप-विमर्शः ५६ अत्र सर्वत्र पक्षेषु प्रत्यक्षविज्ञाने शब्दाजन्यत्वेन शाब्दत्वाभावेऽपि विषयत्वेन उपायत्वेन वा शब्दस्फुरणमुपेतमेव । निर्विकल्पप्रत्यक्षज्ञाने यद्यपि नैयायिकैः शब्दोल्लेखो नोपेयते; तथापि यत्-तत्-सत्-किमादि- शब्दोल्लेखस्य शिष्टसम्मतत्वमिति वैदिकविज्ञानवादिनाऽभ्युपेतमेव । शब्दस्य कारणत्वादपि तदनुवेधः सर्वत्र उपपन्नः । शब्दार्थयोः पूर्व विशुद्धार्थज्ञानम्, तदनु शब्दस्मरणमिति न्याय- दर्शनस्य प्रत्यक्षलक्षणसूत्रे वात्स्यायनेन शब्दार्थप्रविभागसंयम-सूत्रभाष्ये च योगभाष्यकृता स्पष्टमुद्‌घुष्टमिति चेत् । सत्यम् ; अत्र न्यायमञ्जरी- 'शब्दानुप्रवेशवशेन व्यपदेश्यं ज्ञानं जायते इति तद्व्यवच्छे- दार्थं प्रत्यक्षलक्षणे अव्यपदेश्यपदं निवेशितम् । यज्ज्ञानमि- न्द्रियार्थसन्निकर्षादुत्पन्नं सद्दिषयनामधेयेन व्यपदिश्यते 'रूपज्ञानं रसज्ञानमि'ति, तद्व्यपदेश्यं ज्ञानं प्रत्यक्षफलं मा भूदित्यव्यपदेश्य पदग्रहणम्" इति । न च ऋषीणां ज्ञानं वाल्मकादिसदृशम्, किन्तु सविकल्पमेव तत्, निर्विकल्पस्य व्यवहारानयोग्यत्वात् । ततश्च मध्यमायामपि वाचि ऋषीणां दैवतादिविज्ञानेन ईश्वरप्रत्तेन सह ईश्वरप्रत्ता एव शब्दा आविर्भूताः । त एव शब्दा वैखर्या तैः प्रकटिताः । तावताऽपि न पौरुषेयत्वं सिद्धयति । यदुक्तम्- "समाहितैर्ऋषिभिर्वेदा दृष्टा इति श्रूयते स्मर्यते च । समाधौ च निर्विकल्पकमेव ज्ञानं भवति, न तत्र शब्दानुवेधप्रत्याशा" इति । तन्न ; सविकल्पे समाधावेव तत्साक्षात्कारसंभवः, शब्द- विशेषरूपाणां वेदानां निर्विशेषत्वाभावात् । ननु तथात्वेऽपि तद्विज्ञानं परिशील्य स्वाभिप्रायेण स्वीयाः शब्दा मध्वादिभिरिवेषा तैरुपनिबद्धाः, विज्ञानसहभुयस्त एव वा शब्दा इति विवाद- स्थानमस्त्येव । न च वर्णनित्यत्वेन पदस्फोट-वाक्यस्फोटसाधनेन वाऽयं विवादः शमयितुं शक्यः; वर्णानां नित्यत्वेऽपि तदानुपूर्वीघटनार्या पुरुषप्रयत्नापेक्षणात् । पदवाक्यादिस्फोटेऽपि तदभिव्यञ्जकप्रथमध्वनि-

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय) · पृष्ठ 42, कुल 237 में से · BharatKosha