वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 54, कुल 237 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the provided image into pure, clean Markdown in Unicode Devanagari:
Left Page
तत्प्रसादस्य निर्हेतुकत्वे सर्वत्र प्रसङ्गात् , तपोधोगादिहेतुकत्वे तु तेनैव तेषामतीन्द्रियार्थज्ञानलाभसंभवाच्च । किञ्च-भवतां वेदस्य प्रामाण्य- मार्षार्योक्तत्वेन । ऋषीणामाप्तत्वम ईश्वरप्रसादजज्ञानेन । परमेश्वर- तत्प्रसादसिद्धिश्च वेदेन चेत् चक्रकप्रसङ्गः । न च स्वतन्त्रेणानुमानेन तत्सिद्धिः ; तत्र बाधादिदोषस्य उक्तत्वात् । तत्सिद्ध्यावपि तदनुग्रहजं ज्ञानं तन्त्रादिमूलभूतं कुरान-बाइबिलादिमूलभूतं वेदमन्त्रमूलभूतं चेत्यत्र विनि- गमनाविरहात् तदसिद्धेः । यदप्युक्तम् – “ज्ञानं नेन्द्रियग्राह्यम्, तस्य स्वतःप्रकाशत्वात् । न च पुरुष- प्रयत्नसाध्यम्; तस्य श्रुतिषु नित्यत्वश्रवणात्, पञ्चदश्यादिग्रन्थेषु सयुक्ति स्पष्टमुपपादितत्वाच्च । तस्मात् तद्धरौपेयमेवे”ति । तदप्युपहासास्पदम् ; नैयायिकवैशेषिकैश्च ज्ञानस्यानित्यत्वाभ्युपगमात् । न च नैयायिकादि- मतमग्राह्यमिति वाच्यम् ; तथारवे तन्मतरीत्या अलौकिकज्ञानस्यापि असिद्धत्वात् । किञ्च-वेदपौरुषेयत्वसिद्धये योगजसामर्थ्यातिशयसाधनाय गुणवद्वक्तृकत्वेन शब्दप्रामाण्यसिद्धये च नैयायिकादिमताश्रयणम्, ज्ञाननित्यत्वसिद्धये च वेदान्तमताश्रयणमिति अर्धजरतीयमेव । किञ्च-“यथा शब्दनित्यत्वेऽपि न वेदस्य नित्यत्वम्, तथात्वे रघुवंशादि- शब्दानामपि नित्यत्वापत्तिरि”त्यादिकमुक्तम् । तथैव ज्ञाननित्यत्वेऽपि वेदस्य न नित्यत्वम् , अन्यथा बौद्धाद्यागमानामपि तथात्वापत्तिः किं न तर्क्यते ? वृत्त्यात्मकस्य ज्ञानस्य अनित्यत्वं तु स्पष्टमेव । यदप्युक्तम् – “ईश्वरप्रसादजे ज्ञाने न पुरुषप्रयत्नापेक्षे”ति । तदप्य- सङ्गतम् ; पुरुषप्रयत्नानपेक्षारणे सर्वस्यापि तदापत्तेः। ईश्वरप्रसादजमपि ज्ञानं प्रयत्नजन्यमेव । अन्यथा प्रसादजत्वानुपपत्तेः । अनादित्वसमर्थन- मपि निष्प्रमाणकमेव । यदि प्रतिकल्पमेवंविधज्ञानस्य ऋषिभिः प्रणी- यत्वात् प्रवाहरूपेण ज्ञाननित्यत्वमास्थीयते तदा प्रतिकल्पं स्पष्टमुक्त- त्यात् ऋषिभिर्मन्त्रदर्शनमेव कुतो नास्थीयते ? यद्यनादिशब्दे परिदेवन- वक्तृविरोपोल्लेखादिकं न संभवति, तदा वरुज्ञानेऽपि तत्समानमेव । यदपि – “वागात्मकस्य वेदस्य अकृतकत्वबोधिकानाम ‘वाचा विरूपनित्यया’, ‘अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा’, ‘आदौ
Right Page
वैदमयी दिव्या यतः सर्वाः प्रवृत्तयः' इत्यादिश्रुतिस्मृतीनाम् अर्थान्तरपरत्व- सुपवर्णितमि”ति । तदपि न सङ्गतम्; तदसंभवस्य उक्तत्वात् । यदुक्तम्-“यदि वै प्रजापतेः परमस्ति वागेव तत् ( शतपथब्राह्मणे ३ । १ । ३ । ११ ) इति वाजसनेयशृतौ श्रुतां वाचमुपलक्ष्यैव तन्न नित्यत्वप्रतिपादनम् । न च सा वागियमेवेति सुधा भ्रमितव्यम्; तस्याः सर्वलोकात्मकतया त्रैलोक्यात्मकतया सूर्यात्मकतया च अन्यत्र बहुधा श्रयमाद्यत्वात् । तथा हि-‘वागेवेदं सर्वम्’ ( ऐतरेय ), ‘त्रयं वै विद्या ऋचो यजूंषि सामानि । इयमेवर्क् अन्तंरिक्षमेव यजूंषि द्यौः सामानि ।’ ‘तद्वा एतत्सहस्रं वाचः प्रजातम् । हे इन्द्रस्तृतीये तृतीयं विष्णोः ऋचश्च सामानि च । तेजसो वै तत् तेजोऽजायत । यदृचश्च सामाश्चेन्द्रः । इन्द्र इति ह्येतं तमाचक्षते च एष तपति स हैष भर्ता' इति पुरश्चारणश्रुतिः त्रैलोक्यात्मकत्वमाचष्टे । 'संवत्सर एवाग्निः । तस्य वा एतस्य वागेवो- पनिषत् । सा वा एषा वाक् त्रेधा विहिता ऋचो यजूंषि सामानि । तेनाग्नित्रेधा विहितः । सा या वाक् असौ स आदित्यः । मह्णलमन्वेवर्क्ः अर्चिः सामानि पुरुषो यजूंषि । अथैतद् भूतम् । यदेतदर्चिर्र्दीप्यते । इयं तत्पुष्करपर्णम् । यदेतन्मण्डलं तपति तन्महदुक्थम् ।’ एतदभि- प्रायेणैव ‘तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे’ ( ऋ० सं० १० । ९० । ९ ) इति ऋग्यजुःसामां यज्ञप्रभवत्वमाख्यायते” इत्यादि । तदपि न सङ्गतम्; उक्तश्रुतीनामन्यार्थत्वात् । तथा हि-यदि वै प्रजापतेः परमस्ति वागेव तदिति नानेनापि वचनेन शब्दात्मक- वाग्व्यतिरिक्त-भूतभौतिकोपादानभूतं किमपि नित्यं तत्त्वान्तरं विव- क्षितम् । न च प्रजापतेः परत्त्वादेव तत् कल्पयितुं शक्यम्; अव्यक्तशन्द- ब्रह्माद्यवस्थापि परत्वोपपत्तेः, तत्रैव शतपथे सिद्धान्ते शाखान्तरीयवत- परत्वस्य खण्डितत्वाच्च । तथा हि- 'तद्वैके वाच उत्तममालभन्ते । यदि वै प्रजापतेः परमस्ति वागेव । तदैतद्वाचमुज्जयाम इति तद्वदन्तः । तदु तथा न कुर्यात् ।