वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 56, कुल 237 में से
संदर्भ में पढ़ें६६ वेदस्वरूप-विमर्शः रित्कायाः कस्याञ्चित्सुन्दतौ अनुपयोगात् । ‘वागेवेदं सर्वम्’ इत्यादिकमपि वाच्यवाचकभेदाभिप्रायेण द्रष्टव्यम् । ‘ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविव्यदिति सर्वमोङ्कार एव । यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एवे’ति माण्डूक्यश्रुतेः, ‘यदिदमर्थजातमभि- धेयभूतं तस्याभिधानाव्यतिरेकात्, अभिधानञ्च ओंकाराइयतिरेका- दोङ्कार एवेदं सर्वमिति शाङ्करभाष्याच्च । यदुक्तम्-“रूपिद्रव्यस्य चक्षुषा यावत् स्वरूपमुपलभ्यते सा ऋक् । यावद् दूरं तद् द्रष्टुं शक्यते, तदन्तिमं मण्डलं साम । अनयोर्मध्ये यावन्त- स्तद्द्रव्यसंसक्ताः प्राणास्तद् यजुः । एवमेव इन्द्रियान्तरग्राह्येषु पदार्थे- ष्वप्यनुसन्धेयमिति वितानवेदा” इति । तन्न; अस्याः कल्पनाया निर्मूलत्वस्य उक्तत्वात्, रसस्पर्शादीनामिन्द्रियग्राह्याणां दूरत्वाभावेन तत्र साम-यजुषोरभावापत्तेश्च । ‘प्रजापतिर्लोकानभ्यतपत् । तेभ्योऽभितप्तेभ्यस्त्रयीविद्या संप्रा- स्रवत् । तामभ्यतपत् । तस्या अभितप्ताया एतान्यक्षराणि संप्रा- स्रवन्त भूर्भुवः स्वरिति । तान्यभ्यतपत् । तेभ्योऽभितप्तेभ्य ओंकारः संप्रास्रवत् । तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृ- ण्णानि एवमोङ्कारेण सर्वा वाक् सन्तृण्णा । ओंकार एवेदं सर्वम् ।’ ( छान्दोग्य० २ । २३ । २ ) अत्र सर्वसारत्वेन ओङ्कारस्य सर्वरूपत्वमुक्तम् । तस्यापि वागभि- व्यङ्ग्यत्वात् वाग् रूपत्वाच्च वागेवेदं सर्वं सुपपद्यते । प्रजापतिर्विराट् कश्यपो वा लोकानुद्दिश्य तेषु सारजिघृक्षया अभ्यतपत् ध्यानं कृतवान् । ततः सारभूता त्रयीविद्या संप्रास्रवत् प्रजापतेर्मनसि प्रत्यभात् । तस्यास्तिस्रो व्याहृतयः, ताभ्यः प्रणव इति श्रुत्यर्थः । ‘एषां भूतानां पृथिवी रसः, पृथिव्या आपो रसः, अपामोषधयो रसः, ओषधीनां पुरुषो रसः, पुरुषस्य वाग् रसः, वाच ऋग् रसः, ऋचः साम रसः, साम्नो वाक्ः’ इत्यादि सर्वरसरूपत्वमुक्तम्, सर्वभूतरसरूपत्वा- दपि सर्वरूपत्वं वाचः सङ्गच्छते ।
वेदस्वरूप-विमर्शः ८७ 'प्रजापतिर्लोकानभ्यतपत् । तेषां तप्यमानानां रसान् प्रावृह- दग्निं पृथिव्याः वायुमन्तरिक्षादादित्यं दिवः ।' छा० ४।१७।१ ) अत्रापि सारजिघृक्षया ध्यानलक्षणं तपश्चचार, तेषां रसान् सार- रूपान् प्रावृहत् उद्धृतवानित्यर्थः । 'एतास्तिस्रो देवता अभ्यतपत् । तासां तप्यमानानां रसान् प्रावृहदग्नेऋचो वायोर्यजूंषि सामान्यादित्यात् ।' ततोऽपि सारं रसं त्रयीं विद्यां जग्राह इत्यर्थः । अग्निवाय्वादित्यसार- रूपत्वादेव ऋगादीनामग्न्यादिभ्य उत्पत्तिर्वर्णिता । 'अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ॥' इत्यस्य मनुवचनस्याप्ययमेवार्थः । एतेन "ऋक्प्रतिपाद्यत्वेन अग्ने- ऋग्जनकत्वमित्युक्तिः परास्ता; प्रत्यक्षातिरिक्तस्थले विषयस्य प्रमा- हेतुत्वानुपपत्तेः । 'त्रयी वै विद्या-ऋचो यजूंषि सामानि । इयमेवर्गाऽस्याः ह्यर्चति योऽर्चति स वागेवर्ची वाचा ह्यर्चति योऽर्चति सोऽन्तरिक्षमेव यजूंषि द्यौः सामानि । सैषा त्रयी विद्या सोम्येऽध्वरे प्रयुज्यते ।' ( शतपथ ४ । ५ । ६ । ७ ) अत्रापि 'अस्या ह्यर्चति' इत्यर्चत्कारणत्वात् इमा ऋच उक्ताः । ऋक्शब्दे पृथिव्याञ्च शब्दस्य व्युत्पत्तिं दर्शयति । पृथिव्यां कारणत्वा- नुपपत्तेरधिकरणत्वं दर्शितम् । शब्दात्मिकायामस्यां ह्यर्चतीति पृथिवी- त्वेन स्तूयते । एवं वाचार्चति । अत्र सर्वत्र केनचिद्योगेन पृथिव्यां वाचि ऋग्दृष्टिः, अन्तरिक्षे यजुर्दृष्टिः, दिवि च सामदृष्टिः क्रियते । 'तद्वा एतत्सहस्रं वाचः प्रजातं द्वे इन्द्रस्तुतीये तृतीयं विष्णु- र्ऋक्च सामानि चेन्द्रो यजूंषि विष्णुः । तस्मात् सदस्पृक्- सामाभ्यां कुर्वन्ति । ऐन्द्रं हि सदः ।' एतदर्थस्तु हरिस्वामिभिरुक्तः — तदेतत् त्रयीविद्यात्मकं सहस्रं बहु- त्वं वाच आध्यात्मिकायाः प्रजातम् = वागिन्द्रियाणामग्न्यादीनामभि