भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 61, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 61

An exact, line-by-line transcription of both pages:

[पृष्ठ ६६]

६६ वेदस्वरूप-विमर्शः त्रयस्य अधिदैवाधियज्ञाध्यात्मपरत्वेनार्थ उच्यते । तत्र चयनगतमहदुक्थं ( महत् पूज्यम् उक्थम् बृहतीसहस्ररूपेन प्रसिद्धो हौत्रे शस्त्रविशेषः महाव्रतं क्रतुविशेषः ) । 'अथ महाव्रतमिन्द्रो वृत्रं हत्वा महानभवत् यन्महानभवत् तन्महाव्रतस्य महाव्रतत्वम्' (ऐ० आ० १।१।१)। अग्निः = अग्न्याुपलक्षितसर्वदेवात्मकोऽग्निः), त्रयं क्रमेण मण्डलार्चिःपुरुषत्वेन उपासनीयम् । अर्थात् महोक्थमहाव्रताग्निषु मण्डलार्चिःपुरुषदृष्टिः कर्तव्या। एवमेवाधियज्ञम् । चयनगत-रुक्म-पुष्करपर्ण-हिरण्यपुरुषाणां मण्डलादित्रयरूपेण उपासनम् । रुक्मादिश्चयनं तु श्रुतिसूत्रादिषु स्पष्टम् । 'हिरण्यगर्भ' इति मन्त्रेण पुरुषमुपदधाति । अपां पृष्ठमसि पुष्

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय) · पृष्ठ 61, कुल 237 में से · BharatKosha