भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 62, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 62

पृष्ठ ६८

'एतमृग्वेदमभ्यतपन्त्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसो जायते ।' कर्मणि प्रयुक्ता ऋचः पुष्पस्थानीयं कर्म अभ्यतपन् । ऋग्भिर्मन्त्रैः शाखाद्यङ्गभावमुपगतैः क्रियमाणं कर्म मधुनिर्वर्तकं भवति । पुष्पाणीव भ्रमरैराचूष्यमाणानि । कोऽसौ रसो यो मधुकाराभितापनिःस्रुत इत्युच्यते ? यशो विश्रुतत्वं तेजो दीप्तिः इन्द्रियवीर्यं इन्द्रियैरवैकल्यं वीर्यं बलम् अन्नाद्यञ्च येनोपयुज्यमानेन अह्रन्यहनि देवानां स्थितिः स्यात् । एष रसोऽजायत यागादिक्रतूनाम् कर्मणः । 'तदुद्यन्नरत् । तदादित्यमभितोऽश्रयत् । तद्वा एतद्यदादित्यस्य रोहितं रूपं तदेवादित्यमभितः पार्श्वतः पूर्वभागं सवितुराश्रितवत् अमुष्मिन्ना- दित्ये सञ्चितं कर्म