वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 67, कुल 237 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the provided image into pure, clean Devanagari text with the appropriate line markers:
[पृष्ठ ११०]
शखमभिसंबभूवेत्यन्याः प्रजाः' इति श्रुतिः । 'स मनसा वाचं मिथुनं समभवत्' (बृह० १।२।४) । स्मृतिरपि — 'अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥' 'नामरूपञ्च भूतानां कर्मणाञ्च प्रवर्तनम् । वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः ॥' 'सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥' इति। अत्रापि शब्दराश्यात्मको वेद एव अनादिनिधना वाग् विवक्षिता । अत एव वाचो 'वेदमयी'ति विशेषणं सङ्गच्छते । 'यतः सर्वाः प्रवृत्तय' इत्यपि शब्दात्मकत्व एव सङ्गतं भवति । वत्सर्गोऽप्यं सम्प्रदायप्रवर्त- नात्मकः, अनादिनिधनाया अन्यादृशस्योत्सर्गस्यासम्भवात् द्रष्टव्य इति भगवत्पादाः । 'वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः' इत्यप्युक्त- मेवार्थं पोषयति । नहि विज्ञानात्मकवेदमहणे तदुपपद्यते । लोकेऽपि चिकीर्षितमर्थमनुतिष्ठं स्तस्य वाचकं शब्दं पूर्वं स्मृत्वा पश्चात्तदर्थं- मनुतिष्ठतीति सर्वेषां नः प्रत्यक्षम् । तथैव प्रजापतेरपि सृष्टेः सृष्टेः पूर्वं मनसि वैदिकाः शब्दाः प्रादुर्बभूवुः । पश्चात्तदनुगतानर्थान् ससर्ज । तथा च श्रुतिः — 'स भूरिति व्याहरत् , स भूमिमसृजत' ( तै० ब्रा० २ । २ । ४ । २) । ततश्च नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यविरुद्धम् । 'अत एव च नित्यत्वम्' (ब्रह्मा० १ । ३ । २६) इत्यत्र स्वतन्त्रस्य कर्तुरस्मरणादिति स्थिते वेदस्य नित्यत्वे देवादिव्यक्तिप्रभवाभ्युपगमेन तस्य विरोधमाशङ्क्य 'अतः प्रभवादिति परिहृत्य तदेव वेदनित्यत्वं द्रढयति । अत एव नियताकृतेर्देवादैर्जगतो वेदशब्दप्रभवत्वात् वेदशब्दे नित्यत्वमपि प्रत्येष्टव्यमिति भगवत्पादाः । तथा च मन्त्रवर्णः—'यज्ञेन वाचः पद- वीयमायन् तामन्वविन्दन्नृषिषु प्रविष्टाम्' ( ऋ० सं० १० । ७१ । ३) इति । मन्त्रार्थस्तु—यज्ञेन वाचः वेदलक्षणयाः, पदवीयं मार्गयोग्यत्वां वेदमहणयोग्यताम्, आयन् आप्नुवन्तः । ततः ऋषिषु प्रविष्टां तां
[पृष्ठ १११]
वाचम्, अन्वविन्दन् अनुब्धघवन्तः । स्थितामेव वाचमनुबिन्नां दर्शय- तीति शाङ्करभाष्यम् । वेदव्यासश्चैवं स्मरति — 'युग न्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसापूर्वमनुज्ञाताः स्वयम्भुवा ॥' अनेन विद्यमानानेव वेदान् लेभिरे, न स्वातन्त्र्येण निर्मितवन्तः इति स्पष्टम् । महाप्रलयेऽपि वासणारूपेण ब्रह्मणि वेदास्तिष्ठन्त्येव । यदुक्तम् — "विद्यात्मनः शुद्धस्वभावस्य तद्योगः प्रमाणापेक्ष- ज्ञानानामविद्यात्वामेव प्रमाणाश्रयत्वादिति । तन्न; निरविद्यस्य सर्वप्रपञ्चाधिष्ठानतया प्रमाणाधिष्ठानत्वेऽपि प्रमाणवत्स्वरूपतदाश्रयत्वा- योगात्, नहि कालस्य सर्वाधारत्वेऽपि घटादिवद्रूपवत्त्वम् । यद्यपि महाप्रलये अन्तःकरणादयो न समुदाचरद्वृत्तयो भवन्ति, तथापि स्वकारणे अनिर्वाच्यायामविद्यायां लीनाः सूक्ष्मेण शक्तिरूपेण कर्मविक्षेपका विद्यावासनाभिः सहावतिष्ठन्ते । तथा चोक्तम्— 'आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥' इति । ते चार्वाघि प्राप्य परमेश्वरेच्छाप्रचोदिताः यथा कूर्मदेहे निलीना- न्यङ्गानि ततो निःसरन्ति, यथा वा वर्षापाये प्राप्तमृद्भावाति मण्डूक- शरीराणि तद्वासनावासिततया घनाघनासारव सेकसुहितानि पुन- र्मण्डूकदेहभावमनुभवन्ति तथा, पूर्ववासनावशात् पूर्वसमाननाम- रूपाण्युत्पद्यन्ते । तेनेश्वरः प्राप्तभूतकर्म्माविद्यासहकारी तदनुरूपमेव जगत् सृजति । सर्गप्रलयप्रवाहानादितया सर्वभेद उपपद्यते । यद्यपि 'मन्त्रकृतो वृणीते', संहिताकारः, पदकारः, सूत्रकारः, ब्राह्मणकारः, विश्वामित्रस्य सूक्तं भवती'त्यादिप्रामारयाद्वेदस्य पौरुषे- यत्वशङ्कानिराकरणायैव 'अत एव च नित्यत्वमिति कर्तुरस्मरणेन सिद्धस्यैव अनुमानेन दृढीकरणम् । 'प्रजापतिर्यथा वैदिकान्छब्दान् तेषामसाधारणनामरूपकृत्यविशेषान् अनुसन्धाय तथैव सृजति, ततश्च विश्वामित्रादीनामपि वेदशब्देभ्यः