भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 72, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 72

Here is the complete, line-by-line transcription of the text from both pages:

पृष्ठ १२०

१२२ वेदस्वरूप-विमर्शः मुद्रिता अमुद्रिता वा समुपलभ्यन्ते । के पुनर्नूताः सर्वमेतत् न्यूनाधिक- तया विदुषां सुविदितमेव । वेदानुशीलनकर्शितमतयः पाश्चात्त्यपण्डिताः स्वदेशेष्वाप केचन तादृशमेवासाधर्म्यं कृतधिय। भृशमन्वेषणतत्परा वेदेभ्यो भापातत्त्वं शब्दतत्त्वमाख्यानादिकम् सामाजिकं दार्शनिकम् ऐतिहासिकं भौगोलिकाञ्च तथ्यं जलधिव्यो मध्यमानेभ्यो रत्नखण्टानीव आविष्कुर्वन्तः स्वस्वप्रतिभामनतिक्रम्य, वेदज्ञानस्य समृद्धिं सम्पादयन्ती- त्यतिरोहितं विशेषज्ञानाम् । वेदानां नित्यत्वमनित्यत्वं वा, पौरुषे- यत्वमपौरुषेयत्वं वा, इत्यपि दार्शनिकैः स्वस्वसिद्धान्तानुगुणाभिर्युक्तिभि- स्तत्र तत्र विवेचितम् । वेदप्रामाण्ये विप्रतिपन्नानां सौगताना- मार्हतानाञ्च युक्तिरपाकुर्वद्भिाचार्यैस्तत्प्रामाण्यस्थापने प्रयत्नः कृत एव" इत्यभाणि । तदपि सत्यम् ; एतदपि प्रसिद्धमेव वेदं गमयति, अप्रसिद्धे विप्रतिपत्त्याद्यसम्भवात्, सर्वं ज्ञानं धर्मिण्यभ्रान्तम्, प्रकारे तु विपर्यय इति न्यायात् । यदपि तैः प्रतिपादितम्—"निरुक्तकृतां कालेऽपि वेदार्थनिर्णये पण्डितानां भूयान् मतभेद आसीत् । तदुत्तरकालिकेषु वेदार्थनिर्वचन- परेषु रावण-हरिस्वामि-स्कन्दस्वामि-सायणो-व्वट-महीधराद्याचार्येष्वपि तद् रूपमेव मतवैषम्यं लक्ष्यते" इति । तदपि अकिञ्चित्करम् ; वेदार्थ- विषयकमतभेदस्य वेदस्वरूप-भेद-तदज्ञानाप्रयोजकत्वात् । यदपि प्रसिद्धेभ्यो वेदेभ्य वास्तविकवेद बुद्धिनिरासायोक्तम्— "निखिलमिदं वाङ्मयं कण्ठे धारयतोऽपि वेदार्थमर्मग्रहणे यादृशं छायासु वस्तुत्वमारोपयतां छायाभ्यो वस्तुतत्त्वनिरूपणपराणां वस्तुस्वरूप- विषये परिदृश्यते । प्रतिबिम्बितफलेभ्यो यथा वास्तविक-फलास्वादनजा तृप्तिः तृन्निवृत्तिश्च न संभवति, तथा वैखरीवागात्मकभ्य ऋगादि- मन्त्रेभ्यो वेदत्वेन लोके प्रसिद्धेभ्योऽपि साक्षादेव दैवीवाक्संराधनज- ममृतत्वं सर्वज्ञत्वादिकञ्च नोपलभ्यते" इति । तदपि नाकिञ्चित्; अनुक्तोपालम्भात् । अनुक्तोपारम्भनमेतत्-नहि कण्ठे धारणमात्रा दमृतत्वं सर्वज्ञत्वादिकञ्च वेदे कुत्रचिदुक्तम् । किन्तु वेदार्थग्रहणानुष्ठान- सापेत्तस्यैव कण्ठे धृतस्य वेदस्य तत्तत्पुरुषार्थसाधकत्वं श्रुतम् ।


पृष्ठ १२१

वेदस्वरूप-विमर्शः १२१ यत्तु—"तत्राध्ययनमात्रेण घृतकुल्या-पयःकुल्यादि- फलश्रवणम्, अश्वमेधाध्ययनमात्रेण अश्वमेधफलप्राप्तिश्रवणात्' इति । तदपि धर्मज्ञान।नुष्ठानाश्वमेधोपासनफलपरमिति सायणीये ऋग्वेदीय- भाष्योपोद्धाते स्पष्टमेव । तथा हि, सायणाचार्येण प्रकृतप्रसङ्गे मीमांसोपन्यस्ता—'दर्शपूर्णमासयोर्वेदविमर्शनं प्रकृत्य श्रूयते-'आस्य प्रजायां वाजी जायते य एवं वेद'। 'पूर्णाहुत्या सर्वान् कामानवाप्नोति' 'पशुबन्धयाजी सर्वान् लोकान् जयति', 'तरति मृत्युम्, तरति पाप्मानम्, तरति ब्रह्महत्यां योऽश्वमेधेन यजते य उ चैनं वेद'। अत्रायमर्थेयपूर्णा- हुत्या सर्वकामप्राप्तेरग्निहोत्रादीन्युत्तरकालीनान्यनर्थकान्येव स्युः। तथा निरुढपशुबन्धानुष्ठानेन सर्वलोकाभिजयात् ज्योतिष्टोमा- दीनामानर्थक्यमेव स्यात् । एवमेव अध्ययनकालीनेनैव अश्व- मेघवेदनेन ब्रह्महत्यादितरणात् तदनुष्ठानं व्यर्थमेव स्यात् ? एवं पूर्वपक्षय्य समाहितम्—पूर्णाहुतिं जुहुयादित्यस्य विधेः शेषोऽयमर्थ- वादः । सर्वकामावाप्तिहेतुत्वात् प्रशस्तेयमाहुतिः। यथा सर्वे ब्राह्मणा भोजयितव्या इत्यत्र सर्वत्वं स्वगृहगतब्राह्मणविषयम्, एवं पूर्णाहुत्या सर्वसाङ्गत्वम् । यत्फलं तस्मिन्नधिकारे प्रस्तावे सम्भावितं तद्वि- षयकमेव सर्वत्वं द्रष्टव्यम् । पूर्णाहुतेरभावे सत्याधानरूपं कर्माङ्गं विफलम् भवति । तच्च वैकल्यं पूर्णाहुत्या समाधीयते— इत्येकः कामः, तस्मिन् समाहिते सति आहवनीयाद्यग्नयो अग्निहोत्रादिकर्मसु योग्या भवन्ति —इत्यन्यः कामः । तैश्च कर्मभिस्तत्तत्फलं भवतीति कामन्तरम् । नन्वीदृशी सर्वकामावाप्तिराहुत्यन्तरेष्वपि विद्यत इति चेत् ? भवतु, तथापि पूर्णाहुतिस्तुतेर्न काचिद्धानिः । पृथिव्यादीनां फलानां कर्मान्तरेण परिणामाधिक्यं सारत्वं वा सम्पाद्यते, ततः फलविशेषः स्यात् । यथा निष्केण वस्त्रमात्रमुप- लभ्यते, निष्कद्वयेन तु सारभूतं दुकूलम्, तथैव ब्रह्महत्याया अपि मानस्या मनःकृतायाः स्वल्पाय। वेदनमात्रेण तरणम्, कायिक्यास्तु महत्या अश्वमेधेनेति नानुष्ठानानर्थक्यम् ।