वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 72, कुल 237 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the text from both pages:
पृष्ठ १२०
१२२ वेदस्वरूप-विमर्शः मुद्रिता अमुद्रिता वा समुपलभ्यन्ते । के पुनर्नूताः सर्वमेतत् न्यूनाधिक- तया विदुषां सुविदितमेव । वेदानुशीलनकर्शितमतयः पाश्चात्त्यपण्डिताः स्वदेशेष्वाप केचन तादृशमेवासाधर्म्यं कृतधिय। भृशमन्वेषणतत्परा वेदेभ्यो भापातत्त्वं शब्दतत्त्वमाख्यानादिकम् सामाजिकं दार्शनिकम् ऐतिहासिकं भौगोलिकाञ्च तथ्यं जलधिव्यो मध्यमानेभ्यो रत्नखण्टानीव आविष्कुर्वन्तः स्वस्वप्रतिभामनतिक्रम्य, वेदज्ञानस्य समृद्धिं सम्पादयन्ती- त्यतिरोहितं विशेषज्ञानाम् । वेदानां नित्यत्वमनित्यत्वं वा, पौरुषे- यत्वमपौरुषेयत्वं वा, इत्यपि दार्शनिकैः स्वस्वसिद्धान्तानुगुणाभिर्युक्तिभि- स्तत्र तत्र विवेचितम् । वेदप्रामाण्ये विप्रतिपन्नानां सौगताना- मार्हतानाञ्च युक्तिरपाकुर्वद्भिाचार्यैस्तत्प्रामाण्यस्थापने प्रयत्नः कृत एव" इत्यभाणि । तदपि सत्यम् ; एतदपि प्रसिद्धमेव वेदं गमयति, अप्रसिद्धे विप्रतिपत्त्याद्यसम्भवात्, सर्वं ज्ञानं धर्मिण्यभ्रान्तम्, प्रकारे तु विपर्यय इति न्यायात् । यदपि तैः प्रतिपादितम्—"निरुक्तकृतां कालेऽपि वेदार्थनिर्णये पण्डितानां भूयान् मतभेद आसीत् । तदुत्तरकालिकेषु वेदार्थनिर्वचन- परेषु रावण-हरिस्वामि-स्कन्दस्वामि-सायणो-व्वट-महीधराद्याचार्येष्वपि तद् रूपमेव मतवैषम्यं लक्ष्यते" इति । तदपि अकिञ्चित्करम् ; वेदार्थ- विषयकमतभेदस्य वेदस्वरूप-भेद-तदज्ञानाप्रयोजकत्वात् । यदपि प्रसिद्धेभ्यो वेदेभ्य वास्तविकवेद बुद्धिनिरासायोक्तम्— "निखिलमिदं वाङ्मयं कण्ठे धारयतोऽपि वेदार्थमर्मग्रहणे यादृशं छायासु वस्तुत्वमारोपयतां छायाभ्यो वस्तुतत्त्वनिरूपणपराणां वस्तुस्वरूप- विषये परिदृश्यते । प्रतिबिम्बितफलेभ्यो यथा वास्तविक-फलास्वादनजा तृप्तिः तृन्निवृत्तिश्च न संभवति, तथा वैखरीवागात्मकभ्य ऋगादि- मन्त्रेभ्यो वेदत्वेन लोके प्रसिद्धेभ्योऽपि साक्षादेव दैवीवाक्संराधनज- ममृतत्वं सर्वज्ञत्वादिकञ्च नोपलभ्यते" इति । तदपि नाकिञ्चित्; अनुक्तोपालम्भात् । अनुक्तोपारम्भनमेतत्-नहि कण्ठे धारणमात्रा दमृतत्वं सर्वज्ञत्वादिकञ्च वेदे कुत्रचिदुक्तम् । किन्तु वेदार्थग्रहणानुष्ठान- सापेत्तस्यैव कण्ठे धृतस्य वेदस्य तत्तत्पुरुषार्थसाधकत्वं श्रुतम् ।
पृष्ठ १२१
वेदस्वरूप-विमर्शः १२१ यत्तु—"तत्राध्ययनमात्रेण घृतकुल्या-पयःकुल्यादि- फलश्रवणम्, अश्वमेधाध्ययनमात्रेण अश्वमेधफलप्राप्तिश्रवणात्' इति । तदपि धर्मज्ञान।नुष्ठानाश्वमेधोपासनफलपरमिति सायणीये ऋग्वेदीय- भाष्योपोद्धाते स्पष्टमेव । तथा हि, सायणाचार्येण प्रकृतप्रसङ्गे मीमांसोपन्यस्ता—'दर्शपूर्णमासयोर्वेदविमर्शनं प्रकृत्य श्रूयते-'आस्य प्रजायां वाजी जायते य एवं वेद'। 'पूर्णाहुत्या सर्वान् कामानवाप्नोति' 'पशुबन्धयाजी सर्वान् लोकान् जयति', 'तरति मृत्युम्, तरति पाप्मानम्, तरति ब्रह्महत्यां योऽश्वमेधेन यजते य उ चैनं वेद'। अत्रायमर्थेयपूर्णा- हुत्या सर्वकामप्राप्तेरग्निहोत्रादीन्युत्तरकालीनान्यनर्थकान्येव स्युः। तथा निरुढपशुबन्धानुष्ठानेन सर्वलोकाभिजयात् ज्योतिष्टोमा- दीनामानर्थक्यमेव स्यात् । एवमेव अध्ययनकालीनेनैव अश्व- मेघवेदनेन ब्रह्महत्यादितरणात् तदनुष्ठानं व्यर्थमेव स्यात् ? एवं पूर्वपक्षय्य समाहितम्—पूर्णाहुतिं जुहुयादित्यस्य विधेः शेषोऽयमर्थ- वादः । सर्वकामावाप्तिहेतुत्वात् प्रशस्तेयमाहुतिः। यथा सर्वे ब्राह्मणा भोजयितव्या इत्यत्र सर्वत्वं स्वगृहगतब्राह्मणविषयम्, एवं पूर्णाहुत्या सर्वसाङ्गत्वम् । यत्फलं तस्मिन्नधिकारे प्रस्तावे सम्भावितं तद्वि- षयकमेव सर्वत्वं द्रष्टव्यम् । पूर्णाहुतेरभावे सत्याधानरूपं कर्माङ्गं विफलम् भवति । तच्च वैकल्यं पूर्णाहुत्या समाधीयते— इत्येकः कामः, तस्मिन् समाहिते सति आहवनीयाद्यग्नयो अग्निहोत्रादिकर्मसु योग्या भवन्ति —इत्यन्यः कामः । तैश्च कर्मभिस्तत्तत्फलं भवतीति कामन्तरम् । नन्वीदृशी सर्वकामावाप्तिराहुत्यन्तरेष्वपि विद्यत इति चेत् ? भवतु, तथापि पूर्णाहुतिस्तुतेर्न काचिद्धानिः । पृथिव्यादीनां फलानां कर्मान्तरेण परिणामाधिक्यं सारत्वं वा सम्पाद्यते, ततः फलविशेषः स्यात् । यथा निष्केण वस्त्रमात्रमुप- लभ्यते, निष्कद्वयेन तु सारभूतं दुकूलम्, तथैव ब्रह्महत्याया अपि मानस्या मनःकृतायाः स्वल्पाय। वेदनमात्रेण तरणम्, कायिक्यास्तु महत्या अश्वमेधेनेति नानुष्ठानानर्थक्यम् ।