वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 71, कुल 237 में से
संदर्भ में पढ़ेंपृष्ठ ११८ (वाम पृष्ठ)
११८ वेदस्वरूप-विमर्शः याज्ञवल्क्येन विवादवशात् त्रयीमयं भगवन्तमादित्यं तपसा सन्तोष्य ततश्चत्वारोऽपि वेदाः प्राप्ताः । तथा चोक्तं स्कन्दपुराणे (नागर- खण्डे २७८)— 'स तथेति प्रतिज्ञाय प्रविश्यादित्यवाजिनः । कर्णेऽपठत्ततो वेदान्श्चतुरोऽपि च तन्मुखात् ॥' जाबालसंहितायामपि— 'ब्रह्मणः सम्प्रदायोऽयं व्याससन्दशितोऽभवत् । विमलस्यैव वेदस्य सम्प्रदायो द्विधा मतः ॥ ब्रह्मणः सम्प्रदायस्तु आदित्यस्य तथा मतः । अयातयामसंज्ञोऽयं प्रतिकर्मप्रकाशकः ॥ 'आध्वर्यवं क्वचिद्धोत्रं क्वचिद्वित्यव्यवस्थया । बुद्धिमालिन्यहेतुत्वाद्यजुः कृष्णमितीरितम् ॥ याज्ञवल्क्यस्ततः सूर्यमाराध्यास्मादधीतवान् । व्यवस्थितप्रकरणं यजुः शुक्लं तदीरितम् ॥ इति ॥ किञ्च एतत्सर्वमनपेक्षतया वेदप्रामाण्यमभ्युपगच्छतामेव सिद्धयति । पौरुषेयत्वेन शुकवदूक्तकत्वेन वेदप्रामाण्यमभ्युपगच्छतां भवतां तु मन्त्रदर्शित्वादिकमपि साधनीयम् । तच्च न स्वातन्त्र्येण सिद्धयति । बौद्धार्हतादिसार्वज्ञसिद्धिवत् मन्त्रार्थदर्शनस्यापि सिद्धिदुर्लभै- वेत्युक्तमेव । यदुक्तम्- "यथा विषमद्रव्यविज्ञाने श्वबिडालादीनां विषहरी- परिज्ञाने नकुलादीनां पुरुषारिष्टसन्निधापितभाव्यर्थज्ञाने श्व-शिवा- वायस-पिङ्गलादिशकुनीनां स्वरोगहरोषधिविज्ञाने सर्वेषामारण्य- पशूनां भविष्यद्वृष्टिविज्ञाने मण्डूकानां नैसर्गिकं विचित्रसामर्थ्यं तथैव अपूर्वमतीन्द्रियार्थावगमसामर्थ्यं तपःप्रभावेणोद्भूयमानमनुष्यकुले दृश्यते । स एवर्षिराख्यायते" इति । तन्न; निरुक्तदृष्टान्तैः सामर्थ्यस्य वैचित्र्यसिद्धावपि मनुष्यकुलस्य अतीन्द्रियधर्मादिज्ञानादर्शनेन तद- सिद्धेः । दर्शने सति विवादाभावापत्तेश्च । तथात्वे च महावीर-यीशु- मुहम्मदादीनामपि सार्वज्ञ्यं सिद्ध्येत् । न चेष्टापत्तिरेव ; तद्विरोधे भवदभिमतानामृषीणामप्रामाण्यापत्तेः ।
दक्षिण पृष्ठ
: २ : वैज्ञानिकार्थ-परीक्षणम् वेदानां स्वरूपं कीदृशम् ? कथं तदपरोक्षज्ञानोपायः ? किं वा तत्फलं मिति जिज्ञासायाम् अपौरुषेयो मन्त्रब्राह्मणात्मकः शब्दराशिरव यद्यपि तत्स्वरूपम्, अविच्छिन्नपारम्पर्येण तदभ्यासजन्यसंस्कारसध्रीचीन- मनःसहकृतश्रोत्रेन्द्रियमेव तदापरोक्ष्योपायः, तदर्थज्ञानानुष्ठानसापेक्षस्य तदपरोक्षज्ञानस्य चतुर्वर्गफलप्राप्तिः फलञ्चेति प्रसिद्धमेव; तथापि नवीना- विष्कारप्रधानेऽस्मिन् युगे प्रसिद्धमपरोक्षमपि परित्यज्य किञ्चित् नवीनं वस्तु आविष्कृत्य प्रसिद्धा दृष्टिप्रसारणीयेति कुतूहलवशादेव एतत्प्रश्नत्रयं समुदेति । अत्र केचित् सङ्गिरन्ते- "प्रत्नतत्त्वकोविदा विपश्चितः इतिहास- दृष्ट्या प्राच्यसंस्कृतेर्गवेषणपरा धीमन्तः तत्तत्सम्प्रदायशाखादिभेद- भिन्नाः सनातनधर्मानुसारिणः सर्वेऽपि महानुभावाः तदितरेऽपि विद्वांसो वेदानां महत्त्वं निखिलशास्त्राणामपेक्षया प्राचीनतमत्वञ्च मन्य- मानास्तद्विषयकं विविधं समालोचनादिकं विदधति । अस्माकं यावन्तो धर्ममार्गाः यावच्च वाङ्मयम्, सर्वमेव वेदानुशासितम् । यत्र स्थूलदृष्टिभिः साक्षाद् वेदाश्रितत्वं न संलक्ष्यते, तत्रापि परम्परया द्वारद्वारिभावेन च वेदानां