वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 70, कुल 237 में से
संदर्भ में पढ़ें११६ वेदस्वरूप-विमर्शः भविष्यति । तथा च “श्रुतितन्त्रभेदव्यवहारः किमूलकः ?” इत्यपि विशेषतः चिन्त्यम् । किञ्च-नैयायिकरीत्या तु मन्त्रायुर्वेदवादीनाम् ऋषिकर्तृकत्वं वेदस्य चेश्वरकर्तृकत्वमिति भेदे सत्येव मन्त्रायुर्वेदवच्चेति दृष्टान्तता सम्भवति मन्त्रायुर्वेदादेः । अत एव “य एवायुर्वेदादीनां प्रवक्तारस्त एव वैदिक- मन्त्रादीनां द्रष्टारः” इति वात्स्यायनः ऋषीणामायुर्वेदप्रवक्तृत्वं वेद- मन्त्रद्रष्टृत्वमाह । वेदमन्त्राणामीश्वरो निर्माता, ऋषयस्तु द्रष्टारः । आयुर्वेदस्य तु ऋषय एव निर्मातारः, तावतैव आयुर्वेदे श्रुत्याभावः । भवन्मते तु तेषामेव उभयनिर्मातृत्वेन श्रुतित्वमुभयत्र प्रसज्येत । एतेन यदुक्तम्- “मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामा- ण्यात् इत्याप्तप्रा