भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 69, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 69

११४ वेदस्वरूप-विमर्शः यदप्युक्तम्—"द्रष्टुर्वाक्यं श्रुतिस्तत्प्रमाणमनपेक्षत्वात् । यथा हि श्रोतुर्वाक्यं स्मृतिरित्युच्यते, तच्च परतः प्रमाणं भवति, स्वप्रामाण्ये श्रुति- सापेक्षत्वात् । न तथाऽयं साक्षात्कृतधर्मा तमर्थमार्थः स्वोक्तिप्रामाण्याय परप्रत्ययमपेक्षते । यश्च तपोयोगप्रभावजनितेन ईश्वरानुग्रहेण सन्देह- विपर्ययादिलेशेनापि कालत्रयेऽस्पृष्टाशेषविशेषविषयकः स्फुटप्रतिभास- लक्षणः साक्षात्कारो यैः प्राप्तस्ते ऋषयः, तेभ्यश्चोपदेशेन यैर्लब्धं ज्ञानं ते भवन्ति मुनयः । ऋषीणां वाक्यं श्रुतिः, मुनीनां तु स्मृतिः तेषां साक्षाद्- द्रष्टृत्वाभावात् । श्रुतीनां स्वतः प्रामाण्यम्, स्मृतीनान्तु श्रुतिमूलकतये"ति । तत्सर्वं निर्मूलम्; पूर्वोत्तरमीमांसादृष्ट्या धर्मापूर्वादिविषयक- साक्षात्कारस्य निराकृतत्वात् । 'नावेदविन्मनुते तं बृहन्तम्', तं त्वौप- निषदं पुरुषं पृच्छामि', 'चोदनालक्षणोऽर्थो धर्मः' इत्यादिविरोधाच्च । नैयायिकादिमतरीत्या तादृक्साक्षात्कारस्य सत्त्वेऽपि न तद्वाक्यानां स्वतः- प्रामाण्यं गुणवद्वक्तृकत्वेन तैः श्रुतिनामपि परतः प्रामाण्याभ्युपगमात् । तथा च श्रुतिस्मृत्योरवैशेष्यमेव स्यात् । अत एवास्मिन्नर्थे वात्स्यायन- भाष्याद्याश्रयणं व्यर्थमेव, तैराप्तवाक्यप्रामाण्यस्य परतस्त्वाभ्युपगमात् । न च नैयायिकरीत्या धर्मादिसाक्षात्कर्तृवेदनिर्मातृत्वं मीमांसकरीत्या च वेदस्य प्रामाण्यस्वतस्त्वम् इत्यर्धं जरतीयं युक्तम् । 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेक- श्चार्थेऽनुपलब्धे तत्प्रमाणम् बादरायणस्यानपेक्षत्वात्' इत्यत्र जैमिनिना वेदस्य स्वतःप्रामाण्यमुक्तम् । भगवतो बादरायणस्य अत्रार्थे सम्मतिः प्रदर्शिता । अत्र अनपेक्षत्वादित्यत्र कारणगुणसंवादाद्यर्थ-क्रियाज्ञाना- नधीनत्वे सति कारणदोषबाधकदोषवर्जितत्वे च सति अनधिगताबाधि- तार्थबोधजनकत्वरूपं प्रामाण्यस्वतस्त्वं विवक्षितम् । प्रमाणस्य अर्था- नुसारेणैव प्रामाण्यम् । प्रमाणं स्वविषयेण सहैव स्वप्रामाण्यमपि गृह्णाति । अर्थान्यथात्वमेव अप्रामाण्यम् । तच्च बाधकज्ञानादिभि- र्विज्ञायते । रज्जुसर्पादिविज्ञानस्याप्रामाण्यं दीपादिसापेक्षं दृश्यत एव । यथा गुडस्य माधुर्यं स्वाभाविकमिति पर्यनुयोगानर्हम्, तथैव स्वाभाविकं प्रामाण्यमपि प्रमाणानां पर्यनुयोगानर्हमेव । गुडस्य माधुर्यमिव


वेदस्वरूप-विमर्शः ११५ वेदानां प्रामाण्यमपि स्वाभाविकमिति पारम्पर्येण सिद्धमेव । तदुक्तं भट्टपादैः- "स्वतः सर्वप्रमाणानां प्रामाण्यमिति गम्यताम् । नहि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते ॥ आत्मलाभे च भावानां कारणापेक्षता भवेत् । लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव हि ॥ यस्मात् स्वतःप्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम् । बाधकारणदुष्टत्वबोधाभ्यां तदपोद्यते ॥' इति । कारणगुणसंवाद्यर्थक्रियाज्ञानानधीनत्वे सति कारणदोषबाधक- दोषवर्जितत्वे सति चानधिगताबाधितार्थबोधजनकत्वमेव प्रामाण्य- स्वतस्त्वम् । बाधकज्ञानकारणदोषविसंवादिज्ञानाधीनत्वाद् अप्रामाण्यस्य परतस्त्वम् । शब्दातिरिक्तं शब्दोपजीविप्रमाणातिरिक्तञ्च यत्प्रमाणं तज्जन्यप्रमितिविषयानतिरिक्तार्थको यो यस्तदन्यत्वे सति आमुष्मिक- सुखजनकोच्चारणकत्वे सति जन्यज्ञानाजन्यो यः प्रमाणान्तरास्तत्त्वं वेदत्वम् । तच्चैतदपौरुषेयत्व एव घटते । आप्तसर्वज्ञपुरुषमूलकत्वेन गुणवद्वक्तृकत्वेन वा प्रामाण्येऽपि प्रामाण्यस्वतस्त्वं भज्यत एव । विचार- स्यापि पुरुषापराधविवृत्तौ एवोपयोगः, प्रामाण्यपरतस्त्वापत्तेः । तदुक्तम्- "पुरुषापराधविनिवृत्तिफलः सकलो विचार इति वेदविदः । अनपेक्षतामनुपरोध्य गिरः ......" इति संक्षेपशारीरके । प्रामाण्यस्वतस्त्ववादिनां तु विरोधश्च प्रदर्शितत्वात् । सर्वेषामपि प्रमाणानां प्रामाण्यस्वतस्त्वमेव, तेन स्मृतीनामपि प्रामाण्यस्वतस्त्वमेव । अनाप्तवाक्यानामप्रामाण्यं तु दुष्टमूलत्वेन परतो- ऽभ्युपेयते । चक्षुषो रूपज्ञापकत्वमिव शब्दस्यापि स्वार्थबोधकत्वं स्वाभाविकमेव । पुरुषाश्रितभ्रमादिदोषेण स्वाभाविकं तदपोद्यते । आप्तवाक्ये, अपौरुषेये वेदे चानाप्ताप्रणीतत्वेन तदनपोदितमेव तिष्ठति । किञ्च-एवं परमेश्वरनिर्मिततन्त्राणामपि द्रष्टृवाक्यत्वाच्छ्रुतित्वं