वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 69, कुल 237 में से
संदर्भ में पढ़ें११४ वेदस्वरूप-विमर्शः यदप्युक्तम्—"द्रष्टुर्वाक्यं श्रुतिस्तत्प्रमाणमनपेक्षत्वात् । यथा हि श्रोतुर्वाक्यं स्मृतिरित्युच्यते, तच्च परतः प्रमाणं भवति, स्वप्रामाण्ये श्रुति- सापेक्षत्वात् । न तथाऽयं साक्षात्कृतधर्मा तमर्थमार्थः स्वोक्तिप्रामाण्याय परप्रत्ययमपेक्षते । यश्च तपोयोगप्रभावजनितेन ईश्वरानुग्रहेण सन्देह- विपर्ययादिलेशेनापि कालत्रयेऽस्पृष्टाशेषविशेषविषयकः स्फुटप्रतिभास- लक्षणः साक्षात्कारो यैः प्राप्तस्ते ऋषयः, तेभ्यश्चोपदेशेन यैर्लब्धं ज्ञानं ते भवन्ति मुनयः । ऋषीणां वाक्यं श्रुतिः, मुनीनां तु स्मृतिः तेषां साक्षाद्- द्रष्टृत्वाभावात् । श्रुतीनां स्वतः प्रामाण्यम्, स्मृतीनान्तु श्रुतिमूलकतये"ति । तत्सर्वं निर्मूलम्; पूर्वोत्तरमीमांसादृष्ट्या धर्मापूर्वादिविषयक- साक्षात्कारस्य निराकृतत्वात् । 'नावेदविन्मनुते तं बृहन्तम्', तं त्वौप- निषदं पुरुषं पृच्छामि', 'चोदनालक्षणोऽर्थो धर्मः' इत्यादिविरोधाच्च । नैयायिकादिमतरीत्या तादृक्साक्षात्कारस्य सत्त्वेऽपि न तद्वाक्यानां स्वतः- प्रामाण्यं गुणवद्वक्तृकत्वेन तैः श्रुतिनामपि परतः प्रामाण्याभ्युपगमात् । तथा च श्रुतिस्मृत्योरवैशेष्यमेव स्यात् । अत एवास्मिन्नर्थे वात्स्यायन- भाष्याद्याश्रयणं व्यर्थमेव, तैराप्तवाक्यप्रामाण्यस्य परतस्त्वाभ्युपगमात् । न च नैयायिकरीत्या धर्मादिसाक्षात्कर्तृवेदनिर्मातृत्वं मीमांसकरीत्या च वेदस्य प्रामाण्यस्वतस्त्वम् इत्यर्धं जरतीयं युक्तम् । 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेक- श्चार्थेऽनुपलब्धे तत्प्रमाणम् बादरायणस्यानपेक्षत्वात्' इत्यत्र जैमिनिना वेदस्य स्वतःप्रामाण्यमुक्तम् । भगवतो बादरायणस्य अत्रार्थे सम्मतिः प्रदर्शिता । अत्र अनपेक्षत्वादित्यत्र कारणगुणसंवादाद्यर्थ-क्रियाज्ञाना- नधीनत्वे सति कारणदोषबाधकदोषवर्जितत्वे च सति अनधिगताबाधि- तार्थबोधजनकत्वरूपं प्रामाण्यस्वतस्त्वं विवक्षितम् । प्रमाणस्य अर्था- नुसारेणैव प्रामाण्यम् । प्रमाणं स्वविषयेण सहैव स्वप्रामाण्यमपि गृह्णाति । अर्थान्यथात्वमेव अप्रामाण्यम् । तच्च बाधकज्ञानादिभि- र्विज्ञायते । रज्जुसर्पादिविज्ञानस्याप्रामाण्यं दीपादिसापेक्षं दृश्यत एव । यथा गुडस्य माधुर्यं स्वाभाविकमिति पर्यनुयोगानर्हम्, तथैव स्वाभाविकं प्रामाण्यमपि प्रमाणानां पर्यनुयोगानर्हमेव । गुडस्य माधुर्यमिव
वेदस्वरूप-विमर्शः ११५ वेदानां प्रामाण्यमपि स्वाभाविकमिति पारम्पर्येण सिद्धमेव । तदुक्तं भट्टपादैः- "स्वतः सर्वप्रमाणानां प्रामाण्यमिति गम्यताम् । नहि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते ॥ आत्मलाभे च भावानां कारणापेक्षता भवेत् । लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव हि ॥ यस्मात् स्वतःप्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम् । बाधकारणदुष्टत्वबोधाभ्यां तदपोद्यते ॥' इति । कारणगुणसंवाद्यर्थक्रियाज्ञानानधीनत्वे सति कारणदोषबाधक- दोषवर्जितत्वे सति चानधिगताबाधितार्थबोधजनकत्वमेव प्रामाण्य- स्वतस्त्वम् । बाधकज्ञानकारणदोषविसंवादिज्ञानाधीनत्वाद् अप्रामाण्यस्य परतस्त्वम् । शब्दातिरिक्तं शब्दोपजीविप्रमाणातिरिक्तञ्च यत्प्रमाणं तज्जन्यप्रमितिविषयानतिरिक्तार्थको यो यस्तदन्यत्वे सति आमुष्मिक- सुखजनकोच्चारणकत्वे सति जन्यज्ञानाजन्यो यः प्रमाणान्तरास्तत्त्वं वेदत्वम् । तच्चैतदपौरुषेयत्व एव घटते । आप्तसर्वज्ञपुरुषमूलकत्वेन गुणवद्वक्तृकत्वेन वा प्रामाण्येऽपि प्रामाण्यस्वतस्त्वं भज्यत एव । विचार- स्यापि पुरुषापराधविवृत्तौ एवोपयोगः, प्रामाण्यपरतस्त्वापत्तेः । तदुक्तम्- "पुरुषापराधविनिवृत्तिफलः सकलो विचार इति वेदविदः । अनपेक्षतामनुपरोध्य गिरः ......" इति संक्षेपशारीरके । प्रामाण्यस्वतस्त्ववादिनां तु विरोधश्च प्रदर्शितत्वात् । सर्वेषामपि प्रमाणानां प्रामाण्यस्वतस्त्वमेव, तेन स्मृतीनामपि प्रामाण्यस्वतस्त्वमेव । अनाप्तवाक्यानामप्रामाण्यं तु दुष्टमूलत्वेन परतो- ऽभ्युपेयते । चक्षुषो रूपज्ञापकत्वमिव शब्दस्यापि स्वार्थबोधकत्वं स्वाभाविकमेव । पुरुषाश्रितभ्रमादिदोषेण स्वाभाविकं तदपोद्यते । आप्तवाक्ये, अपौरुषेये वेदे चानाप्ताप्रणीतत्वेन तदनपोदितमेव तिष्ठति । किञ्च-एवं परमेश्वरनिर्मिततन्त्राणामपि द्रष्टृवाक्यत्वाच्छ्रुतित्वं