वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 74, कुल 237 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the two pages as printed:
१२४ वेदस्वरूप-विमर्शः अविस्तरमसन्दिग्धं - मविलम्बित - मध्यथम् । उरस्थं कण्ठगं वाक्यं वर्तते मध्यमस्वरम् ॥ ३१ ॥ संस्कारक्रमसम्पन्ना मद्भूतामविलम्बिताम् । उच्चारयति कल्याणीं वाचं हृदयहर्षिणीम् ॥ ३२ ॥ अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया । कस्य नाराध्यते चेत उद्यतासेररेरपि ॥ ३३ ॥ लेखकस्य वाचोभङ्ग्या ध्वन्यते यद् वैखरीवागात्मका वेदा न वस्तुतो वेदाः, किन्तु परा-पश्यन्त्याद्यात्मका एव मुख्या वेदाः। एवं परा- पश्यन्त्यादिस्वरूपविषयेऽपि आधुनिकवैदिकविद्वन्मानिनामन्यः पन्थाः । सर्वमेतदत्र विमर्शणीयं भवति । तदत्र पूर्वं पर-पश्यन्त्यादिरूपं नव्यमतानुगृहीतं समीक्ष्य कथं परा-पश्यन्त्याद्यात्मका एव न मुख्या वेदा इति विवेचयिष्यते