भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 75, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 75

१२६ वेदस्वरूप-विमर्शः भवति, तदा सा पश्यन्तीनाम्ना व्यपदिश्यते । तत्रापि वाणी अविभाज्या- ऽभिन्ना सर्वथैव चाक्रमा भवति । सैव मध्यमावस्थायाम् अव्यक्तक्रमा वैखर्याञ्च व्यक्तक्रमा भवति । मध्यमावस्थायां शब्दार्थयोः संसृष्टेन अभिन्नेन रूपेण समष्टिरूपेण वा पदार्थप्रकाशनं बुद्धावनयैव क्रियते । पश्यन्त्यवस्थायान्तु सर्वविधस्यैवार्थस्य प्रशान्तिरभावो वा भवति । एवं परिच्छिन्नार्थप्रत्यवभासा संसृष्टार्थप्रत्यवभासा प्रशान्तसर्वार्थ- प्रत्यवभासा चेत्यपरिमाणभेदा सा । पश्यन्त्याः प्रकृष्टं रूपमेव पराया रूपम् । यथा ज्ञानं ज्ञेयाकारे समाविष्टं भवति तथैव शब्दोऽर्थाकारे सन्निहितो भवति । शब्दार्थयोरभिन्नस्थितितया परस्परं विरुद्ध- स्वभावात् गवादिपदार्थान् प्रत्यवभासयति । तदेव पश्यन्तीनाम- निमित्तम् । मध्यमायां बुद्धौ शब्द एकेन विशिष्टेन क्रमेण

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय) · पृष्ठ 75, कुल 237 में से · BharatKosha