वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 75, कुल 237 में से
संदर्भ में पढ़ें१२६ वेदस्वरूप-विमर्शः भवति, तदा सा पश्यन्तीनाम्ना व्यपदिश्यते । तत्रापि वाणी अविभाज्या- ऽभिन्ना सर्वथैव चाक्रमा भवति । सैव मध्यमावस्थायाम् अव्यक्तक्रमा वैखर्याञ्च व्यक्तक्रमा भवति । मध्यमावस्थायां शब्दार्थयोः संसृष्टेन अभिन्नेन रूपेण समष्टिरूपेण वा पदार्थप्रकाशनं बुद्धावनयैव क्रियते । पश्यन्त्यवस्थायान्तु सर्वविधस्यैवार्थस्य प्रशान्तिरभावो वा भवति । एवं परिच्छिन्नार्थप्रत्यवभासा संसृष्टार्थप्रत्यवभासा प्रशान्तसर्वार्थ- प्रत्यवभासा चेत्यपरिमाणभेदा सा । पश्यन्त्याः प्रकृष्टं रूपमेव पराया रूपम् । यथा ज्ञानं ज्ञेयाकारे समाविष्टं भवति तथैव शब्दोऽर्थाकारे सन्निहितो भवति । शब्दार्थयोरभिन्नस्थितितया परस्परं विरुद्ध- स्वभावात् गवादिपदार्थान् प्रत्यवभासयति । तदेव पश्यन्तीनाम- निमित्तम् । मध्यमायां बुद्धौ शब्द एकेन विशिष्टेन क्रमेण