भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 80, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 80

कैश्चित्त—'अतप्ततनूर्न तदामोऽश्नुते दिवमि'ति रीत्या अतप्ततनोः आमत्वात् परमात्मरूपाया दिवोऽप्राप्तिरिति तप्तशङ्खचक्रादिभिस्तनुतापो वितन्यते । अन्यैस्तस्य आमत्वस्य निवृत्तये कृच्छ्रचान्द्रायणादिभिरात्मा ताप्यते । परमन्यैश्च भगवद्विप्रयोगजन्यतीव्रतापानुभूत्यैव आमत्व- निवृत्तिरिष्यते । न केवलमामतत्वमेव अपोद्यते, किन्तु भगवद्विप्रयोग- जन्येन तीव्रेण तापेन स्थूल-सूक्ष्म-कारणात्मकशरीरत्रयस्य वापोऽत्यन्तं बाधितो भवति । ध्यानप्राप्ताच्युताश्लेषोद्द्रिक्तरसपूरण-तत्संस्पर्शानुगुण- दिव्यदेहेन्द्रियादिलाभश्च सम्पद्यते । परं दिव्यत्वापादकेषु सर्वेष्वेव व्यापारेषु प्राकृतदेहादिसाधनानामुपयोगः सर्वेषामिष्टः, तदन्तरा तदनुप- पत्तेः । यथा रसायनप्रक्रियया रसनिघर्षणेन गन्धकं रसत्वमापद्यते, [L11