वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 81, कुल 237 में से
संदर्भ में पढ़ेंपृष्ठ ११८
११८ वेदस्वरूप-विमर्शः किञ्च--शब्दब्रह्मरूपायाः परस्याः वाचः साक्षात्कारेऽपि निर्विशेष- ब्रह्मज्ञानं कथं सम्भवति ? ब्रह्मज्ञानेन ब्रह्मकार्यज्ञानसम्भवेऽपि कार्य- ज्ञानेन ब्रह्मज्ञानासम्भवात् । शब्दब्रह्म-परब्रह्मणोरैक्येऽपि तज्ज्ञानमेव परब्रह्मज्ञानमिति कुतः शब्दब्रह्मज्ञानस्य परब्रह्मज्ञानहेतुत्वम् ? 'शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ।' इत्यादिवचनं प्रसिद्धवेदाभिप्रायेणैव तु सङ्गच्छते । उपनिषदादि- वेदज्ञानेन ब्रह्मज्ञानप्रतिभारूपा शुद्धप्रज्ञा या तत्त्वप्रकाशिका भवति, सा तु सविषया । परावाक् तु पुनरक्रमा अविषया च । योगशास्त्रोपदिष्ट- तारकज्ञानमपि वस्तुतत्त्वावद्योतकत्वात् सविषयमेव । प्रणवस्तु वाचक- त्वेन परमेश्वरस्य लक्षकत्वेन च शुद्धब्रह्मणो बोधको भवति । यद्वा--विष्णुबुद्ध्या उपास्यमानः शालग्रामो यथा विष्णुप्राप्तिहेतुः, तथैव ब्रह्मबुद्ध्या उपास्यमानः प्रणवः परब्रह्मप्राप्तिहेतुर्भवति । वेद- तात्पर्यविषयीभूतं ब्रह्म वेदाश्रयणमन्तरा नाधिगम्यते इत्येतस्मिन्नेवार्थे 'नावेदविन्मनुते' इत्यादीनि श्रौतानि वचनानि सङ्गच्छन्ते । वस्तुतस्तु--स्वप्रकाशं ब्रह्म, न तत्र प्रकाशापेक्षा । तत एव अवेद्यत्वे सति अपरोक्षं यत्तदेव ब्रह्म, 'यत्साक्षादपरोक्षाद् ब्रह्म' इति श्रुतेः । अनाद्य- निर्वचनीयाऽविद्यापनोदाय महावाक्यजन्यान्तःकरणवृत्तिरेव अपे- क्षिता भवति । सा च प्रणवोपासनेन वाग्देव्याः प्रसादेन वा जायते । शब्देन शब्दार्थज्ञानमुत्पद्यते इति नीत्याऽपि प्रणवेन महावाक्येन ब्रह्मा- कारा परोक्षात्मिका वृत्तिरुदेति । तया आवरणभेदेन स्वप्रकाशं ब्रह्म स्वतोऽपरोक्षं भवति । 'फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निराकृतम् । ब्रह्मण्याज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता ।।' इत्याद्युक्तेः । सा च वृत्तिः प्रणवादपि भिन्ना शब्दब्रह्मणोऽभिन्नाया वाग्देव्याः प्रसादभूतत्वात् ततोऽपि भिन्नेव । शब्दार्थात्मकप्रपञ्चोत्पाद- नानुगुणं-महाशक्त्यवच्छिन्नं ब्रह्मैव शब्दब्रह्मेत्याख्यायते । परं ब्रह्म तु
पृष्ठ ११९
वेदस्वरूप-विमर्शः ११९ सर्वथाऽनवच्छिन्नमेव । स्वावस्थान्तरभूतवेदादिशब्दैरेव शब्दब्रह्म पर- ब्रह्मप्रकाशकं भवति । यदप्युक्तम्--"गुहाहितं प्राकृतजनैर्दुर्निरीक्ष्यं धर्मस्य तत्त्वं विवृत- स्वरूपाया वाग्देव्याः प्रसादात् अचिरेणैव चेतसि समुल्लसति, येन- कर्तव्याकर्तव्यनिश्चयः शास्त्राणि उपदेष्टुर्वचनञ्च अनपेक्ष्यैव सुकरो भवति । संशय-विपर्ययादिगन्धशून्या सा वाक्प्रसादजा वागात्मिका प्रज्ञा लौकिकज्ञानेन अबाध्यमाना ऋतम्भरेत्यन्वर्थसंज्ञां दधातीति प्रसिद्धा योगिलोके" इति । तदपि न क्षोदक्षमम्; प्रमाणभूतैरपौरुषेयैः वैदिकैः शब्दैरेव वाग्देव्याः प्रसादेन धर्मब्रह्मणोरवगमप्रसिद्धेः । सरस्वतीरूपायाः परदेवताया वाग्देवतायाः प्रसादेनैव सोपकरणैर्वेदैः विपर्ययादिशून्यं धर्मब्रह्मज्ञानं जायते, न तु स्वातन्त्र्येण । यथा नहि चक्षुरन्तरा रूपज्ञानं जायते, न वा घ्राणमन्तरा गन्धज्ञानं सम्भवति, तथैव वैदिकशब्दमन्तरा न धर्मब्रह्मज्ञानं सम्भवति, 'तं त्वौपनिषदं पुरुषं पृच्छामि', 'नावेदविन्मनुते तं बृहन्तम्' इत्यादिश्रुतिभ्यः । अन्यथा का वाग्देवी, किञ्च तत्स्वरूपविवरणम्, कथञ्च तेन धर्मतत्त्वज्ञानम् इति प्रश्नाः असमाहिता एव स्थास्यन्ति । यदि च तत्समाधानार्थं वैदिक-तान्त्रिकवचनाश्रयणम्, तदा तु तैरेवेदं [L1