भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 81, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 81

पृष्ठ ११८

११८ वेदस्वरूप-विमर्शः किञ्च--शब्दब्रह्मरूपायाः परस्याः वाचः साक्षात्कारेऽपि निर्विशेष- ब्रह्मज्ञानं कथं सम्भवति ? ब्रह्मज्ञानेन ब्रह्मकार्यज्ञानसम्भवेऽपि कार्य- ज्ञानेन ब्रह्मज्ञानासम्भवात् । शब्दब्रह्म-परब्रह्मणोरैक्येऽपि तज्ज्ञानमेव परब्रह्मज्ञानमिति कुतः शब्दब्रह्मज्ञानस्य परब्रह्मज्ञानहेतुत्वम् ? 'शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ।' इत्यादिवचनं प्रसिद्धवेदाभिप्रायेणैव तु सङ्गच्छते । उपनिषदादि- वेदज्ञानेन ब्रह्मज्ञानप्रतिभारूपा शुद्धप्रज्ञा या तत्त्वप्रकाशिका भवति, सा तु सविषया । परावाक् तु पुनरक्रमा अविषया च । योगशास्त्रोपदिष्ट- तारकज्ञानमपि वस्तुतत्त्वावद्योतकत्वात् सविषयमेव । प्रणवस्तु वाचक- त्वेन परमेश्वरस्य लक्षकत्वेन च शुद्धब्रह्मणो बोधको भवति । यद्वा--विष्णुबुद्ध्या उपास्यमानः शालग्रामो यथा विष्णुप्राप्तिहेतुः, तथैव ब्रह्मबुद्ध्या उपास्यमानः प्रणवः परब्रह्मप्राप्तिहेतुर्भवति । वेद- तात्पर्यविषयीभूतं ब्रह्म वेदाश्रयणमन्तरा नाधिगम्यते इत्येतस्मिन्नेवार्थे 'नावेदविन्मनुते' इत्यादीनि श्रौतानि वचनानि सङ्गच्छन्ते । वस्तुतस्तु--स्वप्रकाशं ब्रह्म, न तत्र प्रकाशापेक्षा । तत एव अवेद्यत्वे सति अपरोक्षं यत्तदेव ब्रह्म, 'यत्साक्षादपरोक्षाद् ब्रह्म' इति श्रुतेः । अनाद्य- निर्वचनीयाऽविद्यापनोदाय महावाक्यजन्यान्तःकरणवृत्तिरेव अपे- क्षिता भवति । सा च प्रणवोपासनेन वाग्देव्याः प्रसादेन वा जायते । शब्देन शब्दार्थज्ञानमुत्पद्यते इति नीत्याऽपि प्रणवेन महावाक्येन ब्रह्मा- कारा परोक्षात्मिका वृत्तिरुदेति । तया आवरणभेदेन स्वप्रकाशं ब्रह्म स्वतोऽपरोक्षं भवति । 'फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निराकृतम् । ब्रह्मण्याज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता ।।' इत्याद्युक्तेः । सा च वृत्तिः प्रणवादपि भिन्ना शब्दब्रह्मणोऽभिन्नाया वाग्देव्याः प्रसादभूतत्वात् ततोऽपि भिन्नेव । शब्दार्थात्मकप्रपञ्चोत्पाद- नानुगुणं-महाशक्त्यवच्छिन्नं ब्रह्मैव शब्दब्रह्मेत्याख्यायते । परं ब्रह्म तु


पृष्ठ ११९

वेदस्वरूप-विमर्शः ११९ सर्वथाऽनवच्छिन्नमेव । स्वावस्थान्तरभूतवेदादिशब्दैरेव शब्दब्रह्म पर- ब्रह्मप्रकाशकं भवति । यदप्युक्तम्--"गुहाहितं प्राकृतजनैर्दुर्निरीक्ष्यं धर्मस्य तत्त्वं विवृत- स्वरूपाया वाग्देव्याः प्रसादात् अचिरेणैव चेतसि समुल्लसति, येन- कर्तव्याकर्तव्यनिश्चयः शास्त्राणि उपदेष्टुर्वचनञ्च अनपेक्ष्यैव सुकरो भवति । संशय-विपर्ययादिगन्धशून्या सा वाक्प्रसादजा वागात्मिका प्रज्ञा लौकिकज्ञानेन अबाध्यमाना ऋतम्भरेत्यन्वर्थसंज्ञां दधातीति प्रसिद्धा योगिलोके" इति । तदपि न क्षोदक्षमम्; प्रमाणभूतैरपौरुषेयैः वैदिकैः शब्दैरेव वाग्देव्याः प्रसादेन धर्मब्रह्मणोरवगमप्रसिद्धेः । सरस्वतीरूपायाः परदेवताया वाग्देवतायाः प्रसादेनैव सोपकरणैर्वेदैः विपर्ययादिशून्यं धर्मब्रह्मज्ञानं जायते, न तु स्वातन्त्र्येण । यथा नहि चक्षुरन्तरा रूपज्ञानं जायते, न वा घ्राणमन्तरा गन्धज्ञानं सम्भवति, तथैव वैदिकशब्दमन्तरा न धर्मब्रह्मज्ञानं सम्भवति, 'तं त्वौपनिषदं पुरुषं पृच्छामि', 'नावेदविन्मनुते तं बृहन्तम्' इत्यादिश्रुतिभ्यः । अन्यथा का वाग्देवी, किञ्च तत्स्वरूपविवरणम्, कथञ्च तेन धर्मतत्त्वज्ञानम् इति प्रश्नाः असमाहिता एव स्थास्यन्ति । यदि च तत्समाधानार्थं वैदिक-तान्त्रिकवचनाश्रयणम्, तदा तु तैरेवेदं [L1