भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 89, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 89

१५४ वेदस्वरूप-विमर्शः परमन्येषां रीत्या द्वादशोत्तर-पञ्चशतलवात्मकमेव मात्रायाः स्वरूपम् । ततश्च मात्राया द्वादशोत्तर-पञ्चशततमो भाग उन्मनाकालः । एतद्रीत्या महाबिन्दावेव कालाभावः । यस्य मन्त्रानुसन्धानं समाधि- भावापन्नं भवेत् तस्यैव महाबिन्दुगभवः पुरुषार्थोपयोगी मनोरोधश्च सम्भवति । तद्बलेनैव च चक्रषटकस्था वर्णशक्तयः बिन्दुभावमापद्यन्ते । परमेतत् सर्वं वैदिक तान्त्रिक तद्भिन्न-बौद्धाऽऽर्हतादिमन्त्रानुसन्धानेष्वपि समानमेव योगक्षेमम् । वेदस्वरूपनिर्णये न किञ्चिदपि तेन निर्वहति । केवलं यथाकथञ्चित् प्रचरितेऽपि वेदस्वाध्याये केषाञ्चित् शैथिल्यमेव जायते । तेनायं विचारो न वेदश्रद्धाविधायकः, किन्तु तदपनोदक एव । यदप्युक्तम्—"पश्यन्त्यादिभेदभिन्ना त्रिविधा वाक् स्थूला सूक्ष्मा

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय) · पृष्ठ 89, कुल 237 में से · BharatKosha