भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 90, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 90

Here is the line-by-line transcription of the Sanskrit text from the provided image:

[पृष्ठ १५६]

१५६ वेदस्वरूप-विमर्शः आविर्भावो भवति । अनात्मनि आत्माभिमानः शिथिलो जायते । अनेन क्रमेण देहादिषु दृढत्वेऽपगते कम्पाख्या तृतीया दशा आविर्भवति । देहतादात्म्यबोधस्य सम्यक्तया निवृत्त्यनन्तरं संविदोन्मुख्ये जायमाने बाह्यवृत्तीनामुपरमात् आन्तरस्य कस्यचनानुभवस्य स्फुटमनुदयात् योगनिद्राख्या तुरीयदशा समुन्मेषमुद्गच्छति । एतदुत्तरमेव चिदात्मनि पूर्णा रूढिः सञ्जायते । तदा सममं विश्वमेव ब्रह्मरूपेण भासते, चिदात्मकतया साक्षात्क्रियते च । अस्यां दशायामधिरूढस्य महायोगिनः स्पन्दाख्याया महाशक्तेः तादात्म्यं भवति । एतदेव च महाव्याप्तिरिति पूर्णेरिति शास्त्रेषु प्रसिद्धा तुर्यातीता परब्रह्मरूपा दशा । अस्यामवस्थितस्य योगिनः सदैव सृष्टिसंहाराधिकारित्वेन परमेश्वर्यमुदेति । महाभावस्वरूपेयं दशा वस्तुतो वाग्वृत्तीनामगोचरत्वादवर्णनीयैव” इति । तत्राप्युच्यते-केवलात्मस्वरूपावाप्तिः नाप्राप्तप्राप्तिः, किन्तु विस्मृत- ग्रैवेयकमणिप्राप्तिरिव ज्ञानमात्रसाध्या प्राप्तप्राप्तिरेव । अज्ञानेन आरोपि- तस्य अकैवत्यस्य ज्ञानेन निवृत्तिरेव कैवल्यप्राप्तिः । तेनैव देहात्मबोध- बाधादिसर्वा अवस्था गतार्था भवन्ति । मुक्तानामेव कैवल्यमुपगतानां सृष्टिसंहाराद्यधिकारिब्रह्मपमैश्वर्यमशास्त्रीयमेव, 'जगद्व्यापारवर्जमिति बादरायणसूत्रविरोधात् । यच्च-“पश्यन्त्येव सूक्ष्मत्वेन परा वाक् । पश्यन्तीमतिक्रान्ता तद्भिन्न- रूपा वा से"तिस्तु विचारस्तु व्यर्थ एव । सगुणनिर्गुणभेदेन परापरभेदेन च द्विविधतया वर्णितस्यापि ब्रह्मणो यथैकत्वं न विरुद्धं तथैवैक प्रत्यवमर्शिनी वाग् गुणभूमिरूपेणेत्य कदाचित् पश्यन्तीति कदाचित् परेति संज्ञया उपवर्ण्यते । परन्तु वर्तते तत्रापि किञ्चिद्रहस्यमिति यथाऽनुभवं तन्नि- वेद्यते । षोडशकले पुरुषे पञ्चदशकलानां परिणामशालित्वेऽपि षोडशीरूपा एका चित्कला परिणामस्य साक्षिभूता परमासृतरस्वरूपा तिष्ठति । अस्यां दृष्टस्वरूपायामधिकारो निवर्तते । इयं देवी वाक् योगिभिर्ज्ञानिभिश्च द्रष्टृत्वेन निर्दिश्यते । अमृतरूपाया अस्या निरोधोऽपि न सम्भवति, कुतस्तु विनाशः ? तथापि वक्तृविवक्षावशान्निरोधे व्यपदिश्यमाने महा- बिन्द्वात्मक-निष्कलासनसमारूढं निष्कलं परमं तत्त्वं तत्त्वोत्तीर्णमपि


[पृष्ठ १५७]

वेदस्वरूप-विमर्शः १५७ परतत्त्वरूपेण उपवर्ण्यमानं नित्यलीलास्रोल्लासपरं स्वात्मनि साक्षा- त्क्रियते । सामरस्यमुपगतमनादिमिथुनं वागर्थयुगलमेव निरञ्जनं परब्रह्मपदमिति अद्वयविदां परिभाषाेभति । तत्राप्युच्यते-यद्यपि केषांचिद्ररीत्या पश्यन्त्येव परा भवति; तथापि कार्यकारणोपाधिको भेवस्तु अभ्युपगन्तव्य एव । सगुण-निर्गुणयोः परा-ऽपरयोश्च तादृग् भेदोऽभ्युपगम्यत एव । अत एव गुणभूम्युपाधि- कत्वेन पश्यन्त्याः सोपाधिकत्वम्, तद्राहित्येन च परस्या निरूपाधिकत्व- मपि आपेक्षिकं वर्णयितुं शक्यते । षोडशी चित्कला तु सर्वसाक्षिभूता निरूपाधिकस्वरूपैव । दृश्यसत्त्वे तत्र द्रष्टृत्वव्यपदेशे सत्यापि वस्तुतो दृशिरूपत्वमेव । 'स भगवः कस्मिन् प्रतिष्ठितः ? स्वे महिम्नि' इति रीत्या अन्तिमाधारस्य निराधारत्वनेव, अन्तिममूलस्य अमूलत्वमिव च सर्वावभासकस्य सर्वाधारस्य सर्वमूलस्य अनावारत्वा दिकमेव मुख्यम् । उपाधिविवक्षायामेव स्वे महिम्नि तस्याऽवस्थानन् । तत्रैव महाबिन्दात्मक- निष्कलासनत्वकल्पनम् । तत्राभिव्यक्ते परस्मिन् तदारूढत्वव्यपदेशः । तस्मिन्नेव स्वात्मनि सामरस्यमुपगतत्वमनादिमिथुनत्वञ्च परिकल्प्यते । 'आत्मरतिरात्मक्रीड आत्ममिथुन' इत्यादिश्रुतेस्तत्रैव पर्यवसानम् । चैतन्यं पुरुषस्य स्वरूपमितिवत् त्रिकल्पारोपेण अभेदेऽपि भेदव्यपदेशसम्भवात् । यथाकथञ्चित् श्रौतमद्वैतसिद्धान्तं तान्त्रिकं शैवं शाक्तं वा मतमाश्रित्य अंशतः विप्रतिपत्तावपि तत्त्वोत्तीर्णे परतत्त्वे सामञ्जस्यं सम्भवति । परं वेदस्वरूपनिरूपणे अस्य भागस्य न कोऽपि उपयोग इति तु निष्प्रपञ्च- मेवेति संक्षेपः ।