भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 97, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 97

तेषां देवजनानां वा [R18] अनीकं समूहरूपं चित्रमाश्चर्यकरं सूर्यमण्डलम् उदगात् उदयाचलं [R19] प्राप्तमासीत् । तच्च मित्रस्य वरुणस्य अग्नेस्तदुपलक्षितानां जगतां चक्षुः [R20] प्रकाशकम्, चक्षुःस्थानीयं वा उदयं प्राप्य द्यावापृथिवीमन्तरिक्षञ्च [R21] आप्राः स्वतेजसा समन्तात् । अपूरयत् मण्डलान्तर्वर्ती सूर्यः अन्तर्यामी [R22] सर्वस्य प्रेरकः परमात्मा जगतो जङ्गमस्य तस्थुषः स्थावरस्य आत्मा [R23] स्वरूपभूतः सर्वकारणत्वात्, कार्यस्य तदनन्यत्वाच्च । अथवा सर्वजीवन- [R24] हेतुत्वादात्मा जीवः । उदिते हि सूर्ये मृतप्रायं सर्वं जगत् पुनश्चेतनयुक्तं [R25] सदुपलभ्यते । योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति' [R26] (तै० आ० १.१४ ) इतिश्रुतेः । [R27] यदपि च— [R28] "ऋग्भ्यो जातां सर्वशो मूर्त्तिमाहुः सर्वा गतिर्याजुषी हैव शश्वत् । [R29] सर्वं तेजः साम