वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)
Vedantasara of Sadananda with Hindi Commentary
सदानन्द योगीन्द्र द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 141, कुल 314 में से
संदर्भ में पढ़ेंअनुबन्ध चतुष्टय १२७ अवतरणिका- तत्पश्चात् काम्य, निषिद्ध, नित्य-नैमित्तिक आदि कर्मों की सोदाहरण व्याख्या करते हुए ग्रन्थकार क्रमशः इन कर्मों के परित्याग एवं आचरण के मुख्य एवं गौण फलों का कथन करते हैं- काम्यानि स्वर्गादीष्टसाधनानि ज्योतिष्टोमादीनि। निषिद्धानि नरकाद्यनिष्टसाधनानि ब्राह्मणहननादीनि। नित्यान्यकरणे प्रत्यवायसाधनानि सन्ध्यावन्दनादीनि। नैमित्तिकानि पुत्रजन्माद्यनुबन्धीनि जातेष्ट्यादीनि। प्रायश्चित्तानि पापक्षयसाधनानि चान्द्रायणादीनि। उपासनानि सगुणब्रह्मविषयमानसव्यापाररूपाणि शाण्डिल्यविद्यादीनि। एतेषां नित्यादीनां बुद्धिशुद्धिः परं प्रयोजनमुपासनानां तु चित्तैकाग्र्यं "तमेतमात्मानं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन" इत्यादिश्रुतेः "तपसा कल्मषं हन्ति" इत्यादि स्मृतेश्च। नित्यनैमित्तिक- प्रायश्चित्तोपासनानां त्ववान्तरफलं पितृलोकसत्यलोकप्राप्तिः "कर्मणा पितृलोको विद्यया देवलोक" इत्यादि-श्रुतेः। पदच्छेद-काम्यानि-स्वर्गादि इष्टसाधनानि, ज्योतिष्टोम-आदीनि। निषिद्धा- नि नरकादि अनिष्टसाधनानि, ब्राह्मणहनन-आदीनि। नित्यानि-अकरणे प्रत्यवायसाधनानि, सन्ध्यावन्दन-आदीनि। नैमित्तिकानि पुत्र जन्मादि अनुबन्धीनि, जातेष्टि-आदीनि। प्रायश्चित्तानि-पाप-क्षय साधनानि चान्द्रायण-आदीनि। उपासनानि-सगुणब्रह्मविषय-मानस-व्यापाररूपाणि, शाण्डिल्यविद्या-आदीनि। एतेषां नित्यादीनाम्-बुद्धि-शुद्धिः परम् प्रयोजनम्। उपासनानाम्-तु चित्त-एकाग्र्यम्। "तम् एतम् आत्मानम् वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन" इत्यादि श्रुतेः।¹ "तपसा कल्मषम् हन्ति" इत्यादि स्मृतेः च।² नित्य-नैमित्तिक-प्रायश्चित्त उपासनानाम् तु अवान्तर-फलम् पितृलोक-सत्यलोक-प्राप्तिः "कर्मणा पितृलोकः विद्यया देवलोकः" इत्यादि-श्रुतेः।³ अनुवाद-स्वर्ग आदि कामनाओं के साधनस्वरूप ज्योतिष्टोमयाग आदि काम्यकर्म हैं। नरक आदि अनिष्ट के साधनरूप ब्राह्मणहनन आदि निषिद्धकर्म हैं। जिनके न करने पर भविष्य में दुःख की सम्भावना हो,
- बृहदारण्यकोपनिषद्- 4.4.22
- मनुस्मृति-12.104
- बृहदा. 1.5.16