भारतकोश
वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)

वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)

Vedantasara of Sadananda with Hindi Commentary

सदानन्द योगीन्द्र द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished314 पृष्ठ

पृष्ठ 253, कुल 314 में से

संदर्भ में पढ़ें
पृष्ठ 253

महावाक्यार्थ-निरूपण २३९ चित्र-५१ [नीलमुत्पलम्] गुण गुणी नीलगुण विशिष्ट उत्पल प्रत्यक्षादि प्रमाण से नील उत्पल रूप वाक्यार्थ की अभिन्नता विरोध न होने से [सम्बन्ध का अभाव] ← [विशेषण विशेष्यभाव सम्बन्ध] → [सम्बन्ध का अभाव] तुरीय प्राज्ञः→ [सम्बन्ध का अभाव] परोक्षत्वादि विशिष्ट चैतन्य अपरोक्षत्वादि विशिष्ट चैतन्य तत् त्वम् [परोक्षत्वादि विशिष्ट चैतन्य] प्रत्यक्षादि प्रमाण के [ही अपरोक्षत्वादि विशिष्ट] साथ विरोध होने से [चैतन्य है] आधारभेद [तत्त्वमसि] अवतरणिका-गुणगुणी के समान विशेषणविशेष्यभाव का ‘तत्त्वमसि’ महावाक्य में निषेध करने के बाद ‘गंगायां घोष:’ इत्यादि वाक्य के समान ‘तत्त्वमसि’ में ‘जहत् लक्षणा’ का निषेध करते हुए ग्रन्थकार कहते हैं- अत्र गङ्गायां घोषः प्रतिवसतीतिवाक्यवज्जहल्लक्षणापि न सङ्गच्छते। तत्र तु गङ्गाघोषयोराधाराधेयभावलक्षणस्य वाक्यार्थस्याशेषतो विरुद्धत्वाद्वाक्यार्थमशेषतः परित्यज्य तत्सम्बन्धितीरलक्षणाया युक्तत्वाज्जहल्लक्षणा सङ्गच्छते। अत्र तु परोक्षापरोक्षचैतन्यैकत्वलक्षणस्य वाक्यार्थस्य भागमात्रे विरोधाद्भागान्तरमपि परित्यज्यान्यलक्षणाया अयुक्तत्वाज्जहल्लक्षणा न सङ्गच्छते। न च गङ्गापदं स्वार्थपरित्यागेन तीरपदार्थं यथा लक्षयति तथा तत्पदं त्वम्पदं वा स्वार्थपरित्यागेन त्वम्पदार्थं तत्पदार्थं वा लक्षयत्वतः कुतो जहल्लक्षणा न सङ्गच्छत इति वाच्यम्। तत्र तीरपदाश्रवणेन तदर्थप्रतीतौ लक्षणाया तत्प्रतीत्यपेक्षायामपि तत्त्वम्पदयोः श्रूयमाणत्वेन तदर्थप्रतीतौ लक्षणाया पुनरन्यतरपदेनान्यतरपदार्थप्रतीत्यपेक्षाभावात्॥२५॥ पदच्छेद-अत्र ‘गङ्गायाम् घोषः प्रतिवसति’ इति वाक्यवत् ‘जहत् लक्षणा’ अपि न सङ्गच्छते। तत्र तु गङ्गाघोषयोः आधार-आधेयभावलक्षणस्य वाक्यार्थस्य अशेषतः विरुद्धत्वात् वाक्यार्थम् अशेषतः परित्यज्य तत् सम्बन्धितीरलक्षणाया युक्तत्वात् जहत् लक्षणा सङ्गच्छते।