वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 22, कुल 145 में से
संदर्भ में पढ़ें( २२ ) वेदान्तसार । कहा है-दीप्तिमान आत्माकी शक्ति निज सत्त्वगुणआदि द्वारा वेष्टित होकर निगूढभावमें रहती है ॥ २५ ॥ इदमज्ञानंसमष्टिव्यष्ट्यभिप्रायेणैकमनेकमितिच- व्यवह्रियते । तथाहि-यथावृक्षाणांसमष्ट्यभि- प्रायेणवनमित्येकत्वव्यपदेशः ॥ यथा वा जला नां समष्ट्यभिप्रायेण जलाशय इति तथा नाना त्वेन प्रतिभासमानजीवगताज्ञानानां समष्ट्यभि- प्रायेण तदेकत्वव्यपदेशः । “अजामेकाम्” इत्यादिश्रुतेः । इयं समष्टिरुत्कृष्टोपाधितया विशु- द्धसत्वप्रधाना । एतदुपहितं चैतन्यंसर्वज्ञत्वसर्वै- श्वरत्वसर्वनियंतृत्त्वादिगुणकं सदसदव्यक्तमन्तर्या- मि जगत्कारणमीश्वर इति च व्यपदिश्यते । सकलाज्ञानावभासकत्वादस्य सर्वज्ञत्वम् । “यः सर्वः स सर्ववित्” इति श्रुतेः ॥ २६ ॥ (सं०टी०)अज्ञानं विभजते । इदमिति । वस्तुतोऽज्ञा- नस्यैकत्वेपि समष्ट्यभिप्रायेणैकमिति व्यवह्रियते । व्यष्ट्यभि- प्रायेणानेकमित्यर्थः । तदेव प्रपंचयितुं प्रतिजानीते । तथाहीति। यथा बहूनां वृक्षाणां समुदायविवक्षया वनमित्येकत्वव्यपदेशः यथा बहूनां नद्यादिजलानां समुदायविवक्षया जलाशय इत्ये कत्वव्यपदेशःतथांतःकरणोपाधिभेदेन नानात्वेन प्रतीयमानानां जीवगताज्ञानानां समुदायविवक्षयाऽज्ञानमित्येकत्वव्यपदेश इ- त्यर्थः । अस्मिन्नर्थे श्रुतिं प्रमाणयति । अजामिति । “अजा-