वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 24, कुल 145 में से
संदर्भ में पढ़ें( २४ ) वेदान्तसार । चैतन्यस्वरूप ब्रह्म, सर्वज्ञ सर्वेश्वर सर्वनियन्ता अव्यक्त अ- न्तर्यामी जगतकारण और ईश्वर इन शब्दोंसे व्यवहार किया जाता है जो सम्पूर्ण अज्ञानके प्रकाशका हेतु है वही सर्वज्ञ है। श्रुतिमेंभी कहा है-“जो जगत्को सामान्यरूप और विशेष- रूपसे जानता है वह सर्वज्ञ है,, ॥ २६ ॥ ईश्वरस्येयं समष्टिरखिलकारणत्वात्-कारणशरी- रमानन्दप्रचुरत्वात् कोशवदाच्छादकत्वाच्चानन्द- मयकोशः सर्वोपरमत्वात् सुषुप्तिः।अत एव स्थूल- सूक्ष्मप्रपञ्चलयस्थानमिति चोच्यते, यथा वनस्य व्यष्ट्यभिप्रायेण वृक्षा इत्यनेकत्वव्यपदेशः, यथा वा जलाशयस्य व्यष्ट्यभिप्रायेण जलानीति, तथा ऽज्ञानस्य व्यष्ट्यभिप्रायेण तदनेकत्वव्यपदेशः । “ इन्द्रो मायाभिः पुरुरूप ईयते ” इत्यादिश्रुतेः । अत्र समस्तव्यापित्वेन समष्टिव्यष्टिव्यपदेशः॥२७॥ (सं०टी० ) इदानीं तस्यैवेश्वरस्य समुदायोपाधिरेव का- रणशरीरत्वमानंदमयकोशत्वं सुषुप्त्यवस्थावैशिष्ट्यं च लभ- त इत्याह । ईश्वरस्येति । कारणशरीरत्वे हेतुमाह । अखिले- ति । आनन्दमयत्वे हेतुमाह । आनंदप्रचुरत्वादिति । कार- णावस्थायां प्रकृतिपुरुषमात्रव्यतिरिक्तस्य स्थूलसूक्ष्मकार्य- प्रपंचस्यैवाभावादानंदबाहुल्यमिति कोशत्वे युक्तिमाह । आ- च्छादकत्वादिति।शरीराच्छादकचर्मवदात्माच्छादकत्वादज्ञा- नस्यैव कोश इति व्यवहारः । ननु तथापि कारणत्वोपाधैरज्ञा-