भारतकोश
वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

पृष्ठ 25, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 25

संस्कृतटीका-भाषाटीकासमेत । (२५) नस्य सुषुप्तित्वं कुत इत्यत आह । सर्वोपरमत्वादिति । सर्व- स्य स्थूलसूक्ष्मोपाधेः कारणोपाधौ लीनत्वात्सुषुप्तित्वमित्यर्थः ननु स्थूलसूक्ष्मप्रपंचलयस्थानस्य कथं सुषुप्तित्वमित्याशंक्यसं- ज्ञाभेद इत्याह।अत एवेति।लयकारणात्सुषुप्तित्वं अतएव पंची- कृतभूतकार्यस्य स्थूलप्रपंचस्य जाग्रदवस्थाविशिष्टस्यापंचीकृ- तभूतकार्यस्य । सूक्ष्मप्रपंचस्य स्वामप्रपंचविशिष्टस्य लयस्था- नमित्यपि व्यवहियत इत्यर्थः । समष्टिरूपाज्ञानं सप्रपंचं निरू- प्येदानीं व्यष्टिभूतमज्ञानं निरूपयितुं दृष्टांतौ तावद्दर्शयति । य- था वनस्येति । यथा बहुवृक्षसमुदायस्य वनत्वेन रूपेणैकत्व- व्यवहारेपि प्रत्येकविवक्षया चूतादयो बहवोपि वृक्षाः तिष्ठं- तीति बहुत्वव्यवहारः । यथा वापीकूपतडागादिषु समुदा- यविवक्षया जलाशय इत्येकत्वव्यवहारेऽपि प्रत्येकवाप्यादिवि- वक्षया बहूनि जलानि तिष्ठंतीति बहुत्वव्यवहारः ॥ तथा स- कलप्रपंचकारणस्याज्ञानस्य समुदायरूपेणैकत्वेपि अहंकारादि- कारणीभूतानां जीवगताज्ञानानां प्रत्येकविवक्षया बहुत्वव्यव- हार इत्यर्थः ॥ अस्मिन्नर्थे श्रुतिं प्रमाणयति । इंद्र इति । ननु तथाप्येकस्यैवाज्ञानस्य तदवच्छिन्नचैतन्यस्य च व्यष्टिसमष्टि- ता कुत इत्यत आह । अत्रेति । भेदविवक्षया व्यष्टित्वं मृद्ध- टादिवत् । अभेदविवक्षया च समष्टित्वं मृत्पिंडवदित्यर्थः२७॥ ( भा०टी० ) ईश्वरकी उपाधिस्वरूप यह अज्ञान समष्टि, प्रपञ्चब्रह्माण्डका कारण है इसी कारण इसको कारणशरीर