वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 57, कुल 145 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासमेत । ( ५७ ) पक्षी सर्पादिको अण्डज कहते हैं। स्वेद ( पसीना ) से उत्पन्न होनेवाले यूका मशक आदि स्वेदज कहते हैं। पृथिवीको भेदकर उत्पन्न होनेवाले वेल वृक्ष इत्यादिको उद्भिज्ज कहते हैं ॥ ५६ ॥ अत्रापि चतुर्विधस्थूलशरीरम् ॥ एकानेकबुद्धि- विषयतया वनवज्जलाशयवद्वा समष्टिः, वृक्षवज्जल- वद्वा व्यष्टिरपि भवति । एतत्समष्ट्युपहितं चैतन्यं वैश्वानरो विराडिति चोच्यते । सर्वनराभिमानि- त्वाद्विविधं राजमानत्वाच्च अस्यैषा समष्टिः स्थूल- शरीरं अन्नविकारत्वादन्नमयकोशः। स्थूलभोगाय- तनत्वाज्जाग्रदिति चोच्यते ॥ ५७ ॥ ( सं०टी० ) पूर्ववदत्रापि समष्टित्वं व्यष्टिभेदं दर्शयति।अ- त्रापीति । चतुर्विधशरीरजातमपि शरीरमित्येकबुद्धिविषय- तया वनवत्समष्टित्वं प्रत्येकं तत्तच्छरीरविषयतयाऽनेकबुद्धि विषयत्वात् व्यष्टित्वं च लभत इत्यर्थः । अधुना भूरादिचतु- र्दशभुवनांतर्गतचतुर्विधस्थूलशरीरसमष्ट्युपहितचैतन्यस्यवैश्वा नरत्वापरपर्यायं वैराजत्वं दर्शयति । एतदिति । तत्र युक्ति- माह । सर्वनराभिमानित्वादिति । सर्वप्राणिनिकायेष्वहमि- त्यभिमानवत्त्वाद्वैश्वानरत्वं विविधं नानाप्रकारेण प्रकाशमा- नत्वाच्च वैराजत्वं लभत इत्यर्थः । अस्येति । अस्य विरा- ट्चैतन्यस्यैषा पूर्वोक्ता या ब्रह्मांडांतर्गतचतुर्विधस्थूलशरीर- समष्टिरेव स्थूलशरीरमित्यर्थः । अन्नविकारत्वादिति । अन्नवि- कारबाहुल्यादन्नमयत्वं आत्माच्छादकत्वात्कोशत्वं स्थूलशरी