भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 120, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 120

तृतीयाेऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ९९


राक्षसी-( सहर्षम् । ) लुहिलप्पिआ एहि । गच्छिअ दोणश्श लुहिलं पिवम्ह । ( रुधिरप्रिय, एहि । गत्वा द्रोणस्य रुधिरं पिबावः । ) राक्षसः-( सभयम् । ) वशागन्धे, ब्रह्मणशोणिअं क्खु एदं गलअं दहन्ते दहन्ते पविशदि । ता किं एदिणा । ( वसागन्धे, ब्राह्मणशोणितं खल्वेतत् गलं दहद्दहत् प्रविशति । तत्किमेतेन । ) ( नेपथ्ये पुनः कलकलः । ) राक्षसी-लुहिलप्पिआ, पुणोवि एशे महन्ते कलअले शुणीअदि । ( रुधिरप्रिय, पुनरप्येष महान्कलकलः श्रूयते । ) राक्षसः--( नेपथ्याभिमुखमवलोक्य । ) वशागन्धे, एशे क्खु अश्शत्थामे आकट्टिदाशिवत्ते एदो एव्व आअच्छदि । कदावि दुपदुशदलोशेण अम्हेवि वावादईउशइ । ता एहि । अतिक्कमम्ह । ( वसागन्धे एष खल्वश्वत्थामाकृष्ट-

द्रोणः = आचार्यः, असिपत्रेण=खड्गेन, व्यापाद्यते = हन्यते इत्यन्वयः । खलुशब्दो वाक्यालङ्कारे । युधिष्ठिरादश्वत्थामा हत इति श्रुत्वा पुत्रशोकेन शस्त्रं विहाय स्थितो द्रोणः धृष्टद्युम्नेन हतः धृष्टद्युम्नपितुः द्रुपदस्य वरप्रदानमासीत् यत्तव पुत्रेण द्रोणस्य घातः स्यादतो धृष्टद्युम्नस्तं जघानेति भावः । गलं = कण्ठम्, दहत् = भस्मं कुर्वत्, ब्राह्मणस्य तेजस इति भावः । किमेतेन = किं पानेन, न पातव्यमिति भावः । अश्वत्थामा = द्रोणपुत्रः, आकृष्टासिपत्रः = आकृष्टम् कोशान्निःसृतम् असिपत्रम्, खड्गः यस्य सः । इत एव = अस्मादेव मार्गात् । द्रुपदसुतरोषेण = धृष्टद्युम्नविषयक- क्रोधेन, अनेनैव मत्पिता हत इति रोषहेतुः । व्यापादयिष्यति = हनिष्यति । तत् =

राक्षसी-ओ रुधिर प्रिय ! रुधिर प्रिय !! आइए हम लोग भी चल कर द्रोणाचार्य का रक्तपान करें । राक्षस-( भयभीत होता हुआ ) अरी वसागन्धे, यह ब्राह्मण का रुधिर है, गला भस्म करता हुआ भीतर प्रवेश करता है तो पुनः इसके पान करने से क्या लाभ ? ( नेपथ्य की ओर फिर कोलाहल सुनाई पड़ता है । ) राक्षसी-अरे रुधिरप्रिय ! उठ देख यह हल्ला फिर क्यों सुनाई दे रहा है ? राक्षस-(नेपथ्य की ओर देखकर) यह द्रोणपुत्र अश्वत्थामा हाथ में करवाल (तलवार) लिए हुए इधर ही आ रहे हैं । कदाचित् ऐसा न हो कि धृष्टद्युम्न का क्रोध हमी लोगों पर