भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 137, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 137

११६ वेणीसंहारं नाटकं कृपः—परिगतपरिगन्तव्य एव भवान्। तदलमत्यन्तशोकावेगेन। अश्वत्थामा—मातुल, परित्यक्तमेव मया परिदेवितम्। एषोऽहं सुत- वत्सलं तातमेवानुगच्छामि। कृपः—वत्स अनुपपन्नमीदृशं व्यवसितं भवद्विधानाम्। सूतः—कुमार, अलमतिसाहसेन। अश्वत्थामा—आर्य शारद्वत, यद्वियोगभयात्तातः परलोकमितो गतः। करोम्यविरहं तस्य वत्सलस्य सदा पितुः ॥ १७॥ परिगतपरिगन्तव्यः—परिगतः अवगतः परिगन्तव्यः ज्ञातव्यः येन सः। परिदेवितं = प्रलापः, सुतवत्सलं = पुत्रस्नेहिनम्, तातं = पितरम्, अनुगच्छामिः अनुव्रजामि, अहमपि प्राणत्यागं करोमीति भावः। ईदृशम् = त्वया चिन्तितम् व्यवसितं = व्यवसायः अनुपपन्नम् = अयुक्तम्, भ- द्विधानाम् = वीराणाम्, वीराणामात्मघातो न युक्तः किन्तु प्रतिक्रियेवेति भावः। अन्वयः—तातः, मद्वियोगभयात्, इतः, परलोकम्, गतः, तस्य, वत्सलस्य पितुः, सदा, अविरहम्, करोमि ॥ १७॥ तद्वियोगे मयाऽपि न जीवितव्यमित्याह--मद्वियोगेति। तातः = पिता, मद्वियोगभयात् = मया सह विरहभीतेः, इतः = अस्माल्लोकात् परलोकम् = स्वर्गम्, गतः, तस्य वत्सलस्य पितुः, सदा = जीवनपर्यन्तम्, अविर- हम् = वियोगाभावम् करोमि, मम प्राणत्याग एव श्रेष्ठः। क्वचित्सहित्ये विरहमिति पाठः। अत्र पूर्वार्द्धं उत्तरार्द्धो हेतुरिति वाक्यार्थगतकाव्यलिङ्गमलङ्कारः। पथ्यावक्त्रं छन्दः ॥ १७॥ कृप—ज्ञातव्य विषय तो आपको विदित हो ही गया। अब अधिक विलाप करने कोई लाभ नहीं। अश्वत्थामा—मामा, मैने विलाप करना छोड़ ही दिया। मैं पुत्रप्राण पिता ही अनुसरण करने जा रहा हूँ। कृप—आप सदृश व्यक्ति के लिए इस प्रकार के विचार सर्वथा अनुचित हैं। सूत—कुमार, साहस की यह चरमसीमा है। अश्वत्थामा—आर्य, शारद्वत, आप क्या कहते हैं ? मुझसे वियुक्त हो जाने के भय से मेरे पिता इस लोक से अन्यलोक में प्रस्थान कर गये। उन आदरणीय पिता का वियोग भला मैं किस प्रकार सहन कर सक .. हूँ॥ १७॥