भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 141, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 141

१२० वेणीसंहारं नाटकं (सक्रोधं सकम्पं च कृपसूतौ दृष्ट्वा ।) किं नामेदम् । प्रत्यक्षमात्तधनुषां मनुजेश्वराणां प्रायोपवेशसदृशं व्रतमास्थितस्य । तातस्य मे पलितमौलिनिरस्तकाशे व्यापारितं सिरसि शस्त्रमशस्त्रपाणेः ॥ कृपः-वत्स एवं किल जनः कथयति । अश्वत्थामा-किं तातस्त दुरात्मना परिमृष्टमभूच्छिरः । सैनिकाः सहध्वम्, एतादृशोज्याचारी धृष्टद्युम्नो याति परं केऽपि किमपि न कुर्व- न्तीतिभावः । मन्दाक्रान्ता छन्दः ॥ २० ॥ अन्वयः -आत्तधनुषाम्, मनुजेश्वराणाम्, प्रत्यक्षम्, प्रायोपवेशसदृशम्, व्रतम्, आस्थितस्य, मे, तातस्य, अशस्त्रपाणेः, पलितमौलिनिरस्तकाशे, शिरसि, शस्त्रम्, व्यापारितम् ॥ २१ ॥ किं त्यक्तशस्त्रस्य पितुरुपरि प्रहारः कृत इत्याह-प्रत्यक्षमिति । आत्तधनुषां=गृहीतचापानाम्, मनुजेश्वराणां = राज्ञाम्, प्रत्यक्षम् = साक्षात्, प्रायोपवेशसदृशम् = प्रायः अनशनं तदर्थम् उपवेशः तत्सदृशम्, 'प्रायस्थानशने मृत्यौ प्रायो बाहुल्यतुल्ययोरिति' विश्वः व्रतं=नियमम्, आस्थितस्य = गृहीतस्य, इदं तातस्य विशेषणम् । मे = मम, तातस्य = पितुः, अशस्त्रपाणेः=शस्त्रशून्यहस्तस्य, एतेन शस्त्रप्रहारस्य योग्यता नास्तीति सूचितम् । पलितमौलिनिरस्तकाशे = पलितैः शुक्लैः, मौलिभिः बद्धकेशैः निरस्तः तिरस्कृतः काशः स्वच्छतृणविशेषः येन तस्मिन्, शिरसि=मूर्द्धनि, शस्त्रम्, व्यापारितम्=प्रहारः कृतः । शस्त्रधारिणां राज्ञां समीपे त्यक्तशस्त्रस्य पितुरुपरि यत् प्रहारः कृतः तदनुचितम् । राज्ञो च रक्षणं समुचितम्, तदपि तेनं कृतमितिभावः । अत्र तृतीयचरणे आर्थोपमाऽलङ्कारः । वसन्ततिलका छन्दः ॥ प्रश्नोत्तरमाह-एवं किल जनः कथयतीति । दुरात्मना=दुष्टेन, धृष्टद्युम्नेन, तातस्य शिरः, परिमृष्टं = स्पृष्टं, किमभूत् , किमिति प्रश्ने । (क्रोध और कम्प के साथ कृप और सूत को देखकर) क्यों यह बात ? धनुर्धर नरेशों के देखते देखते जो आमरण अनशन व्रत के अनुरूप व्रतधारी, मेरे पिता थे, जिनके हाथ में कोई भी शस्त्र नहीं था, शिर पर, जिनके केश-पाश कुसुम के सदृश धवल थे, शस्त्र प्रहार किया है ॥ २१ ॥ कृप-पुत्र, लोग इस प्रकार कहते हैं । अश्वत्थामा-(सूत से) क्या पिता का शिर उस दुरात्मा के द्वारा पकड़ा गया था !