वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 141, कुल 355 में से
संदर्भ में पढ़ें१२० वेणीसंहारं नाटकं (सक्रोधं सकम्पं च कृपसूतौ दृष्ट्वा ।) किं नामेदम् । प्रत्यक्षमात्तधनुषां मनुजेश्वराणां प्रायोपवेशसदृशं व्रतमास्थितस्य । तातस्य मे पलितमौलिनिरस्तकाशे व्यापारितं सिरसि शस्त्रमशस्त्रपाणेः ॥ कृपः-वत्स एवं किल जनः कथयति । अश्वत्थामा-किं तातस्त दुरात्मना परिमृष्टमभूच्छिरः । सैनिकाः सहध्वम्, एतादृशोज्याचारी धृष्टद्युम्नो याति परं केऽपि किमपि न कुर्व- न्तीतिभावः । मन्दाक्रान्ता छन्दः ॥ २० ॥ अन्वयः -आत्तधनुषाम्, मनुजेश्वराणाम्, प्रत्यक्षम्, प्रायोपवेशसदृशम्, व्रतम्, आस्थितस्य, मे, तातस्य, अशस्त्रपाणेः, पलितमौलिनिरस्तकाशे, शिरसि, शस्त्रम्, व्यापारितम् ॥ २१ ॥ किं त्यक्तशस्त्रस्य पितुरुपरि प्रहारः कृत इत्याह-प्रत्यक्षमिति । आत्तधनुषां=गृहीतचापानाम्, मनुजेश्वराणां = राज्ञाम्, प्रत्यक्षम् = साक्षात्, प्रायोपवेशसदृशम् = प्रायः अनशनं तदर्थम् उपवेशः तत्सदृशम्, 'प्रायस्थानशने मृत्यौ प्रायो बाहुल्यतुल्ययोरिति' विश्वः व्रतं=नियमम्, आस्थितस्य = गृहीतस्य, इदं तातस्य विशेषणम् । मे = मम, तातस्य = पितुः, अशस्त्रपाणेः=शस्त्रशून्यहस्तस्य, एतेन शस्त्रप्रहारस्य योग्यता नास्तीति सूचितम् । पलितमौलिनिरस्तकाशे = पलितैः शुक्लैः, मौलिभिः बद्धकेशैः निरस्तः तिरस्कृतः काशः स्वच्छतृणविशेषः येन तस्मिन्, शिरसि=मूर्द्धनि, शस्त्रम्, व्यापारितम्=प्रहारः कृतः । शस्त्रधारिणां राज्ञां समीपे त्यक्तशस्त्रस्य पितुरुपरि यत् प्रहारः कृतः तदनुचितम् । राज्ञो च रक्षणं समुचितम्, तदपि तेनं कृतमितिभावः । अत्र तृतीयचरणे आर्थोपमाऽलङ्कारः । वसन्ततिलका छन्दः ॥ प्रश्नोत्तरमाह-एवं किल जनः कथयतीति । दुरात्मना=दुष्टेन, धृष्टद्युम्नेन, तातस्य शिरः, परिमृष्टं = स्पृष्टं, किमभूत् , किमिति प्रश्ने । (क्रोध और कम्प के साथ कृप और सूत को देखकर) क्यों यह बात ? धनुर्धर नरेशों के देखते देखते जो आमरण अनशन व्रत के अनुरूप व्रतधारी, मेरे पिता थे, जिनके हाथ में कोई भी शस्त्र नहीं था, शिर पर, जिनके केश-पाश कुसुम के सदृश धवल थे, शस्त्र प्रहार किया है ॥ २१ ॥ कृप-पुत्र, लोग इस प्रकार कहते हैं । अश्वत्थामा-(सूत से) क्या पिता का शिर उस दुरात्मा के द्वारा पकड़ा गया था !