वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 142, कुल 355 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् १२१ सूतः—( सभयम् । ) कुमार, आसीदयं तस्य तेजोरार्शेर्देवस्य नवः परिभवावतारः । अश्वत्थामा—हा तात, हा पुत्रप्रिय, मम मन्दभागधेयस्य कृते शस्त्र- परित्यागात्तथाविधेन क्षुद्रेणात्मा परिभावितः । अथवा— परित्यक्ते देहे रणशिरसि शोकान्धमनसा शिरः श्वा काको वा द्रुपदतनयो वा परिमृशेत् । असंख्यातास्त्रौघद्रविणमदमत्तस्य च रिपो- र्ममैवायं पादः शिरसि निहितस्तस्य न करः ॥ २२ ॥ परिभवावतारः = अनादरोत्पत्तिः । अन्वयः—शोकान्धमनसा, रणशिरसि, देहे, परित्यक्ते, श्वा, काकः, वा, द्रुपद- तनयः, वा, शिरः, परिमृशेत्, असंख्यातास्त्रौघद्रविणमदमत्तस्य, रिपोः, च, मम, एव शिरसि, अयम्, पादः, निहितः, तस्य करः, न ॥ २२ ॥ न तस्यानादरः कृतः किन्तु ममैवेत्याह—परित्यक्ते देहे रणशिरसीति । शोकान्धमनसा = शोकेन अन्धम् उद्विग्नं कृत्याकृत्यविवेकशून्यमित्यर्थः, मनः यस्य तेन रणशिरसि = प्रधानसंग्रामे, देहे, परित्यक्ते=परित्यक्तुमारेम्भे 'आदिकर्मणि' इति क्तप्रत्ययः । श्वा==कुक्कुरः, काकः = ध्वाङ्क्षः, वा, द्रुपदतनयः = धृष्टद्युम्नः वा, शिरः = मस्तकम्, परिमृशेत्, कोऽपि परिमृशत्वित्यर्थः । असंख्यातास्त्रौघद्रविणमद- मत्तस्य = असंख्यातः अगणितः अस्त्रौघः शस्त्रसमूहः स इव द्रविणं तज्जन्यो यो मदः तेन मत्तस्य, रिपोः = शत्रोः, च, ममैव, शिरसि अयं पादः=चरणः, निहितः=दत्तः, तस्य करः न । तस्य करो द्रोणस्य शिरसि न तेन निहितः किन्तु मम शिरसि तस्य सूत—( डरता हुआ ) कुमार, शौर्यराशि आपके पिता के तिरस्कार का सर्वप्रथम यह अवसर था । अश्वत्थामा—हा पिता, सुतवत्सल, मुझ हतभाग्य के निमित्त शस्त्रपरित्याग के कारण उस दुरात्मा द्वारा आप अपमानित हुए है ( सोचकर ) अथवा— शोक से सन्तप्तहृदय होकर समराङ्गण के बीच शरीर का परित्याग करने पर शिर को चाहे कुत्ता, कौवा अथवा द्रुपदपुत्र धृष्टद्युम्न स्पर्श करे । अगणित शस्त्रास्त्रराशि के धन से मदोन्मत्त शत्रु के मस्तक पर मेरा यह चरण बिना किसी बात के सोचे-विचारे रक्खा हुआ ही है अर्थात् पिता के शोकविह्वल हो जाने के कारण निश्शस्त्र दशा में वध कर देने पर चाहे शिर को जो छुए और द्रुपदपुत्र ने तो केवल हाथ से स्पर्श किया है किन्तु अब मैं असंख- य्य शस्त्रास्त्रों से सुसज्जित शत्रु के शिर पर पादप्रहार करके ही प्रतिशोध करूँगा ॥२२॥