वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 149, कुल 355 में से
संदर्भ में पढ़ें१२८ वेणीसंहारं नाटकं तेजस्वी रिपुहतबन्धुदुःखपारं बाहुभ्यां व्रजति धृतायुधप्लवाभ्याम् । आचार्यः सुतनिधनं निशम्य सङ्ख्ये किं शस्त्रग्रहसमये विशस्त्र आसीत् ॥ २७॥ अथवा सूक्तमिदमभियुक्तैः प्रकृतिर्दुस्त्यजेति । यतः शोकान्धमनसा तेन विमुच्य क्षत्रधर्मकार्कश्यं द्विजातिधर्मसुलभो दैन्यपरिग्रहः कृतः । कर्णः--राजन्, खल्विदमेवम् । अन्वयः--तेजस्वी, धृतायुधप्लवाभ्याम्, बाहुभ्याम् रिपुहतबन्धुदुःखपारम्, व्रजति, संख्ये, आचार्यः, सुतनिधनम्, निशम्य, शस्त्रग्रहसमये, किम्, विशस्त्रः, आसीत् ॥ २७ ॥ आचार्यस्य तदा शस्त्रत्यागो न कार्य इत्याह-तेजस्वी रिपुहतेति । तेजस्वी = प्रतापी, धृतायुधप्लवाभ्याम्=आयुधमेव, प्लवम् केवर्तदण्डविशेषः तव धृतं याभ्यां ताभ्याम्, बाहुभ्याम् रिपुहतबन्धुदुःखपारम् = रिपुणा व्यापादितो यो बन्धुः तन यद्दुख तस्य पारम्, व्रजति-गच्छति । सङ्ख्ये = सङ्ग्रामे, आचार्यः = द्रोणः, सुतनिधनम्, निशम्य = श्रुत्वा, शस्त्रग्रहसमये = शस्त्रधारणकाले, शत्रुवधार्थमिति भावः । किम् = कस्मात्, विशस्त्रः = शस्त्ररहितः, आसीत् = बभूव । तस्मिन् काले शत्रोर्वधः कार्यो यथाऽर्जुनेन कृत इति भावः । अत्र आयुधे प्लव- त्वारोपः शब्दः । दुःखे समुद्रत्वारोप आर्थ इत्येकदेशविवर्तिरूपकालङ्कारः । प्रहर्षिणी छन्दः ॥ २७ ॥ क्षत्रधर्मकार्कश्यं = क्षत्रियधर्मकाठिन्यम् । सर्वेषां वधेनेति भावः । द्विजातीति— ब्राह्मणेन न शस्त्रं ग्राह्यमिति भावः । प्रतापी पुरुष सशस्त्रभुजारूपी जलयान (जहाज) की सहायता से शत्रु के द्वारा वध किये गये कुटुम्बियों के दुःखसागर को पार कर जाते हैं फिर क्या कारण है आचार्य ने समर स्थली के बीच अपने पुत्र (अश्वत्थामा) का वध सुन कर शस्त्रग्रहण के समय में उसका त्याग कर दिया ! ॥ २७ ॥ अथवा—नीतिवेत्ताओं ने यथार्थ कहा है—'प्रकृति कदापि नहीं परिवर्तित होती' शोक के कारण विवेकशून्य होकर उन्होंने क्षत्रिय धर्म कठोर समझ कर ब्राह्मण धर्म के लिए सुलभ दीनता का आश्रय लिया । कर्ण—भूमिपाल ! कौरवाधिप ! यह बात इस प्रकार नहीं है ।